स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४९

विकिस्रोतः तः
Jump to navigation Jump to search


सूत उवाच ॥ ॥
तत्रैवास्ति महापुण्यो ह्रदतीरे व्यवस्थितः ॥
कलशेश्वर इत्याख्यः सर्वपापप्रणाशनः ॥ १ ॥
दृष्ट्वा प्रमुच्यते पापान्मनुष्यः कलशेश्वरम्॥ २ ॥
पुरासीत्कलशोनाम यदुवंशसमुद्भवः ॥
यज्वा दानपतिर्दक्षः सर्वलोकहिते रतः ॥ ३ ॥
कस्यचित्त्वथ कालस्य दुर्वासा मुनि सत्तमः ॥
चातुर्मास्यव्रतं कृत्वा तद्गृहं समुपस्थितः ॥ ४ ॥
अथोत्थाय नृपस्तूर्णं सम्मुखः प्रययौ मुदा ॥
स्वागतं स्वागतं तेस्तु ब्रुवाण इति सादरम् ॥ ५ ॥
ततः प्रणम्य तं भक्त्या प्रक्षाल्य चरणौ स्वयम् ॥
दत्त्वार्घमिति होवाच हर्षबाष्पाकुलेक्षणः ॥ ६ ॥
इदं राज्यममी पुत्रा इमा नार्य इदं धनम्॥
ब्रूहि सर्वं मुने त्वं च तव कार्यं ददाम्यहम् ॥ ७ ॥
॥ दुर्वासा उवाच ॥ ॥
युक्तमेतन्महाराज वक्तुं ते कार्यमीदृशम् ॥
गृहागताय विप्राय व्रतिनेऽस्मद्विधाय च ॥ ८ ॥
 न मे किञ्चिद्धनैः कार्यं न राज्येन नृपोत्तम ॥
चातुर्मास्यव्रतोऽतोऽहं पारणं कर्तृमुत्सहे ॥ ९ ॥
तस्माद्यत्किञ्चिदन्नं ते सिद्धमस्ति गृहे नृप ॥
तद्देहि भोजनार्थं मे बुभुक्षातीव वर्धते ॥ ६.४९.१० ॥
॥ सूत उवाच ॥ ॥
ततः स पृथिवीपालो यथासिद्धं सुसंस्कृम् ॥
अन्नं भोज्यकृते तस्मै प्रददौ स्वयमेव हि ॥ ११ ॥
व्यञ्जनानि विचित्राणि पक्वान्नानि बहूनि च ॥
पेयं चोष्यं च खाद्यं च लेह्यमन्नमनेकधा ॥
तथा मांसं विचित्रं च लवणाद्यैः सुसंस्कृतम् ॥ १२ ॥
अथासौ बुभुजे विप्रः क्षुत्क्षामस्त्वरयान्वितः ॥
अविन्दन्न रसास्वादं बृहद्ग्रासैर्मुदान्वितः ॥ १३ ॥
अथ तृप्तेन मांसस्य ज्ञातस्तेन रसो द्विजाः ॥
ततः कोपपरीतात्मा तं शशाप मुनीश्वरः ॥ १४ ॥
यस्मान्मांसं त्वया दत्त्वा व्रतभंगः कृतो मम ॥
तस्मात्त्वमामिषाहारो रौद्रो व्याघ्रो भविष्यसि ॥ १५ ॥
ततः स भूपतिर्भीतः प्रणम्य च मुनीश्वरम् ॥
प्रोवाच दीनवदनो वेपमानः सुदुःखितः ॥ १६ ॥
तव क्षुत्क्षामकण्ठस्य मया भक्तिः कृता मुने ॥
यथासिद्धेन भोज्येन तत्कस्माच्छप्तुमुद्यतः ॥ १७ ॥
तस्मात्कुरु प्रसादं मे भक्तस्य विनतस्य च ॥
शापस्यानुग्रहेणैव शीघ्रं ब्राह्मणसत्तम ॥ १८ ॥
॥ दुर्वासा उवाच ॥ ॥
मुक्त्वा श्राद्धं तथा यज्ञं न मांसं भक्षयेद्द्विजः ॥
विशेषेण व्रतस्यांते चातुर्मास्योद्भवस्य च ॥ १९ ॥
उपवासपरो भूत्वा मांसमश्नाति यो द्विजः ॥
वृथामांसाद्वृथा तस्य तद्व्रतं जायते ध्रुवम् ॥ ६.४९.२० ॥
तस्माद्व्रतं प्रणष्टं मे चातुर्मास्यसमुद्भवम् ॥
तेन शप्तोऽसि राजेंद्र मया कोपेन सांप्रतम् ॥ २१ ॥
॥राजोवाच ॥ ॥
तथापि कुरु मे विप्र शापस्यांतं यथेप्सितम् ॥
भक्तियुक्तस्य दीनस्य निर्दोषस्य विशेषतः ॥ २२॥
॥ दुर्वासा उवाच ॥ ॥
यदा ते नंदिनी धेनुर्लिंगं बाणार्चितं पुरा ॥
दर्शयिष्यति ते मुक्तिस्तदा तूर्णं भविष्यति ॥ २३ ॥
एवमुक्त्वा स विप्रेन्द्रो जगाम निजमाश्रमम् ॥
बभूव सोऽपि भूपालो व्याघ्रो रौद्रतमाकृतिः ॥ २४ ॥
नष्टस्मृतिस्ततस्तूर्णं दृष्ट्वा जंतून्पुरःस्थितान् ॥
जघानोच्चाटितोन्यैश्च प्रविवेश महावनम् ॥ २५ ॥
अथ ते मंत्रिणस्तस्य शापस्यातं महीपतेः ॥
वांछतस्तस्य तद्राज्यं चक्रुरेव सुरक्षितम् ॥ २६ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये कलशेश्वराख्याने कलशनृपतेर्दुर्वाससः शापेन व्याघ्रत्वप्राप्तिवर्णनंनामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९ ॥ ॥ ॥