स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४८

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
तत्रैवास्य समुद्देशे हरिश्चंद्रस्य भूपतेः ॥
आश्रमो ऽस्ति सुविख्यातो नानाद्रुमसमावृतः ॥ १ ॥
यत्र तेन तपस्तप्तं संस्थाप्योमामहेश्वरौ ॥
यच्छता विविधं दानं ब्राह्मणेभ्योऽभिवांछितम् ॥ २ ॥
आसीद्राजा हरिश्चंद्रस्त्रिशंकुतनयः पुरा ॥
अयोध्याधिपतिः श्रीमान्सूर्यवंशसमुद्भवः ॥ ३ ॥
न दुर्भिक्षं न च व्याधिर्नाकालमरणं ध्रुवम् ॥
तस्मिञ्छासति धर्मेण न च चौरकृतं भयम् ॥ ४ ॥
कालवर्षी सदा मेघः सस्यानि प्रचुराणि च ॥
रसवंति च तोयानि सर्वर्तुफलिता द्रुमाः ॥ ५ ॥२
दंडस्तत्राभवद्वास्तौ गृहरोधोऽक्षदेवने ॥
 एको दोषाकरश्चंद्रः प्रियदोषाश्च कौशिकाः ॥ ६ ॥
स्नेहक्षयश्च दीपेषु विवाहे च करग्रहः ॥
वृत्तभंगस्तथा गद्ये दानोत्थितिर्गजानने ॥ ७ ॥
तस्यैवं गुणयुक्तस्य सार्वभौमस्य भूपतेः ॥
एक एव महानासीद्दोषः पुत्रविवर्जितः ॥ ८ ॥
ततः पुत्रकृते गत्वा चकार सुमहत्तपः ॥
चमत्कारपुरे क्षेत्रे लिंगं संस्थाप्य भक्तितः ॥९॥
पंचाग्निसाधको ग्रीष्मे वर्षास्वाकाशसंस्थितः ॥
जलाश्रयश्च हेमंते स ध्यायति महेश्वरम् ॥ ६.४८.१० ॥
ततो वर्षसहस्रांते तस्य तुष्टो महेश्वरः ॥
प्रत्यक्षोऽभूत्समं गौर्या गणसंघैः समावृतः ॥ ११ ॥
उवाच वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥
अहं ते संप्रदास्यामि यद्यपि स्यात्सुदुर्लभम्॥।२॥
ततस्तं प्रणिपत्योच्चैः स्तुत्वा सूक्तैः श्रुतैरपि ॥
प्रोवाच विनयोपेतः कृतांजलिपुटः स्थितः ॥ १३ ॥
त्वत्प्रसादात्सुरश्रेष्ठ यत्किंचिद्धरणीतले ॥
तदस्ति मे गृहे सर्वं वांछितं स्वेन चेतसा ॥ १४ ॥
सुरूपाणि कलत्राणि राज्यं निहतकंटकम् ॥
शरीरं रोगनिर्मुक्तं संख्याहीनं तथा धनम्॥।५॥
एकं मे सुमहद्दुःखं यदपत्यं न विद्यते ॥
तस्माद्देहि सुतं देव प्रसन्नो यदि शंकर ॥।६॥ ॥
॥ श्रीभगवानुवाच ॥ ॥
अचिरेण नृपश्रेष्ठ पुत्रस्तव भविष्यति ॥
मत्प्रसादान्न संदेहस्तस्माद्गच्छ द्रुतं गृहम्॥।७॥
॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे गौरी कोपसंरक्तलोचना ॥
भर्त्सयित्वा महादेवं ततः प्रोवाच तं नृपम् ॥।८॥
यस्मात्त्वया महामूर्ख न प्रणामः कृतो मम ॥
हरादनंतरं तस्माच्छापं दास्याम्यहं तव ॥ १९ ॥
तव संलप्स्यते पुत्रो यथोक्तः शूलपाणिना ॥
परं तन्मृत्युजं दुःखं त्वं शिशुत्वेपि लप्स्यसे ॥ ६.४८.२० ॥
एवमुक्त्वा भगवती सार्धं देवेन शंभुना ॥
अदर्शनं ययौ पश्चात्तथान्यैरपि पार्श्वगैः॥ २१ ॥
सोऽपि राजा वरं लब्ध्वा शापं च तदनंतरम् ॥
न जगाम गृहं भूयश्चकार सुमहत्तपः ॥ २२ ॥
एकासनं समारूढौ कृत्वा गौरी महेश्वरौ ॥
ततश्चाराधयामास समं पुष्पानुलेपनैः ॥ २३ ॥
विशेषेण ददौ दानं ब्राह्मणेभ्यो महीपतिः ॥
भूमिशायी प्रशांतात्मा षष्ठकालकृताशनः ॥ २४ ॥
ततः संवत्सरस्यांते भगवान्वृषभध्वजः ॥
पार्वत्या सहितो भूयस्तस्य संदर्शनं गतः ॥ २५ ॥
ततः स नृपतिस्ताभ्यां युगपद्विधिपूर्वकम्॥
कृत्वा नतिं ततो वाक्यं विनयादिदमब्रवीत् ॥ २६ ॥
पुरा देवि मयानंदपूरे व्याकुल चेतसा ॥
न नता त्वं न मे कोपं तस्मात्त्वं कर्तुमर्हसि ॥ २७ ॥
देहार्धधारिणी देवि सदा त्वं शूलधारिणः ॥
तदैकस्मिन्नते कस्मान्न नता त्वं वदस्व मे ॥ २८ ॥
यस्तं नमति देवेशं तेन त्वं सर्वदा नता ॥
नतायां त्वयि देवेशो नतः स्यादिति मे मतिः ५२९ ॥
तथापि च पृथक्त्वेन मया त्वं तु नता सह ॥
एकासनं समारूढा तत्समं देवि पूजिता ॥ ६.४८.३० ॥
तस्मात्कुरु प्रसादं मे यः पुरोक्तः पुरारिणा ॥
सोस्तु वै सफलः सद्यो वरः पुत्रकृते मम ॥ ३१ ॥
यया वंशधरः पुत्रो दीर्घायुर्दृढविक्रमः ॥
त्वत्प्रसादाद्भवेद्देवि तथा त्वं कर्तुमर्हसि ॥ ३२ ॥
॥ श्रीदेव्युवाच ॥ ॥
नान्यथा मे वचो राजञ्जायतेऽत्र कथंचन ॥
तस्माद्बालोऽपि ते पुत्रः पंचत्वं समुपैष्यति ॥ ३३ ॥
दर्शयित्वा तु ते दुःखमल्पमृत्युसमुद्भवम् ॥
भूयः संप्राप्स्यति प्राणानचिरान्मे प्रसादतः ॥ ३४ ॥
भविष्यति च दीर्घायुस्ततो वंशधरो जयी ॥
सार्वभौमप्रधानश्च दानी यज्वा च धर्मवित् ॥ ॥ ३५ ॥
तस्माद्राजन्गृहं गत्वा कुरु राज्यमभीप्सितम् ॥
संप्राप्स्यसि सुतं श्रेष्ठं यादृशं कीर्तितं मया ॥ ३६॥
अन्योऽपि मानवो यो मां रूपेणा नेनसंस्थिताम् ॥
पूजयिष्यति चात्रैव समं देवेन शंभुना ॥ ३७ ॥
तस्याहं संप्रदास्यामि पुत्रान्हृदयवांछितान् ॥
तथान्यदपि यत्किंचिदचिरान्नात्र संशयः ॥ ३८ ॥
श्रीमहादेव उवाच ॥ ॥
भूय एव नृपश्रेष्ठ मत्तः प्रार्थय वांछितम् ॥
न वृथा दर्शनं मे स्यात्सत्यमेतद्ब्रवीमि ते ॥ ३९ ॥
॥ हरिश्चंद्र उवाच ॥ ॥
कृतकृत्योस्मि देवेश सर्वमस्ति गृहे मम ॥
पुत्रं त्यक्त्वा त्वया सोऽपि दत्तो वंशधरो जयी ॥ ६.४८.४० ॥
तथापि न तवादेशो व्यर्थः कार्यः कथंचन ॥
एतस्मात्कारणाद्देव याचयिष्यामि वांछितम् ॥ ४१ ॥
राजसूयकृतेऽस्माकं सदा बुद्धिः प्रवर्तते ॥
निषेधयंति मां सर्वे मन्त्रिणः सुहृदस्तदा ॥ ४२ ॥
सर्वैस्तैर्जायते यज्ञः पार्थिवैः करदीकृतैः ॥
युद्धं विना करं तेऽपि न यच्छन्ति यतो विभो ॥ ४३ ॥
ततो युद्धार्थिनं मां ते वारयंति हितैषिणः ॥
कृतोत्साहं मखप्राप्तौ नीतिमार्गसमाश्रिताः ॥ ४४ ॥
तस्मात्तव प्रसादेन राजसूयो भवेन्मखः ॥
अविघ्नः सिद्धिमायातु मम नान्यद्वृणोम्यहम् ॥४५॥
॥ सूत उवाच ॥ ॥
स तथेति प्रतिज्ञाय जगामादर्शन हरः ॥
सोऽपि लब्धवरो भूपः स्वमेव भवनं गतः ॥ ४६ ॥
एवं तेन नरेन्द्रेण पूर्वं तत्र विनिर्मितौ ॥
उमामहेश्वरौ पश्चान्निर्मितावितरैरपि ॥ ४७ ॥
यस्ताभ्यां कुरुते पूजां संप्राप्ते पंचमी दिने ॥
फलैः सर्वेषु गात्रेषु यावत्संवत्सरं द्विजाः ॥
सुतं प्राप्नोति सोऽभीष्टं स्ववंशोद्धरणक्षमम् ॥ ४८ ॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य उमामहेश्वरोत्पत्तिमाहात्म्यवर्णनंनामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८ ॥ ॥ ॥ ॥ ॥