स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४७

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ऋषय ऊचुः ॥ ॥
महाकालस्य माहात्म्यं विस्तरेण महामते ॥
अस्माकं सूतज ब्रूहि सर्वं वेत्ति यतो भवान् ॥ १ ॥
॥सूत उवाच ॥ ॥
आसीत्पूर्वं महीपाल इक्ष्वाकुकुलनन्दनः ॥
रुद्रसेन इति ख्यातः सर्वशत्रुनिषूदनः ॥ २ ॥
समुद्र इव गांभीर्ये सौम्यत्वे शशिसंनिभः ॥
वीर्ये यथा सहस्राक्षो रूपे कन्दर्पसन्निभः ॥ ३ ॥
तस्य कांतीति विख्याता पुरी सर्वगुणान्विता ॥
राजधान्यभवच्छ्रेष्ठा प्रोच्चप्राकारतोरणा ॥ ४ ॥
तथैवासीत्प्रिया तस्य भार्या परमसंमता ॥
ख्याता पद्मवतीनाम रूपौदार्य गुणान्विता ॥ ५ ॥
स तया सहितो राजा वैशाख्या दिवसे सदा ॥
समभ्येति निजस्थानात्सैन्येनाल्पेन संवृतः ॥ ६ ॥
चमत्कारपुरे क्षेत्रे पीठे तत्र द्विजोत्तमाः ॥
महाकालस्य देवस्य पुरतो रात्रिजागरम् ॥
करोति श्रद्धया युक्तः सभार्यः स महीपतिः ॥ ७ ॥
उपवासपरो भूत्वा ध्यायमानो महेश्वरम् ॥
गीतवाद्येन हृद्येन नृत्येन द्विजसत्तमाः ॥
धर्माख्यानेन विप्राणां वेदाध्ययनविस्तरैः ॥ ८ ॥
ततः प्रातः समुत्थाय स्नात्वा धौतांबरः शुचिः ॥
ददौ दानानि विप्रेभ्यस्तपस्विभ्यो विशेषतः ॥ ९ ॥
दीनांधकृपणेभ्यश्च तथान्येभ्यः सहस्रशः ॥
वर्षेवर्षे सदैवं स समभ्येत्य महीपतिः ॥
वैशाख्यां जागरं तस्य देवस्य पुरतोऽकरोत् ॥ ६.४७.१० ॥
यथायथा स भूपालः कुरुते रात्रिजागरम् ॥
महाकालाग्रतस्तस्य तथा वृद्धिः प्रजायते ॥ ११ ॥
शत्रवो विलयं यांति लक्ष्मीर्वृद्धिं प्रगच्छति ॥
एकदा स समायातस्तत्र यावन्महीपतिः ॥ १२ ॥
तत्रैव दिवसे तावन्महाकालस्य चाग्रतः ॥
अपश्यद्ब्राह्मणश्रेष्ठान्नानादिग्भ्यः समागतान् ॥ १३ ॥
वेदाध्ययनसंपन्नान्व्रतनिष्ठापरायणान् ॥
एके तत्र कथाश्चक्रुः सुपुण्या ब्राह्मणोत्तमाः ॥ १४ ॥
राजर्षीणां पुराणानां देवर्षीणां तथा परे ॥
तीर्थानां च तथा चान्ये ब्रह्मर्षीणां तथा परे ॥
यज्ञानां सागराणां च द्वीपानां च मनोहराः ॥ १५ ॥
अथ तान्पृथिवीपालः स प्रणम्य यथाक्रमम् ॥
उपविष्टः सभामध्ये तैः सर्वैश्चाभिनंदितः ॥ १६ ॥
कस्मिंश्चिदथ संप्राप्ते कथांते ते मुनीश्वराः ॥
पप्रच्छुर्भूमिपालं तु कौतूहलसमन्विताः ॥ १७ ॥
वैशाखीदिवसे राजंस्त्वं सदाभ्येत्य दूरतः ॥
वर्षेवर्षेऽस्य देवस्य पुरतो रात्रिजागरम् ॥ १८ ॥
प्रकरोषि प्रयत्नेन त्यक्त्वान्याः सकलाः क्रियाः ॥
स्नानदानादिका याश्च निर्दिष्टाः शास्त्रचिंतकैः ॥ १९ ॥
न ते यदि रहस्यं स्यात्तदाऽशेषं प्रकीर्तय ॥
नूनं त्वं वेत्सि तत्सर्वं यत्फलं रात्रिजागरे ॥ ६.४७.२० ॥
॥ राजोवाच ॥ ॥
रहस्यं परमं चैव यत्पृष्टोऽहं द्विजोत्तमाः ॥
युष्माभिः कीर्तयिष्यामि तथाप्यखिलमेव हि ॥ २१०
अहमासं वणिग्जात्या पुरा वै वैदिशे पुरे ॥
निर्धनो बंधुभिर्मुक्तः परिभूतः पदेपदे ॥ २२ ॥
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥
वैदिशे नाकरोद्वृष्टिं सप्त वर्षाणि पंच च ॥ २३ ॥
ततो वृष्टिनिरोधेन सर्वे लोकाः क्षुधार्द्दिताः ॥
अन्नाभावान्मृताः केचित्केचिद्देशांतरे गताः ॥ २४ ॥
ततोऽहं स्वां समादाय पत्नीं क्षुत्क्षामगात्रिकाम् ॥
अश्रुपूर्णमुखीं दीनां प्रस्खलन्तीं पदेपदे ॥२५॥
सौराष्ट्रं मनसि ध्यात्वा प्रस्थितस्तदनन्तरम् ॥
सुभिक्षं लोकतः श्रुत्वा जीवनाय द्विजोत्तमाः ॥२६॥
क्रमेण गच्छमानोऽथ भिक्षान्नकृतभोजनः ॥
आनर्तविषयं प्राप्तश्चमत्कारपुरांतिके ॥ २७ ॥
तत्र रम्यं मया दृष्टं पद्मिनीखण्डमंडितम् ॥
सरः स्वच्छोदकापूर्णं जलपक्षिभिरावृतम् ॥ २८ ॥
ततोऽहं तत्समासाद्य स्नातः शीतेन वारिणा ॥
क्षुधार्तश्च तृषार्तश्च श्रमार्तश्च विशेषतः ॥ २९ ॥
अथाहं भार्यया प्रोक्तो गृहाणेश जलाशयात् ॥
जलजानि क्रयार्थाय येन स्यादद्य भोजनम् ॥ ६.४७.३० ॥
एतत्संदृश्यते दूरात्पुरंदरपुरोपमम् ॥
पुरश्रेष्ठं समासाद्य विक्रयं कर्तुमर्हसि ॥ ॥३॥।
ततो मया गृहीतानि पद्मानि द्विजसत्तमाः ॥
विक्रयार्थं प्रभूतानि वाच्छमानेन भोजनम् ॥३२॥
चमत्कारपुरं प्राप्य ततोऽहं द्विजसत्तमाः ॥
भ्रांतस्त्रिकेषु सर्वेषु चत्वरेषु गृहेषु च ॥ ३३ ॥
न कश्चित्प्रतिगृह्णाति तानि पद्मानि मानवः ॥
मम भाग्यवशाल्लोको जातः क्रयपराङ्मुखः ॥३४॥
अथ क्षुत्क्षामकण्ठस्य श्रांतस्य मम भास्करः ॥
अस्ताचलमनुप्राप्तः संध्याकालस्ततोऽभवत् ॥ ३५ ॥
ततो वैराग्यमापन्नः सुप्तोऽहं भग्नमंदिरे ॥
तानि पद्मानि भूपृष्ठे निधाय सह भार्यया। ३६ ॥
अथार्धरात्रे संप्राप्ते श्रुतो गीतध्वनिर्मया ॥
ततश्च चिंतितं चित्ते जागरोऽयमसंशयम् ॥३७॥
तस्माद्गच्छामि चेत्कश्चित्पद्मान्येतानि मे नरः ॥
मूल्येन प्रतिगृह्णाति भोजनं जायते ततः ॥ ३८ ॥
एवं विनिश्चयं कृत्वा पद्मान्यादाय सत्वरम्॥
सभार्यः प्रस्थितस्तत्र यत्र गीतस्य निःस्वनः ॥ ३९ ॥
ततश्चायतने तस्मिन्प्राप्तोऽहं मुनिपुंगवाः ॥
अपश्यं देवदेवेशं महाकालं प्रपूजितम् ॥
अग्रस्थितैर्द्विजश्रेष्ठैर्जपगीतपरायणैः ॥ ६.४७.४० ॥
एके नृत्यं प्रकुर्वंति गीतमन्ये जपं परे ॥
अन्ये होमं द्विजश्रेष्ठा धर्माख्यानमथापरे ॥ ४१ ॥
ततः कश्चिन्मया पृष्टः क्रियते जागरोऽत्र किम् ॥
क एते जागरासक्ता लोकाः कीर्तय मे द्रुतम् ॥ ४२ ॥
तेनोक्तमेष देवस्य महाकालस्य जागरः ॥
क्रियते ब्राह्मणैर्भक्त्या उपवासपरायणैः ॥ ४३ ॥
अद्य पुण्यतिथिर्नाम वैशाखी पुण्यदा परा ॥
यस्यामस्य पुरो भक्त्या नरः कुर्यात्प्रजागरम् ॥
महाकालस्य देवस्य सौख्यं प्राप्नोत्यसंशयम् ॥ ४४ ॥
संति पद्मानि मे यच्छ मूल्यमादाय भद्रक ॥
भोजनार्थमहं दद्मि कलधौतपलत्रयम् ॥ ४५ ॥
ततोऽवधारितं चित्ते मया ब्राह्मणसत्तमाः ॥
पूजयामि महाकालं पद्मैरेतैः सुरेश्वरम् ॥ ४६ ॥
न मया सुकृतं किंचिदन्यदेहांतरे कृतम् ॥
नियतं तेन संभूत इत्थंभूतोऽस्मि दुर्गतः ॥ ४७ ॥
परं क्षुत्क्षामकंठेयं भार्या मे प्रियवादिनी ॥
अन्नाभावान्न संदेहः प्रातर्यास्यति संक्षयम् ॥ ४८ ॥
एवं चिंतयमानस्य मम सा दयिता ततः ॥
प्रोवाच मधुरं वाक्यं विनयावनता स्थिता ॥४९॥
मा नाथ कुरु पद्मानां विक्रयं धनलोभतः ॥
कुरुष्व च हितं वाक्यं यत्ते वक्ष्यामि सांप्रतम् ॥ ६.४७.५० ॥
उपवासो बलाज्जातः सस्याभावादसंशयम् ॥
अस्माकं जागरं चापि भविष्यति बुभुक्षया ॥ ५१ ॥
तत्रोभाभ्यां कृतं स्नानं दिवा सरसि शोभने ॥
घर्मार्त्ताभ्यां श्रमार्त्ताभ्यां कृतदेवार्चनं तथा ॥५२॥
तस्माद्देवं महाकालं पूजयामोऽधुना वयम् ॥
पद्मैरेतैः परं श्रेय आवयोर्येन जायते ॥ ५३ ॥
॥ राजोवाच ॥ ॥
उभाभ्यामथ हृष्टाभ्यां पूजितोऽयं महेश्वरः ॥
तैः पद्मैः सत्त्वमास्थाय कृत्वा पूजां द्विजोत्तमाः ॥ ५४ ॥
क्षुत्पीडया समायाता नैव निद्रा कथंचन ॥
स्वल्पापि मंदिरे चात्र स्थितयोर्हरसन्निधौ ॥५५॥
ततः प्रभातसमये प्रोद्गते रविमंडले ॥
मृतोऽहं क्षुधयाविष्टः स्थानेऽत्रैव द्विजोत्तमाः ॥ ५६ ॥
अथ सा दयिता मह्यं तदादाय कलेवरम्॥
हर्षेण महताविष्टा प्रविष्टा हव्यवाहनम् ॥ ५७ ॥
तत्प्रभावादहं जातः कांतीनाथो महीपतिः ॥
दशार्णाधिपतेः कन्या सापि जातिस्मरा सती ॥ ५८ ॥
ततः स्वयंवरं प्राप्ता मां विज्ञाय निजं पतिम् ॥
मयापि सैव विज्ञाय पूर्वपत्नी समाहृता ॥ ५९ ॥
एतस्मात्कारणादस्य महाकालस्य जागरम् ॥
वर्षेवर्षे च वैशाख्यां करोमि द्विजसत्तमाः ॥ ६.४७.६० ॥
अनया प्रियया सार्धं पुष्पधूपानुलेपनैः ॥
पूजयित्वा महाकालं सत्यमेतन्मयोदितम् ॥ ६१ ॥
कृतो विप्रा मया त्वेष स तदा रात्रिजागरः ॥
यथाप्येतत्फलं जातं देवस्यास्य प्रभावतः ॥ ६२ ॥
अधुना श्रद्धया युक्तो यथोक्तविधिना ततः ॥
यत्करोमि न जानामि किं मे संयच्छते फलम् ॥ ६३ ॥
एतद्वः सर्वमाख्यातं मया सत्यं द्विजोत्तमाः ॥
येन सत्येन तेनैष महाकालः प्रसीदतु ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
एतच्छ्रुत्वा द्विजश्रेष्ठा विस्मयोत्फुल्ललोचनाः ॥
प्रचक्रुर्जपतेस्तस्य साधुवादाननेकशः ॥ ६५ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
सत्यमुक्तं महीपाल त्वयैतदखिलं वचः ॥
महाकालप्रसादेन न किंचिद्दुर्लभं भुवि ॥ ६६ ॥
तस्माद्विशेषतः सर्वे वर्षेवर्षे वयं नृप ॥
करिष्यामोऽस्य देवस्य श्रद्धया रात्रिजागरम् ॥ ६७ ॥
ततः स पार्थिवस्ते च सर्व एव द्विजातयः ॥
प्रचक्रुर्जागरं तस्य महाकालस्य संनिधौ ॥६८॥
विशेषाद्धर्षसंयुक्ता विविधैर्गीतवादनैः ॥
धर्माख्यानैश्च नृत्यैश्च वेदोच्चारैः पृथग्विधैः ॥
तदारभ्य नृपाः सर्वे प्रचक्रुर्विस्मयान्विताः ॥ ६९ ॥
ततः प्रभाते विमले समुत्थाय स भूपतिः ॥
पूजयित्वा महाकालं तांश्च सर्वान्द्विजोत्तमान् ॥
अनुज्ञाप्य ययौ हृष्टः ससैन्यः स्वपुरं प्रति ॥ ६.४७.७० ॥
ततः कालेन संप्राप्य देहान्तं स महीपतिः ॥
संप्राप्तः परमं स्थानं जरामरणवर्जितम् ॥ ७१ ॥
एतद्वः सर्वमाख्यातं महाकालसमुद्भवम् ॥
माहात्म्यं ब्राह्मण श्रेष्ठाः सर्वपातकनाशनम् ॥ ७२ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशत्तमोऽध्यायः ॥ ४७ ॥ ॥