स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३३

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
अगस्त्यस्याश्रमोऽन्योस्ति तथा तत्र द्विजोत्तमाः ॥
यत्र तिष्ठति विश्वात्मा स्वयं देवो महेश्वरः ॥ १ ॥
शुक्लपक्षे चतुर्दश्यां चैत्रमासे दिवाकरः ॥
स्वयमभ्येत्य देवेशं पूजयत्येव शंकरम् ॥ २ ॥
तस्मादन्योऽपि यस्तस्यां भक्त्या चागत्य शंकरम् ॥
तमेव पूजयेद्भक्त्या स याति देवमन्दिरम् ॥ ॥ ३ ॥
यस्तत्र कुरुते श्राद्धं सम्यक्छ्रद्धासमन्वितः ॥
पितरस्तस्य तृप्यंते पितृमेधे कृते यथा ॥ ४ ॥
॥ ऋषय ऊचुः ॥ ॥
अगस्त्यस्याश्रमं प्राप्य कस्माद्देवो दिवाकरः ॥
प्रदक्षिणां प्रकुरुते वदैतन्मे सुविस्तरम् ॥ ५ ॥
॥ सूत उवाच ॥ ॥
कथयामि कथामेतां शृणुत द्विज सत्तमाः ॥
अस्ति विंध्य इति ख्यातः पर्वतः पृथिवीतले ॥ ६ ॥
यस्य वृक्षाग्रशाखायां संलग्नास्तरणेः कराः ॥
पुष्पपूगा इवाधःस्थैर्लक्ष्यंते मुग्धसि द्धकैः ॥ ७ ॥
अनभिज्ञास्तमिस्रस्य यस्य सानुनिवासिनः ॥
रत्नप्रभाप्रणुन्नस्य कृष्णपक्षनिशास्वपि ॥ ८ ॥
यस्य सानुषु मुंचंतो भांति पुष्पाणि पादपाः ॥
वायुवेगवशान्नूनं नीरौघ नीरदा इव ॥ ९ ॥
यस्मिन्नानामृगा भांति धावमाना इतस्ततः ॥
कलत्रपुत्रपुष्ट्यर्थं लोभार्थं मानवा इव ॥ ॥ ६.३३.१० ॥
निर्यासच्छद्मना बाष्पं वासिताशेषदिङ्मुखम् ॥
मुञ्चंति तरवो यत्र दन्तिदन्तक्षतत्वचः॥ ११ ॥
चीरिकाविरुतैर्दीर्घै रुदंत इव चापरे ॥
हस्तिहस्तहता वृक्षा मन्यन्ते यस्य सानुषु ॥ १२ ॥
इतश्चेतश्च गच्छद्भिर्निर्झरांभोभिरावृतः ॥
शुशुभे सितवस्त्राढ्यैः पुमानिव विभूषितः ॥ ॥ १३ ॥
यस्य स्पर्द्धा समुत्पन्ना पूर्वं सह सुमेरुणा ॥
ततः प्राह सहस्रांशुं गत्वा स क्रोधमूर्च्छितः ॥ १४ ॥
कस्माद्भास्कर मेरोस्त्वं प्रकरोषि प्रदक्षिणाम् ॥
कुलपर्वतसंज्ञेऽपि न करोषि कथं मयि ॥ १५ ॥
॥ भास्कर उवाच ॥ ॥
न वयं श्रद्धया तस्य गिरेः कुर्मः प्रदक्षिणाम् ॥
एष मे विहितः पन्था येनेदं विहितं जगत् ॥ १६ ॥
तस्य तुंगानि शृंगाणि व्याप्य खं संश्रितानि च ॥
तेन संजायते तस्य बलादेव प्रद क्षिणा ॥ १७ ॥
एतच्छ्रुत्वा विशेषेण संक्रुद्धो विंध्यपर्वतः ॥
प्रोवाच पश्य भानो त्वं तर्हि तुंगत्वमद्य मे ॥
रुरोधाथ नभोमार्गं येन गच्छति भास्करः ॥ १८ ॥
अथ रुद्धं समालोक्य मार्गं वासरनायकः ॥
चिन्तयामास चित्ते स्वे सांप्रतं किं करोम्यहम् ॥ १९ ॥
करोमि यद्यहं चास्य पर्वतस्य प्रदक्षिणाम् ॥
तद्भविष्यति कालस्य चलनं भुवनत्रये ॥ ६.३३.२० ॥
मासर्तुभुवनानां च तथा भावी विपर्ययः ॥
अग्निष्टोमादिकाः सर्वाः क्रिया यास्यंति संक्षयम् ॥
नष्टयज्ञोत्सवे लोके देवानां स्यान्महाव्यथा ॥ २१ ॥
एवं संचिन्त्य चित्तेन बहुधा तीक्ष्णदीधितिः ॥
जगाम मनसा भीतः सोऽगस्त्यं मुनिपुंगवम् ॥ २२ ॥
नान्योस्ति वारणे शक्तो विंधस्यास्य हि तं विना ॥
अगस्त्यं ब्राह्मणश्रेष्ठं मित्रावरुणसंभवम् ॥ २३ ॥
ततो द्विजमयं रूपं स कृत्वा तीक्ष्णदीधितिः ॥
चमत्कारपुरक्षेत्रे तस्याश्रमपदं ययौ ॥ २४ ॥
ततस्तु वैश्वदेवांते वेदोच्चारपरायणः ॥
प्रोवाच सोऽतिथिः प्राप्तस्तवाहं मुनिसत्तम ॥ २५ ॥
ततोऽगस्त्यः कृतानन्दः स्वागतं ते महामुने ॥
मनोरथ इवाध्यातो योऽग्निकार्यांत आगतः ॥ २६ ॥
तत्त्वं ब्रूहि मुनिश्रेष्ठ यद्ददामि तवेप्सितम् ॥
अदेयं नास्ति मे किञ्चित्कालेऽस्मिन्प्रार्थितस्य च ॥ २७ ॥
॥ भास्कर उवाच ॥ ॥
अहं भास्कर आयातो विप्ररूपेण सन्मुने ॥
सर्वकार्यक्षमं मत्वा त्वामेकं भुवनत्रये ॥ २८ ॥
त्वया पूर्वं सुरार्थाय प्रपीतः पयसांनिधिः ॥
वातापिश्च तथा दैत्यो भक्षितो द्विजकण्टकः ॥ २९ ॥
तस्माद्गतिर्भवास्माकं सांप्रतं मुनिसत्तम ॥
देवानामिह वर्णानां त्वमेव शरणं यतः ॥ ६.३३.३० ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स मुनिर्विप्रा विशेषेण प्रहर्षितः ॥
अर्घ्यं दत्त्वा दिनेशाय ततः प्रोवाच सादरम् ॥ ३१ ॥
धन्योऽस्म्यनुगृहीतोस्मि यन्मे त्वं गृहमागतः ॥
तस्माद्ब्रूहि करिष्यामि तव वाक्यमखंडितम् ॥ ३२ ॥
॥ भास्कर उवाच ॥ ॥
एष विंध्याचलोऽस्माकं मार्गमावृत्य संस्थितः ॥ ।
स्पर्द्धया गिरिमुख्यस्य सुमेरोर्मुनिसतम ॥ ३३ ॥
सामाद्यैर्विविधोपायैस्तस्मादेनं निवारय ॥
कालात्ययो यथा न स्याद्गतेर्भंगस्तथा कुरु ॥ ३४ ॥। ॥
॥ अगस्त्य उवाच ॥ ॥
अहं ते वारयिष्यामि वर्धमानं कुलाचलम् ॥
स्वस्थानं गच्छ तस्मात्त्वं सुखीभव दिवाकर ॥ ३५ ॥
ततः स प्रेषितस्ते न भास्करस्तीक्ष्णदीधितिः ॥
स्वं स्थानं प्रययौ हृष्टस्तमामंत्र्य मुनीश्वरम् ॥ ३६ ॥
अगस्त्योऽपि द्रुतं गत्वा विंध्यं प्रोवाच सादरम् ॥
न्यूनतां व्रज मद्वाक्याच्छीघ्रं पर्वतसत्तम ॥३७॥
दाक्षिणात्येषु तीर्थेषु स्नाने जाताद्य मे मतिः ॥
तवायत्ता गिरे सैव तत्कुरुष्व यथोचितम् ॥ ३८ ॥
स तस्य वचनं श्रुत्वा विंध्यः पर्वतसत्तमः ॥
अभजन्निम्नतां सद्यो विनयेन समन्वितः॥३९॥
अगस्त्योऽपि समासाद्य तस्यांतं दक्षिणं द्विजाः॥
त्वयैवं संस्थितेनाथ() स्थातव्यमित्युवाच तम् ॥ ६.३३.४० ॥
यावदागमनं मह्यं नात्र कार्या विचारणा ॥
नो चेच्छापं प्रदास्यामि येन संयास्यसि क्षयम् ॥४॥।
स तथेति प्रतिज्ञाय शापाद्भीतो नगोत्तमः॥
न जगाम पुनर्वृद्धिं तस्यागमनवांछया॥४२॥
सोऽपि तेनैवमार्गेण निवृत्तिं न करोति च॥
यावदद्यापि विप्रेंद्रा दक्षिणां दिशमाश्रित तः ॥४३॥
अथ तत्रैव चानीय लोपामुद्रां मुनीश्वरः ॥
समाहूय सहस्रांशुं ततः प्रोवाच सादरम् ॥ ४४ ॥
तव वाक्यान्मया त्यक्तः स्वाश्रमस्तीक्ष्णदी धिते ॥
तवार्थे च न गंतव्यं भूयस्तत्र कथंचन ॥ ४५ ॥
तस्मान्मद्वचनाद्भानो चतुर्दश्यां मधौ सिते ॥
यन्मया स्थापितं तत्र लिंगं पूज्यं हि तत्त्व या ॥ ४६ ॥
॥ भास्कर उवाच ॥ ॥
एवं मुने करिष्यामि तव वाक्यादसंशयम् ॥
पूजयिष्यामि तल्लिंगं वर्षांते स्वयमेव हि ॥ ४७ ॥
योऽन्यो हि तद्दिने लिंगं पूजयिष्यति मानवः ॥
मम लोकं समासाद्य स भविष्यति मुक्तिभाक् ॥ ४८॥
॥ सूत उवाच ॥ ॥
एतस्मात्कारणात्तत्र भगवांस्तीक्ष्णदीधितिः ॥
चैत्रशुक्लचतुर्दश्यां सांनिध्यं कुरुते सदा ॥ ४९ ॥
एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥
भूयो वदत वै कश्चित्संदेहश्चे द्धृदि स्थितः ॥ ६.३३.५० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये ऽगस्त्याश्रममाहात्म्यवर्णनं नाम त्रयस्त्रिंशत्तमोऽध्यायः ॥ ३३ ॥ छ ॥