सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२५

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तत्राश्चर्यमभूत्पूर्वं यत्तद्ब्राह्मणसत्तमाः ॥
तद्वोऽहं संप्रवक्ष्यामि गंगामाहात्म्यसंभवम् ॥ १ ॥
चमत्कारपुरे विप्रः पुरासीत्संशितव्रतः ॥
चंडशर्मेति विख्यातो रूपौदार्यगुणान्वितः ॥ २ ॥
स यदा यौवनोपेतस्तदा वेश्यानुरागकृत् ॥
श्रोत्रियोऽप्यभवद्विप्रो यौवनोद्भारपीडितः ॥ ३ ॥
स कदाचिन्निशीथेऽथ तृषार्तश्च समुत्थितः ॥
प्रार्थयामास तां वेश्यां पानीयं पातुमुत्सहे ॥ ४ ॥
अथ सा सलिलभ्रांत्या करकं मद्यसंभवम् ॥
समादाय ददौ पानं तस्मै निद्राकुलाय च ॥ ५ ॥
मुखमध्यगते मद्ये सोऽपि तां कोपसंयुतः॥
वेश्यां प्रभर्त्सयामास धिग्धिक्शब्दैर्मुहुर्मुहुः ॥६॥
किमिदंकिमिदं पापे त्वया कर्म विगर्हितम् ॥
कृतं यन्मुखमध्ये मे प्रक्षिप्ता निंदिता सुरा ॥ ७ ॥
ब्राह्मण्यमद्य मे नष्टं मद्यपानादसंशयम् ॥
प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥ ८ ॥
एवमुक्त्वा विनिष्क्रम्य तद्गृहाद्दुःखसंयुतः ॥
रुरोदाथ तदा गत्वा करुणं निर्जने वने ॥ ९ ॥
ततः प्रभातवेलायां स्नात्वा वस्त्रसमन्वितः ॥
त्यक्त्वा गात्रस्य रोमाणि समस्तानि द्विजोत्तमाः ॥ ६.२५.१० ॥
संप्राप्तो विप्रमुख्यानां सभा यत्र व्यवस्थिता ॥
पठंति सर्वशास्त्राणि वेदांतानि च कृत्स्नशः ॥ ११ ॥
अथासौ प्रणिपत्योच्चैः प्रोवाच द्विजसत्तमान्॥
जलभ्रांत्या सुरा पीता मया कुरुत निग्रहम् ॥ १२ ॥
अथ ते धर्मशास्त्राणि प्रविचार्य पुनःपुनः ॥
तमूचुर्ब्राह्मणाः सर्वे प्रायश्चित्तकृते स्थितम्॥ १३ ॥
॥ ब्राह्मणा ऊचुः ॥
अज्ञानाज्ज्ञानतो वापि सुरां चेद्ब्राह्मणः पिबेत्॥
अग्निवर्णं घृतं पीत्वा तावन्मात्रंविशु ध्यति ॥ १४ ॥
स त्वं वांछसि चेच्छुद्धिमग्निवर्णं घृतं पिब ॥
यावन्मात्रा सुरा पीता तावन्मात्रं विशुद्धये ॥ १५ ॥
स तथेति प्रतिज्ञाय घृतमादाय तत्क्षणात् ॥
चक्रे वह्निसमं यावत्पानार्थं द्विजसत्तमाः॥ १६ ॥
तावत्तस्य पिता प्राप्तः श्रुत्वा वार्तां सभार्यकः ॥
किमिदं किमिदं पुत्र ब्रुवाणो दुःख संयुतः ॥
अश्रुपूर्णेक्षणो दीनो वाष्पगद्गदया गिरा ॥ १७ ॥
ततः स कथयामास सर्वरात्रिसमुद्भवम्॥
वृत्तांतं तच्च विप्राणां प्रायश्चित्तं यथोचितम् ॥ ॥।८॥
अथ स ब्राह्मणान्प्राह सर्वांस्तान्द्विजसत्तमाः ॥
प्रायश्चित्तं सुतायास्मै ममान्यत्संप्रदीयताम् ॥।९॥
संचिन्त्य धर्मशास्त्राणि विचार्य च पुनः पुनः ॥
सर्वस्वमपि दास्यामि पुत्रहेतोरसंशयम् ॥ ६.२५.२० ॥
ततस्ते ब्राह्मणाः सर्वे भूयोभूयश्च सादरम् ॥
विचिंत्य धर्मशास्त्राणि तमूचुर्मुनिसत्तमाः ॥ ॥२॥।
नान्यदस्ति सुरापाने प्रायश्चित्तं द्विजन्मनाम् ॥
मौंजीहोमं विना विप्र यद्युक्तं तत्समाचर ॥२२॥
ततः स स्वसुतं प्राह नैव त्वं कर्तुमर्हसि ॥
यच्छ दानानि विप्रेभ्यस्तीर्थयात्रां समाचर ॥ २३ ॥
ततः शुद्धिं समाप्नोषि क्रमान्नियमसंयुतः ॥
व्रतैश्च विविधैश्चीर्णैः सत्यमेतद्ब्रवीम्यहम् ॥ २४ ॥
न ब्राह्मणसमादिष्टं प्रायश्चित्त विशुद्धये ॥ २५ ॥
॥ पुत्र उवाच ॥ ॥
एतन्मम महाभागा यद्ब्रुवंति व्रतादिकम् ॥
तस्मात्कार्यो मया तात मौंजीहोमो न संशयः ॥ २६ ॥
यन्मया तु कृतं बाल्ये तत्सर्वं क्षंतुमर्हसि ॥ २७ ॥
॥ सूत उवाच ॥ ॥
तस्य तं निश्चयं ज्ञात्वा स पिता सुतवत्सलः ॥
सर्वस्वं प्रददौ रुष्टो मरणे कृतनिश्चयः ॥ २८ ॥
साऽपि तस्य सती भार्या कृत्वा मृत्युविनिश्चयम् ॥
तमुवाच सुतं दृष्ट्वा सर्वं दत्त्वा गृहादिकम्॥ २९ ॥
आवाभ्यां संप्रविष्टाभ्यां वह्नौ पुत्र ततस्तदा ॥
मौंजीहोमस्त्वया कार्यो मां तातं यदि मन्यसे ॥ ६.२५.३० ॥
ततस्तौ दम्पती हृष्टौ यावद्वह्निसमीपगौ ॥
संजातौ मरणार्थाय स च ताभ्यां समुद्भवः ॥ ३१ ॥
तावत्प्राप्तो मुनिर्नाम शांडिल्यो वेदपारगः ॥
तीर्थयात्राप्रसंगेन तत्र देशे द्विजोत्तमाः ॥ ३२ ॥
स वृत्तांतं समाकर्ण्य कोपसंरक्तलोचनः ॥
अब्रवीद्ब्राह्मणान्सर्वान्भर्त्समानो मुहुर्मुहुः ॥ ३३ ॥
अहो मूढतमा यूयं यदेतद्ब्राह्मणत्रयम् ॥
वृथा मृत्युमवाप्नोति निग्रहे सुगमे सति॥३४॥
अत्र कात्यायनेनोक्तं यद्वचः सुमहात्मना ॥
तच्छृण्वन्तु द्विजाः सर्वे प्रायश्चित्ती तथाप्ययम् ॥ ३५ ॥
चांद्रायणानि कृच्छ्राणि तथा सांतपनानि च ॥
प्रायश्चित्तानि दीयंते यत्र गंगा न विद्यते ॥ ३६ ॥
अत्र विष्णुपदी गंगा तत्क्षेत्रे तु द्विजोत्तमाः ॥
तस्यां स्नानं करोत्वेष ततः शुद्धिमवाप्स्यति ॥ ३७ ॥
मौंजीहोमः प्रमाणं स्यान्मुनिवाक्येन चेद्भवेत् ॥
तदेतदपि वाक्यं हि कात्यायनमुनेः स्फुटम् ॥ ३८ ॥
ततस्ते ब्राह्मणाः सर्वे हर्षेण महतान्विताः ॥
साधुसाध्विति तं प्रोच्य प्रोचुः सत्यमिदं मुने ॥ ३९ ॥
ततः प्रबोध्य तं विप्रं निन्युस्तत्र द्विजोत्तमाः ॥
यत्र विष्णुपदी गंगा स्वयमेव व्यवस्थिता ॥ ६.२५.४० ॥
तत्र स ब्राह्मणो यावद्गंगातोयसमुद्भवम् ॥
गंडूषं कुरुते वक्त्रे तावच्छुद्धो बभूव सः ॥
उदरादखिलं तोयं निष्क्रांतं द्विजसत्तमाः ॥ ४१ ॥
ततोऽवगाहते यावत्तस्यास्तोयं सुशोभनम् ॥
तावदाकाशसंभूता गम्भीरोवाच भारती ॥ ४२ ॥
शुद्धोऽयं ब्राह्मणः साक्षाद्विष्णुपद्याः समागमात् ॥
स्नानादाचमनादेव तस्माद्यातु गृहं निजम् ॥ ॥ ४३ ॥
ततस्ते ब्राह्मणाः सर्वे चंडशर्मादयश्च ये ॥
दिष्ट्यादिष्ट्येति जल्पन्तः स्वानि हर्म्याणि भेजिरे ॥ ४४ ॥
॥ सूत उवाच ॥ ॥
एवं प्रभावा सा विप्रा गंगा विष्णुपदी स्थिता ॥
तस्य क्षेत्रस्य सीमांते पश्चिमे पापनाशिनी ॥ ४५ ॥
एतद्वः सर्वमाख्यातं विष्णुपद्याः समुद्भवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ ४६ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वर क्षेत्रमाहात्म्ये विष्णुपदीगंगामाहाम्यवर्णनंनाम पञ्चविंशोऽध्यायः ॥ २५ ॥ ॥ छ ॥