स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२१

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ब्राह्मणा ऊचुः ॥ ॥
मार्कंडेन कदा तत्र स्थापितः प्रपितामहः ॥
कस्मिन्स्थाने कृतस्तेन स्वाश्रमो मुनिना वद ॥ १ ॥
॥ सूत उवाच ॥ ॥
मृकण्डाख्यो द्विजश्रेष्ठ आसीद्वेदविदां वरः ॥
चमत्कारपुराभ्याशेवानप्रस्याश्रमे स्थितः ॥ २ ॥
शांतात्मा नियमोपेतश्चकार सुमहत्तपः ॥
तस्यैवं वर्तमानस्य वानप्रस्थस्य चाश्रमे ॥ ३ ॥
पश्चिमे वयसि प्राप्ते पुत्रो जज्ञे सुशोभनः ॥
सर्वलक्षणसंपूर्णः पूर्णचंद्रसमप्रभः ॥ ४ ॥
मार्कंड इति नामाऽथ तस्य चक्रे पिता स्वयम् ॥
सोऽतीव ववृधे बालस्तस्मिन्नाश्रम उत्तमे॥५॥
शुक्लपक्षं समासाद्य तारापतिरिवांबरे॥
वर्धमानस्य तस्यैवमतीताः पंच वत्सराः॥
बालक्रीडाप्रसक्तस्य पितुरुत्सङ्गवर्तिनः॥६॥
कस्यचित्त्वथ कालस्य कश्चित्तत्र समागतः॥
सामुद्रिकस्य कृत्स्नस्य वेत्ता ज्ञानविधानभू_॥७॥
स तं शिशुं समालोक्य नखाग्रान्मूर्द्धजावधिम्॥
विस्मयोत्फुल्लनयन ईषद्धास्यमथाऽकरोत् ॥ ८ ॥
मृकंडोऽपि समालोक्य ज्ञानिनं सस्मिताननम् ॥
पप्रच्छ विनयोपेतः किंचित्तुष्टेन चेतसा ॥ ॥ ९ ॥
॥ मृकण्ड उवाच ॥ ॥
कस्मात्त्वं विप्रशार्दूल वीक्ष्येमं मम दारकम् ॥
सुचिरं विस्मयाविष्टस्ततोऽभूः सस्मिताननः ॥ ६.२१.१० ॥
॥ सूत उवाच ॥ ॥
असकृत्तेन संपृष्टः सकृद्ब्राह्मणसत्तमः ॥
ततश्च कथयामास हास्यकारणमेव हि ॥ ११ ॥
॥ ब्राह्मण उवाच ॥ ॥
लक्षणानि शिशोरस्य दृश्यंते यानि सन्मुने ॥
गात्रस्थानि भवेत्सत्यं तैः पुमानजरामरः ॥ १२ ॥
अस्य भावि पुनश्चाऽस्माद्दिवसान्निधनं शिशोः ॥
षड्भिर्मासैर्न सन्देहः सत्यमेतन्मयोदितम् ॥ १३ ॥
एवं ज्ञात्वा द्विजश्रेष्ठ कुरुष्वाऽस्य हितं च यत् ॥
इह लोके परे चैव बालकस्य ममाऽऽज्ञया ॥ १४ ॥
एवमुक्त्वा स विप्रेंद्रो जगामाऽभीप्सितां दिशम् ॥
मृकण्डोऽपि ततस्तस्य चक्रे मौंजीनिबन्धनम् ॥ १५ ॥
अकालेऽपि कुमारस्य किंचिद्ध्यात्वा निजे हृदि ॥
कारणं कारणज्ञः स ततः प्रोवाच तं सुतम् ॥ १६ ॥
यं कं चिद्वीक्षसे पुत्र भ्रममाणं द्विजोत्तमम् ॥
तस्यावश्यं त्वया कार्यं विनयादभि वादनम् ॥ १७ ॥
एवं तस्य व्रतस्थस्य षण्मासा दिवसैस्त्रिभिः ॥
हीनाः स्युर्ब्राह्मणेंद्राणां नमस्कारपरस्य च ॥ १९ ॥
एतस्मिन्नंतरे प्राप्ता अग्नि तीर्थपरायणाः ॥
सप्तर्षयः स्थितो यत्र मार्कंडो धृतमेखलः ॥ १९ ॥
तान्दृष्ट्वा स मुनीन्सर्वान्नमश्चक्रे मुनेः सुतः ॥
दीर्घायुर्भव तैरुक्तः सर्वैरपि पृथक्पृथक् ॥ ६.२१.२० ॥
अथ तं बालभावेन कौतुकाद्ब्रह्मचारिणः ॥
चिरं दृष्ट्वाऽब्रवीद्वाक्यं वसिष्ठो मुनिपुंगवः ॥ २१ ॥
सर्वैरेष शिशुः प्रोक्तो दीर्घा युरिति सादरम्॥
तृतीयेऽह्नि पुनः प्राणांस्त्यक्ष्यत्ययमसंशयः ॥ २२ ॥
तन्न युक्तं भवेदीदृगस्माकं वचनं द्विजाः ॥
तस्मात्तत्क्रियतां कर्म येनायं स्याच्चिरायुधृक् ॥ २३ ॥
ततो मिथः समालोच्य सर्वे ते मुनिपुंगवाः ॥
प्रोचुर्न जीवनोपायो भवेन्मुक्त्वा पितामहम् ॥ २४ ॥
तस्मात्तस्य पुरो नीत्वा बालोऽयं क्षीणजीवितः ॥
क्रियतां तस्य वाक्येन यथा स्याच्चिरजीवभाक् ॥ २५ ॥
ततस्तु ते समादाय सत्वरं ब्रह्मचारिणम् ॥
ब्रह्मलोकं समाजग्मुस्त्यक्त्वा तीर्थपराक्रमम् ॥ २६ ॥
ततः प्रणम्य तं देवं वेदोक्तैः स्तवनैर्द्विजाः ॥
स्तुत्वाऽथ संविधे तस्य निषेदुस्तदनन्तरम् ॥ २७ ॥
तेषामनंतरं सोऽपि नमश्चक्रे पितामहम् ॥
बालः प्रोक्तश्च दीर्घायुर्भवेति च स्वयंभुवा ॥ २८ ॥
अथोवाच मुनीन्सर्वान्विश्रांतान्पद्मयोनिजः ॥
कुतो यूयं समायाताः सांप्रतं केन हेतुना ॥ २९ ॥
प्रोच्यतां चापि यत्कृत्यं युष्माकं क्रियतेऽधुना ॥
मद्गृहे संप्रयातानां कोऽयं बालोऽपि सद्व्रती ॥ ६.२१.३० ॥
॥ मुनय ऊचुः ॥ ॥
तीर्थयात्राप्रसंगेन भ्रममाणा महीतलम् ः।
चमत्कारपुराभ्याशे वयं प्राप्ताः पितामह ॥ ३१ ॥
तत्रानेन वयं देव बालकेनाऽभिवादिताः ॥
क्रमात्सर्वेरपि प्रोक्तो दीर्घायुरिति सादरम् ॥ ३२ ॥
एतस्य तु पुनः शेषमायुषो दिवसत्र यम् ॥
विद्यते विबुधश्रेष्ठ व्रीडितास्तेन वै वयम् ॥ ३३ ॥
ततश्चैनं समादाय वयं प्राप्तास्तवांतिकम् ॥
भवताऽपि तथा प्रोक्तो दीर्धायु र्बालकोऽस्त्वयम् ॥ ३४ ॥
तस्माद्यथा वयं सत्या भवता सह पद्मज ॥
भवाम कुरु तत्कृत्यमेतस्मादागता वयम् ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा मुनीनां पद्मसंभवः ॥
प्रोवाच प्रहसन्वाक्यं समादाय च बालकम् ॥ ३६ ॥
मत्प्रसादादयं बालोजरामृत्युवि वर्जितः ॥
भविष्यति न संदेहो वेदविद्याविचक्षणः ॥ ३७ ॥
तस्मात्प्राग्धरणीपृष्ठं व्रजध्वं मुनिसत्तमाः ॥
बालमेनं समादाय तस्मिन्नेवास्य मंदिरं ॥ ३८ ॥
यावदस्य पिता वृद्धः पुत्रदर्शनविह्वलः ॥
न याति निधनं सार्धं धर्मपत्न्या द्विजोत्तमाः ॥ ३९. ॥
अथाऽऽयाताश्च तं बालं सर्वे ते मुनि सत्तमाः ॥
आगत्य वसुधापृष्ठं तस्यैवाश्रमसंनिधौ ॥ ६.२१.४० ॥
अमुंचन्नग्नितीर्थे तं समाभाष्य ततः परम् ॥
तीर्थयात्राकृते पश्चाज्जग्मुरन्यत्र सत्वरम् ॥ ॥ ४१ ॥
एतस्मिन्नंतरे विप्रो मृकंडः सुतवत्सलः ॥
नापश्यत्स्वसुतं पश्चाद्विललाप सुदुःखितः ॥ ४२ ॥
अहो मे तनयोऽभीष्टः कथमद्य न दृश्यते॥
कूपांतः पतितः किं नु किं व्यालैर्वा निपातितः ॥ ४३ ॥
कृत्वा मां दुःखसंतप्तं मातरं चापि पुत्रकः ॥
प्रस्थितो दीर्घमध्वानं विरुद्धं कृतवान्विधिः ॥ ॥ ४४ ॥
पश्य ब्राह्मणि पापेन मया दुष्कृतकारिणा ॥
न बालस्य मुखं दृष्टं प्रस्थितस्य यमालये ॥४५॥
कथितं ज्ञानिना तेन मम पूर्वं महात्म ना ॥
षङ्भिर्मासैः सुतस्तेऽयं देहत्यागं करिष्यति ॥ ४६ ॥
सोऽहं पुत्रस्य दुःखेन साधयिष्ये हुताशनम् ॥
यावच्छोकाग्निना कायो दह्यते न वरान ने ॥ ४७ ॥
॥ ब्राह्मण्युवाच ॥ ॥
ममापि मतमेतद्धि यत्त्वया परिकीर्तितम् ॥
तत्किं चिरयसि ब्रह्मञ्छीघ्रं दारूणि चानय ॥ ४८ ॥
येनाऽहं भवता सार्धं प्रवेक्ष्यामि हुताशनम् ॥
पुत्रशोकेन संतप्ता सुभृशं दुःखशांतये ॥ ४९ ॥
॥ सूत उवाच ॥ ॥
एवं तयोः प्रवदतोर्दंपत्योर्द्विज सत्तमाः ॥
आजगामाऽथ संहृष्टः स बालः सन्निधिं तयोः ॥ ६.२१.५० ॥
तं दृष्ट्वा ब्राह्मणो हृष्टो ब्राह्मण्या सहितस्तदा ॥
आनंदाश्रुप्लुताक्षोऽथ सम्मुख स्तमुपाद्रवत् ॥ ५१ ॥
भूयोभूयः परिष्वज्य सभार्यः पृष्टवांस्तदा ॥
क्व गतः स्वाश्रमाद्वत्स चिरात्कस्मादिहाऽऽगतः॥ ५२ ॥
शोकार्णवे परिक्षिप्य मां सभार्यं वयोऽधिकम् ॥
तन्मा पुत्रक भूयस्त्वमीदृक्कर्म करिष्यसि ॥ ५३ ॥
॥ मार्कंडेय उवाच ॥ ॥
अत्राऽद्य मुनयः प्राप्ता मया ते चाभिवादिताः ॥
क्रमेण विनयात्तात स्मरमाणेन ते वचः ॥ ५४
दीर्घायुर्भव तैरुक्तः सर्वैरेव द्विजोत्तमैः ॥
दृष्ट्वा मां विस्मयाविष्टैर्बालकं व्रतिनं विभो ॥ ५५ ॥
अथ तात समालोक्य तेषां मध्यगतो मुनिः ॥
वसिष्ठस्तान्मुनीन्सर्वान्प्रोवाच प्रहसन्निव ॥ ५६ ॥
॥ वसिष्ठ उवाच ॥ ॥
दीर्घायुर्भव यः प्रोक्तो युष्माभिर्मुनिपुंगवाः ॥
तृतीये दिवसे सोऽयं बालः पंचत्वमेष्यति ॥ ५७ ॥
ततस्ते मुनयो भीता असत्यात्तात तत्क्षणात् ॥
समादाय ययुस्तत्र यत्र ब्रह्मा व्यवस्थितः ॥ ५८ ॥
नमस्कृतेन तेनाऽपि प्रोक्तोऽहं पद्मयोनिना ॥
दीर्घायुर्भव पृष्टश्च कुतस्त्वमिह चागतः ५९ ॥
अथ तैर्मुनिभिः सर्वैर्वृत्तांतं तस्य कीर्तितम्॥
आशीर्वादोद्भवं प्रोक्तं ततो वयमिहागताः॥ ६.२१.६० ॥
यथाऽयं बालको देव त्वत्प्रसादात्पितामह ॥
दीर्घायुर्जायते लोके तथा त्वं कर्तुमर्हसि ॥ ६१ ॥
ततोऽहं ब्रह्मणा तात जरामरणवर्जितः ॥
विहितः प्रेषितस्तूर्णं स्वगृहं प्रति तैः समम् ॥ ६२ ॥
ते तु मां मुनयोत्रैव प्रमुच्याश्रमसन्निधौ ॥
स्नानार्थं विविशुः सर्वे ह्रदेऽत्रैव सुशोभने ॥ ६३ ॥
तच्छ्रुत्वा वचनं तस्य मृकंडो हर्षसंयुतः ॥
प्रययौ सत्वरं तत्र यत्र ते मुनयः स्थिताः ॥ ६४ ॥
प्रणम्य तान्मुनीन्सर्वान्कृताञ्जलिपुटः स्थितः ॥
प्रोवाच वः प्रसादेन कुलं मे वृद्धिमागतम् ॥ ६५ ॥
साधु प्रोक्तमिदं कैश्चिदाचार्यैर्मुनिसत्तमाः ॥
साधुलोकं समाश्रित्य विख्यातं च जगत्त्रये ॥ ६६ ॥
साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ॥
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥ ६७ ॥
तस्मादतिथयः प्राप्ता यूयं सर्वेऽद्य मे गृहम् ॥
प्रकरोमि किमातिथ्यं प्रोच्यतां द्विजसत्तमाः ॥ ६८ ॥
॥ ऋषय ऊचुः ॥ ॥
एतदेव मुनेऽस्माकमातिथ्यं कोटिसंमितम् ॥
अल्पायुरपि ते बालो यज्जातो मृत्युवर्जितः ॥ ६९ ॥
॥ मृकण्ड उवाच ॥ ॥
मृत्युनाऽऽलिंगितं बालमस्मदीयं मुनीश्वराः ॥
भवद्भिरद्य संरक्ष्य कुलं कृत्स्नं समुद्धृतम् ॥ ६.२१.७० ॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नाऽस्ति निष्कृतिः ॥ ७१ ॥।
तस्मात्कृतघ्नतादोषो न स्यान्मम मुनीश्वराः ॥
यथा कार्यं भवद्भिश्च तथा सर्वैर्न संशयः ॥ ७२ ॥
॥ ऋषय ऊचुः ॥ ॥
यदि प्रत्युपकाराय मन्यसे त्वं द्विजोत्तम ॥
गृहं कुरुष्व नो वाक्याद्देवस्य परमेष्ठिनः ॥ ७३ ॥
येनाऽयं बालकस्तेऽद्य कृतो मृत्युविवर्जितः ॥
तस्मात्स्थापय तीर्थेन देवं तं प्रपितामहम्॥७४॥
पुत्रेण सहितः पश्चादाराधय दिवानिशम्॥
वयमेव त्वया सार्धं तं च देवं पितामहम्॥७५॥
नित्यं प्रपूजयिष्यामस्तथान्येऽपि द्विजोत्तमाः॥
बालेनाऽनेन सार्धं ते सख्यमत्र स्थितं यतः॥
बालसख्यमिति ख्यातं नाम्ना तेन भविष्यति॥७६॥
तीर्थमन्यैरिति ख्यातं बालकानां हितावहम्॥
रोगार्तानां भयार्तानामस्माकं वचनात्सदा॥७७॥
अस्मिंस्तीर्थे शिशुं लोकाः स्नापयिष्यंति ये द्विज॥
रोगार्तं वा भयार्तं वा पीडितं वा ग्रहादिभिः॥७८॥
भविष्यति न संदेहः सर्वदोषविवर्जितः ॥
पितामहप्रसादेन तथाऽस्मद्वचनाद्द्विज ॥ ७९ ॥
ये पुनर्मानुषा विप्र निष्कामाः श्रद्धयान्विताः ॥
स्नानमात्रं करिष्यंति ते यांति परमां गतिम्॥ ६.२१.८० ॥
एवमुक्त्वाथ ते सर्वे मुनयः शंसितव्रताः ॥
तमामंत्र्य मुनिं जग्मुस्तीर्थान्यन्यानि सत्वराः ॥ ८१ ॥
मृकण्डोऽपि सपुत्रश्च तस्मिन्स्थाने पितामहम् ॥
स्थापयामास संहृष्टो ज्येष्ठे ज्येष्ठास्थिते विधौ ॥ ८२ ॥
ततश्चाऽऽराधयामास दिवारात्रमतंद्रितः ॥
सपुत्रः श्रद्धया युक्तः संप्राप्तश्च परां गतिम् ॥ ८३ ॥
॥ सूत उवाच ॥ ॥
ततःप्रभृति तत्तीर्थं बालसख्यमिति स्मृतम्॥
पावनं सर्वजंतूनां बालानां रोगनाशनम्॥ ८४ ॥
ज्येष्ठे ज्येष्ठासु यो बालस्तत्र स्नानं समाचरेत् ॥
न स पीडामवाप्नोति यावत्संवत्सरं द्विजाः ॥ ८५ ॥
ग्रहभूतपिशाचानां शाकिनीनां विशेषतः ॥
अगम्यः सर्वदुष्टानां तथाऽन्येषां प्रजायते ॥८६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये बालसख्यतीर्थमाहात्म्यवर्णनंनामैकविंशोऽध्यायः॥ ॥ २१ ॥ ॥ ध ॥