स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०२०

विकिस्रोतः तः


॥ सूत उवाच ॥ ॥
तत्र दाशरथी रामो वनवासाय दीक्षितः ॥
भ्रममाणो धरापृष्ठे सीतालक्ष्मणसंयुतः ॥ १ ॥
समाऽऽयातो द्विजश्रेष्ठा यत्र सा पितृकूपिका ॥
तृषार्तश्च श्रमार्तश्च निषसाद धरातले ॥ २ ॥
एतस्मिन्नंतरे प्राप्तो भगवान्दिननायकः ॥
अस्ताचलं जपापुष्पसन्निभो द्विजसत्तमाः ॥ ३ ॥
ततः प्लक्षनगाधस्तात्पर्णान्यास्तीर्य भूतले ॥
सायंतनं विधिं कृत्वा सुष्वाप रघुनन्दनः ॥ ४ ॥
अथाऽवलोकयामास स्वप्ने दशरथं नृपम् ॥
यद्वत्पूर्वं प्रियाऽऽलापसंसक्तं हृष्टमानसम् ॥ ५ ॥
ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥
विप्रानाहूय तत्सर्वं कथयामास राघवः ॥ ६ ॥
अद्य स्वप्ने मया विप्राः प्रियालापपरः पिता ॥
अतिहृष्टमना दृष्टः श्वेतमाल्यानुलेपनः ॥ ७ ॥
तत्कीदृक्परिणामोऽस्य स्वप्नस्य द्विजसत्तमाः ॥
भविष्यति प्रजल्पध्वं परं कौतूहलं यतः ॥ ८ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
पितरः श्राद्धकामा ये वृद्धिं पश्यंति वा नृप ॥
ते स्वप्ने दर्शनं यांति पुत्राणामिति नः श्रुतम् ॥ ९ ॥
तदस्यां कूपिकायां च स्वयमेव गया स्थिता ॥
तेन त्वया पिता दृष्टः स्वप्ने श्राद्धस्य वांछकः ॥ ६.२०.१० ॥
तस्मात्कुरु रघुश्रेष्ठ श्राद्धमत्र यथोदितम् ॥
नीवारैः शाक मूलैश्च तथाऽरण्योद्भवैस्तिलैः ॥ ११ ॥
अथैवामन्त्रयामास तान्विप्रान्रघुसत्तमः ॥
श्राद्धेषु श्रद्धया युक्तः प्रसादः क्रियतामिति ॥ १२ ॥
बाढमित्येव ते चोक्त्वा स्नानार्थं द्विजसत्तमाः ॥
गताः सर्वे सुसंहृष्टा स्वकीयानाश्रमान्प्रति व १३ ॥
अथ तेषु प्रयातेषु ब्राह्मणेषु रघूत्तमः ॥
प्रोवाच लक्ष्मणं पार्श्वे विनयावनतं स्थितम् ॥ १४ ॥
शाकमूलफलान्याशु श्राद्धार्थं समुपानय ॥
सौमित्रानय वैदेही स्वयं पचति भामिनी ॥ १५ ॥
तच्छ्रुत्वा लक्ष्मणस्तूर्णं जगामाऽरण्यमेव हि ॥
श्राद्धार्थमानिनायाऽऽशु फलानि विविधानि च ॥ १६ ॥
धात्रीफलानि चाऽऽम्राणि चिर्भटानीं गुदानि च ॥
करीराणि कपित्थानि तथैवाऽन्यानि भूरिशः ॥ १७ ॥
ततश्च पाचयामास तदर्थे जनकोद्भवा ॥
रामादेशात्स्वयं साध्वी विनयेन समन्विता ॥ १८ ॥
ततश्च कुतपे प्राप्ते काले ते द्विजसत्तमाः ॥
कृताह्निकाः समायाता रामभक्तिसमन्विताः ॥ १९ ॥
एतस्मिन्नंतरे सीता प्लक्षवृक्षांतरे स्थिता॥
आत्मानं गोपयामास यथा वेत्ति न राघवः॥६.२०.२०
स तां सीतेति सीतेति व्याहृत्याथ मुहुर्मुहुः॥
स्त्रीधर्मिणीति मत्वा तु लक्ष्मणं चेदमब्रवीत् ॥ २१ ॥
वत्स लक्ष्मण शुश्रूषां विप्राणां श्राद्धसंभवाम्॥
पादप्रक्षालनाद्यां त्वं यथावत्कर्तुमर्हसि ॥ २२ ॥
बाढमित्येव संप्रोक्तो लक्ष्मणः शुभलक्षणः ॥
चक्रे सर्वं तथा कर्म यथा नारी विचक्षणा ॥ २३ ॥
ततो निर्वर्तिते श्राद्धे ब्राह्मणेषु गतेष्वथ ॥
जनकस्य सुता साध्वी तत्क्षणात्समुपस्थिता ॥ २४ ॥
तां दृष्ट्वा राघवः सीतां कोपसंरक्तलोचनः ॥
प्रोवाच परुषैर्वाक्यैर्भर्त्समानो मुहुर्मुहुः॥ २५ ॥
आयातेषु द्विजातेषु श्राद्धकाल उपस्थिते ॥
क्व गता वद पापे त्वं मां परित्यज्य दूरतः ॥ २६ ॥
नैतद्युक्तं कुलस्त्रीणां विशेषादत्र कानने ॥
विहर्तुं दूरतः शून्ये तस्मात्त्याज्याऽसि मैथिलि ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा भीता सा जनकोद्भवा ॥
उवाच वेपमानांगी प्रस्खलंत्या गिरा ततः ॥ २८ ॥
न मामर्हसि कार्येऽस्मिन्गर्हितुं रघुसत्तम ॥
यस्मादहमतिक्रान्ता स्थानादस्माच्छ्रणुष्व तत् ॥ २९ ॥
पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ॥
ब्राह्मणस्य शरीरस्थो द्वितीयश्च पितामहः ॥ ६.२०.३० ॥
पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम ॥
त्रयाणां च तथान्येषां त्रयोऽन्ये नृपसंनिभाः ॥ ३१ ॥
ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः ॥
मातामहानहं मन्ये तानपि त्रीनहं स्फुटम् ॥ ३२ ॥
ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान् ॥
येन भुक्तानि भोज्यानि पुरा मृष्टान्यनेकशः ॥ ३३ ॥
तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः ॥
पिता तव कथं सोऽद्य कषायाणि कटूनि च ॥
भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो ॥ ३४ ॥
एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो ॥
श्राद्धकालेऽपि संप्राप्ते सत्येनात्मानमालभे ॥ ३५८ ॥
तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः ॥
साधुसाध्विति तां प्राह परिष्वज्य मुहुर्मुहुः ॥ ३६ ॥
ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः ॥
सायाह्ने समनुप्राप्ते संध्याकार्यं विधाय च ॥ ३७ ॥
प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले ॥
शय्यां कुरु समानीय पादशौचाय सज्जलम् ॥ ३८ ॥
ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम् ॥
नाहं शय्यां करिष्यामि पादप्रक्षालनं न च ॥ ३९ ॥
तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥
त्वां वा त्यक्त्वा गमिष्यामि कुत्रचित्पीडितो भृशम्॥ ॥ ६.२०.४० ॥
प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् ॥
सीतायाः किं समादेश्यं न किंचित्संप्रयच्छसि ॥
अपि स्वल्पतरं राम मया त्वं किं करिष्यसि ॥ ४१ ॥
तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः ॥
तूष्णीं बभूव मेधावी हास्यं कृत्वा मनाक्ततः ॥ ४२ ॥
ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम् ॥
सीतया क्षालितांघ्रिस्तु सुष्वाप तदनंतरम् ॥ ४३ ॥
लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः ॥
वृक्षमूलं समाश्रित्य सुप्तश्चित्ते व्यचिंतयत् ॥ ४४ ॥
हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च॥
किं गच्छामि निजं स्थानं विदेशं वाऽपिदूरतः ॥ ४५ ॥
एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा ॥
व्यतिक्रांता निशा विप्राः कृच्छ्रेण महता ततः ॥ ४६ ॥
न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन ॥
कोपात्प्रणष्टनिद्रस्य सोष्णं निःश्वसतो मुहुः ॥ ४७ ॥
ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ॥
रामः सीतां समादाय प्रस्थितो दक्षिणां दिशम्॥ ४८ ॥
लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम् ॥
अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन् ॥ ४९ ॥
ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ॥
प्रतस्थे राघवो यावत्सौमित्रिस्तावदागतः ॥ ६.२०.५० ॥
बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः ॥
प्रणम्य शिरसा रामं ततः प्राह सुदुः खितः ॥ ५१ ॥
कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम् ॥
अतिपापस्य दुष्टस्य कृतघ्नस्य रघूत्तम ॥ ५२॥
उत्तराणि विरुद्धानि तव दत्तानि भूरिशः ॥
मया विनाऽपराधेन वधोपायश्च चिंतितः ॥ ५३ ॥
ततश्च तं परिष्वज्य रामोऽपि निजबांधवम् ॥
बाष्पक्लिन्नमुखः प्राह क्षांतं वत्स मया तव ॥ ५४ ॥
न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम्॥
तस्मादागच्छ गच्छामो मार्गं वेलाधिका भवेत् ॥५५॥
॥ लक्ष्मण उवाच ॥ ॥
यदि मे निग्रहं नाथ न करिष्यसि सांप्रतम् ॥
प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये॥ ५६ ॥
रामलक्ष्मणयोरेवं वदतोस्तत्र कानने ॥
आजगाम मुनिश्रेष्ठो मार्कंड इति यः स्मृतः ॥ ५७ ॥
ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः ॥
प्रोवाच स्वागतं तेस्तु कुतः प्राप्तोऽसि सन्मुने ॥ ५८ ॥ ॥
॥ मार्कंडेय उवाच ॥ ॥
प्रभासादहमायातः सांप्रतं रघुनंदन ॥
स्वमाश्रमं गमिष्यामि क्षेत्रेऽत्रैव व्यवस्थितम् ॥ ५९॥
मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ॥
तस्याऽद्य दिवसे यात्रा बहुश्रेयःप्रदा स्मृता ॥ ६.२०.६० ॥
 तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह ॥
ममाश्रमपदे स्थित्वा पश्य देवं पितामहम् ॥ ६१ ॥
येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह ॥
ज्येष्ठपञ्चदशीयोगे ज्येष्ठपुत्रः समाहितः ॥ ६२ ॥
यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ॥
साऽद्य पंचदशी राम ज्येष्ठमाससमुद्भवा ॥
ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि ॥ ६३ ॥
ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः ॥
कुरु मे निग्रहं तावद्गच्छ तीर्थं ततः प्रभो ॥ ६४ ॥
॥ राम उवाच ॥ ॥
स्थितेऽस्मिन्मुनिशार्दूले समीपे वत्स लक्ष्मण ॥
अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय ॥ ६५ ॥
॥ लक्ष्मण उवाच ॥ ॥
स्वामिद्रोहे कृते ब्रह्मन्प्रायश्चित्तं यदीक्ष्यते ॥
तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते ॥ ६६ ॥
॥ मार्कंडेय उवाच ॥ ॥
ममाऽऽश्रमसमीपेऽस्ति सुतीर्थं बालमंडनम् ॥
स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः ॥ ६७ ॥।
तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा ॥
विश्वस्ताया विशेषेण मातुः काकुत्स्थसत्तम ॥
तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते ॥ ६८ ॥
ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात् ॥
अपरं नास्ति ते दोषो मनसा पातकं कृतम् ॥ ६९ ॥
मनस्तापेन शुध्येत मतमेतन्मनीषिणाम् ॥
त्वया तु मनसा द्रोहः कृतो रामकृते यतः ॥ ६.२०.७० ॥
ईदृक्षान्मनसस्तापात्तस्माच्छुद्धोऽसि लक्ष्मण ॥
अपरं शृणु मे वाक्यं नास्ति दोषस्तवा नघ ॥ ७१ ॥
ईदृक्क्षेत्रप्रभावोऽयं सौभ्रात्रेण विवर्जितः ॥
पंचक्रोशात्मके क्षेत्रे ये वसन्त्यत्र लक्ष्मण ॥ ७२ ॥
अपि स्वल्पं न सौभ्रात्रं तेषां संजायते क्वचित् ॥ ७३ ॥
तावत्स्नेहपरो मर्त्यस्तावद्वदति कोमलम् ॥
चमत्कारोद्भवं क्षेत्रं यावन्न स्पृशतेंऽघ्रिभिः ॥ ७४ ॥
येऽन्येपि निवसंत्यत्र पशवः पक्षिणो मृगाः ॥
तेऽपि सौहार्द्दनिर्मुक्ताः सस्पर्द्धा इतरेतरम् ॥ ७५ ॥
कस्यचित्केनचित्सार्धं सौहार्दं नैव विद्यते ॥
तस्मान्नैवास्ति ते दोष ईदृक्क्षे त्रस्य संस्थितिः ॥ ७६ ॥
तथापि यदि ते काचिच्छंका चित्ते व्यवस्थिता ॥
तत्स्नानं कुरु गत्वा तु तस्मिंस्तीर्थे सुशोभने ॥ ७७ ॥
यत्र शक्रो विपाप्माऽभूद्द्रोहं कृत्वा सुदारुणम्॥
विश्वस्ताया दितेः पूर्वं गर्भपातसमुद्रवम् ॥ ७८ ॥
एवमुक्तस्तु सौमित्रिर्गत्वा तत्र द्विजोत्तमाः ॥
तीर्थे स्नानाच्च संपन्नो विशुद्धः शक्रसेविते ॥
रामोऽपि तत्र गत्वाशु मार्कंडेयवराश्रमे ॥ ७९ ॥
स्नानं कृत्वा यथान्यायं ददर्शाऽथ पितामहम् ॥
जगामाऽथ दिशं याम्यां सीतालक्ष्मणसंयुतः ॥ ६.२०.८० ॥
 तत्प्रभावाज्जघानाऽथ खरादीन्राक्षसोत्तमान् ॥
तथा वै रावणं रौद्रं मेघनादसमन्वितम् ॥ ८३ ॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यदिशाप्रयाणे बालमंडनतीर्थमाहात्म्य वर्णनंनाम विंशोऽध्यायः ॥ २० ॥ ॥ ध ॥