स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१९

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
एतस्मिन्नंतरे प्राप्तास्तस्य भूपस्य सेवकाः ॥
केचिच्च दैवयो गेन श्वापदैरर्धभक्षिताः ॥ १ ॥
क्षुत्पिपासातुरा दीना दुःखेन महताऽन्विताः ॥
पदपद्धतिमार्गेण येन यातः स भूपतिः ॥ २ ॥
ते दृष्ट्वा पार्थिवं तत्र दिष्ट्यादिष्ट्येति सादरम् ॥
ब्रुवंतः पादयोस्तस्य पतिता हर्षसंयुताः ॥ ३ ॥
ततस्तस्य नरेन्द्रस्य व्यसनं सैन्यसंभवम् ॥
प्रोचुश्चैव यथादृष्टम नुभूतं यथाश्रुतम् ॥४॥
अथ ते तापसाः सर्वे स च राजा ससेवकः ॥
प्रसुप्ताः पादपस्याधः पर्णान्यास्तीर्यभूतले ॥५॥
ततस्तेषां प्रसुप्तानां सर्वेषां तत्र कानने ॥
अतिक्रांता सुखेनैव रजनी सा महात्मनाम् ॥ ६ ॥
ततः स प्रातरुत्थाय कृतपूर्वाह्णिकक्रियः ॥
तं मुनिं प्रणिपत्योच्चैरनुज्ञाप्य मुहु र्मुहुः ॥ ७ ॥
निजैस्तैः सेवकैः सार्धं प्रस्थितः स्वपुरीं प्रति ॥
माहिष्मतीं समुद्दिश्य दृष्ट्वा मार्गे शनैःशनैः ॥ ८ ॥
ततो निजगृहं प्राप्य कञ्चि त्कालं महीपतिः ॥
विश्रम्य प्रययौ पश्चात्तूर्णं पुण्यं गयाशिरः ॥ ९ ॥
तच्च कालेन संप्राप्य स्नात्वा धौतांबरः शुचिः ॥
मांसादाय ददौ श्राद्धं श्रद्धापूतेन चेतसा ॥ ६.१९.१० ॥
अथाऽसौ पृथिवीपालः स्वप्नांते च ददर्श तम् ॥
दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् ॥
विमानवरमारूढं स्तूयमानं च किंनरैः ॥ ११ ॥
॥ मांसाद उवाच ॥ ॥
प्रसादात्तव भूपाल मुक्तोऽहं प्रेतयोनितः ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवा लयम्॥ १२ ॥
ततः स प्रातरुत्थाय हर्षाविष्टो महीपतिः ॥
विदैवतं समुद्दिश्य चक्रे श्राद्धं यथोचितम् ॥ १३
सोऽपि तेनैव रूपेण तस्य संदर्शनं गतः ॥
स्वप्नांऽते भूमिपालस्य तद्वच्चोक्त्वा दिवं गतः ॥ १४ ॥
ततः प्रातस्तृतीयेऽह्नि कृतघ्नस्य महीपतिः ॥
चक्रे श्राद्धं यथापूर्वं श्रद्धापूतेन चेतसा ॥ १५ ॥
ततः सोऽपि समायातस्तस्य स्वप्ने महीपतेः ॥
तेनैव प्रेतरूपेण दुःखेन महता वृतः ॥ १६ ॥
॥ कृतघ्न उवाच ॥
न मे गतिर्महाराज संजाता पापकर्मिणः ॥
तडागवित्तचौरस्य कृतघ्नस्य तथैव च ॥ १७ ॥
तस्मात्संजायते मुक्तिर्यथा मे पार्थिवोत्तम ॥
तथैव त्वं कुरुष्याऽद्य सत्यवाक्यपरो भव ॥ १८ ॥
सत्यमेव परं ब्रह्म सत्यमेव परं तपः ॥
सत्यमेव परं ज्ञानं सत्यमेव परं श्रुतम् ॥ १९ ॥
सत्येन वायु र्वहति सत्येन तपते रविः ॥
सागरः सत्यवाक्येन मर्यादां न विलंघयेत् ॥ ६.१९.२० ॥
तीर्थसेवा तपो दानं स्वाध्यायो गुरुसेवनम् ॥
सर्वं सत्यविहीनस्य व्यर्थं संजायते यतः ॥ २१ ॥
सर्वे धर्मा धृताः पूर्वमेकत्राऽन्यत्र चाप्यृतम् ॥
तुलायां कौतुकाद्देवैर्जातं तत्र ऋतं गुरु ॥ २२ ॥
तस्मात्सत्यं पुरस्कृत्य मां तारय महामते ॥
एतत्ते परमं श्रेयस्तपसोऽपि भविष्यति ॥ २३ ॥
॥ विदूरथ उवाच ॥ ॥
कथं ते जायते मुक्तिर्वद मे प्रेत सत्वरम् ॥
करोमि येन तत्कर्म यद्यपि स्यात्सुदुष्करम् ः। २४ ॥
॥ प्रेत उवाच ॥ ॥
चमत्कारपुरे भूप श्रीक्षेत्रे हाटकेश्वरे ॥
आस्ते पांसुभिराच्छन्नं कलेर्भीतं गयाशिरः ॥ २५ ॥
अधस्तात्प्लक्षवृक्षस्य दर्भस्थानैः समंततः ॥
कालशाकैस्तथानेकैस्तिलैश्चारण्यसंभवैः ॥ ॥ २६ ॥
तत्र गत्वा तिलैस्तैस्त्वं तैः शाकैस्तैः कुशैस्तथा ॥
श्राद्धं देहि द्रुतं येन मुक्तिः संजायते मम ॥ २७ ॥
तस्य तद्वचनं श्रुत्वा स दीनस्य दयान्वितः॥
जगाम तत्र यत्राऽऽस्ते स वृक्षः प्लक्षसंज्ञकः॥ २८ ॥
दृष्ट्वा शाकांस्तिलांस्तांस्तु दर्भांस्तेन यथोदितान्॥
अखनत्तत्र देशे च जलार्थे लघु कूपिकाम् ॥ २९ ॥
ततः कृतघ्नमुद्दिश्य श्राद्धं चक्रे यथोदितम् ॥
आनीय ब्राह्मणाञ्छ्रेष्ठान्वेदवेदांगपारगान् ॥ ६.१९.३. ॥
कृतमात्रे ततः श्राद्धे दिव्य रूपधरः पुमान्॥
विमानवरमारूढो विदूरथमथाऽब्रवीत् ॥ ३१ ॥
मुक्तोऽहं त्वत्प्रसादाच्च प्रेतत्वाद्दारुणाद्विभो ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदशालयम् ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
ततः प्रभृति सा तत्र कूपिका ख्यातिमागता ॥
पितॄणां पुष्टिदा नित्यं गयाशीर्षसमुद्भवा॥ ३३ ॥
प्रेतपक्षस्य दर्शायां यस्तस्यां श्राद्धमाचरेत् ॥
कालशाकेन विप्रेंद्रास्तथारण्योद्भवैस्तिलैः ॥ ३४ ॥
कृंतितैश्च तथा दर्भैः सम्यक्छ्रद्धासमन्वितः ।
स प्राप्नोति फलं कृत्स्नं कृतघ्नप्रेततीर्थतः ॥ ३५ ॥
अग्निष्वात्ताः पितृगणास्तथा बर्हिषदश्च ये ॥
तत्र संनिहिता नित्यमाज्यपाः सोमपास्तथा ॥ ३६ ॥
तस्मात्सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥
काले वा
यदि वाऽकाले पितॄणां तुष्टये सदा ॥ ३७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मांसादादिप्रेतत्रयस्य विदूरथकृतश्राद्धद्वारा मुक्तिदाने पितृकूपिकातीर्थमा हात्म्यवर्णनंनामैकोनविंशोऽध्यायः ॥ १९ ॥ ॥ छ ॥ ॥