स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१७

विकिस्रोतः तः
Jump to navigation Jump to search


॥ ऋषय ऊचुः ॥ ॥
चमत्कारपुरोत्पत्तिः श्रुता त्वत्तो महामते ॥
तत्क्षेत्रस्य प्रमाणं यत्तदस्माकं प्रकीर्तय ॥॥।
यानि तत्र च पुण्यानि तीर्थान्यायतनानि च ॥
सहितानि प्रभावेण तानि सर्वाणि कीर्तय ॥ २ ॥
॥ सूत उवाच ॥ ॥
पञ्चक्रोशप्रमाणेन क्षेत्रं ब्राह्मणसत्तमाः ॥
आयामव्यासतश्चैव चमत्कारपुरोत्तमम् ॥ ३ ॥
प्राच्यां तस्य गयाशीर्षं पश्चिमेन हरेः पदम् ॥
दक्षिणोत्तरयोश्चैव गोकर्णेश्वरसंज्ञितौ ॥४॥
हाटकेश्वर संज्ञं तु पूर्वमासीद्द्विजोत्तमाः ॥
तत्क्षेत्रं प्रथितं लोके सर्वपातकनाशनम् ॥ ५ ॥
यतः प्रभृति विप्रेभ्यो दत्तं तेन महात्मना ॥
चमत्कारेण तत्स्थानं नाम्ना ख्यातिं ततो गतम् ॥ ६ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
यदेतद्भवता प्रोक्तं तस्य पूर्वे गयाशिरः ॥
माहात्म्यं तस्य नो ब्रूहि सूतपुत्र सविस्तरम् ॥ ७ ॥
॥ सूत उवाच ॥ ॥
आसीद्विदूरथोनाम हैहयाधिपतिः पुरा ॥
यो वै दानपतिर्दक्षः शत्रुपक्षक्षयावहः ॥ ८ ॥
स कदाचिन्मृगान्हंतुं नृपः सेनावृतो ययौ ॥
नानावृक्षलताकीर्णं वनं श्वापदसंकुलम् ॥ ९ ॥
स जघान मृगांस्तत्र शरैराशीविषोपमैः ॥
महिषांश्चवराहांश्च तरक्षूञ्च्छम्बरान्रुरून् ॥ ६.१७.१० ॥
सिंहान्व्याघ्रान्गजान्मत्ताञ्च्छतशोऽथ सहस्रशः ॥
अथ तेन मृगो विद्धः शरेणाऽऽनतपर्वणा ॥ ११ ॥
न पपात धरापृष्ठे सशरो दुद्रुवे द्रुतम्॥
ततः स कौतुकाविष्टस्तस्य पृष्ठे हयोत्तमम् ॥
प्रेरयामास वेगेन मनोमारुतवेगधृक् ॥ १२ ॥
ततः सैन्यं समुत्सज्य मृगं लिप्सुर्महीपतिः ॥
अन्यद्वनांतरं प्राप्तो रौद्रं चित्तभयावहम् ॥ १३ ॥
कण्टकीबदरीप्रायं शाल्मलीवनसंकुलम् ॥
तथान्यैः कण्टकाकीर्णै रूक्षै र्वृक्षैः समन्वितम् ॥ १४ ॥
तत्र रूक्षाऽखिला भूमिर्निर्जला तमसा वृता ॥
चीरिकोलूकगृधाढ्या शीर्षच्छायाविवर्जिता ॥ १५ ॥
ग्रीष्मे मध्यगते सूर्ये मृगाकृष्टः स पार्थिवः ॥
दूराध्वानं जगामाऽथ प्रासपाणिर्वराश्वगः ॥ १६ ॥
तेन तस्यानुगा भृत्याः सर्वे सुश्रांतवाहनाः ॥
क्षुत्पिपासाकुलाः श्रांताः स्थाने स्थाने समाश्रिताः ॥ १७ ॥
सिंहव्याघ्रैस्तथा चान्यैः पतिता नष्टचेतनाः ॥
भक्ष्यंते चेतयन्तोऽपि तथाऽन्ये चलनाक्षमाः ॥ १८ ॥
ततः सोऽपि महीपालः क्षुत्पिपासासमाकुलः ॥
दृष्ट्वा तद्व्यसनं प्राप्तमात्मनः सेवकैः समम् ॥ १९ ॥
कांतारस्यांतमन्विच्छन्प्रेरयामास तं हयम्॥
जात्यं सर्वगुणोपेतं कशाघातैः प्रताडयन् ॥ ६.१७.२० ॥
ततः स नृपतिस्तेन वायुवेगेन वाजिना ॥
नीतो दूरं दुर्गमार्गं सर्वजंतुविवर्जितम् ॥ २१ ॥
एवं तस्य नरेन्द्रस्य कांदिशीकेऽनवस्थिते ॥
सोऽश्वोऽपतद्धरापृष्ठे सोऽप्यधस्तात्तुरंगमात् ॥ २२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विदूरथमृगयावर्णनंनाम सप्तदशोऽध्यायः ॥ १७ ॥ ॥ छ ॥ ॥