स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१४

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
यदन्यत्तत्र सञ्जातमाश्चर्यं द्विजसत्तमाः ॥
तदहं कीर्तयिष्यामि रहस्यं हृदि संस्थितम् ॥ १ ॥
चमत्कारपुरे कश्चिद्वैश्यजातिसमुद्भवः ॥
बभूव पुरुषो मूको दरिद्रेण समन्वितः ॥ २ ॥
यो दौःस्थ्यात्सर्वलोकानां करोति पशुरक्षणम् ॥
कुटुम्बभरणार्थाय संतुष्टो येनकेनचित् ॥ ३ ॥
कदाचिद्रक्षतस्तस्य पशूंस्तान्वनभूमिषु ॥
पशुरेको विनिष्क्रांतः स्वयूथात्तृणलोभतः ॥४॥।
कृष्ण पक्षे चतुर्दश्यां चैत्रमासे द्विजोत्तमाः ॥
न तदा लक्षितस्तेन गच्छमानो यदृच्छया ॥ ५ ॥
अथ यावद्गृहं प्राप्तः स मूकः पशुपालकः ॥
तावत्तस्य च गोः स्वामी भर्त्सयन्समुपागतः ॥ ६ ॥
किं पाप न समायातः पशुरेकोऽद्य नो यथा ॥
नूनं त्वया हतः सोऽपि विक्रीतोऽपिहितोऽथवा ॥
तस्मा दानय मे क्षिप्रं निराहारोऽपि गां त्वरात् ॥ ७ ॥
तच्छ्रुत्वा भयसंत्रस्तः स मूकः पशुपालकः ॥
निष्क्रांतो यष्टिमादाय निराहारोऽपि मन्दिरात् ॥ ॥ ८ ॥
ततोऽरण्यं समासाद्य वीक्षांचक्रे समंततः ॥
सूक्ष्मदृष्ट्या स दुर्गाणि गहनानि वनानि च । ९ ॥
अथ तेन क्वचिद्दृष्टं पदं तस्य पशोः स्फुटम् ॥
अटव्यां भ्रममाणेन परिज्ञातं च कृत्स्नशः ॥ ६.१४.१० ॥
ततश्च तत्पदान्वेषी स जगाम वनाद्वनम् ॥
चमत्कारपुरस्यास्य समंताद्द्विजसत्त माः ॥ ११ ॥
एवं प्रदक्षिणा तस्य जाता पशुदिदृक्षया ॥
स्थानस्य चैव निर्वेशे पशोश्चापिद्विजोत्तमाः ॥ १२ ॥
प्रदक्षिणावसाने च पशुर्लब्धो हि तेन सः ॥
निशांतेऽथ गृहं नीत्वा स्वामिने विनिवेदितः ॥ १३ ॥
चैत्रे पुण्यतमे मासि कृष्णपक्षे चतुर्दशीम् ॥
क्षेत्रे पुण्यतमे देवास्तीर्थान्या यांति सर्वशः ॥ १४ ॥
एवमज्ञानभावेन कृता ताभ्यां प्रदक्षिणा ॥
पशुपालपशुभ्यां वै सुपुण्ये तत्र वासरे ॥ १५ ॥
निराहारस्य मूकस्य साहारस्य पशोस्तथा ॥ १६ ॥
विना स्नानेन भक्षाच्च दैवाद्द्विजवरोत्तमाः ॥
ततः काले व्यतिक्रांते कियन्मात्रे स्वकर्मतः ॥
उभौ पंचत्वमापन्नौ पृथक्त्वेनायुषः क्षये ॥ १७ ॥
ततश्च पशुपालस्तु दशार्णाधिपतेः सुतः ॥
संजातस्तत्प्रभावेन पूर्वजातिमनुस्मरन् ॥ १८ ॥
सोऽपि जज्ञे पशुस्तस्य सचिवो द्विजसत्तमाः ।
जातिस्मरो यथा राजा सर्वदा नृपसंमतः॥।९॥
अथागत्य स राजेंद्रस्तेनैव सह मंत्रिणा ॥
कृष्णपक्षे चतुर्दश्यां पुरस्तस्याः प्रदक्षिणाम् ॥ ६.१४.२० ॥
चक्रे संवत्सरस्यांते श्रद्धया परया युतः ॥
निराहारश्च मौनेन पदातिर्द्विजसत्तमाः ॥ २१ ॥
एकदा तत्र चाऽऽयाता मुनयः शंसितव्रताः ॥
तीर्थे पापहरे पुण्ये विश्वामित्रसमुद्भवे ॥ २२ ॥
याज्ञवल्क्यो भरद्वाजः शुनःशेपोऽथ गालवः ॥
देवलो भागुरिर्धौम्यः कश्य पश्च्यवनो भृगुः ॥ २३ ॥
तथान्ये शंसिताऽऽत्मानो ब्रह्मचर्यपरायणाः ॥
तीर्थयात्राप्रसंगेन तस्मिन्क्षेत्रे समागताः ॥ २४ ॥
तान्दृष्ट्वा स महीपालः प्रणिपत्य कृतांजलिः ॥
यथाज्येष्ठं यथाश्रेष्ठं पूजयामास भक्तितः ॥ २५ ॥
ततस्तेषां स मध्ये च संनिविष्टो महीपतिः ॥
तथागतः स भूपालः सर्वै स्तैश्चाभिनंदितः ॥ २६ ॥
ततश्चक्रुः कथा दिव्या मुनयस्ते महीपतेः ।
पुरतो मुनिमुख्यानां चरितानि महात्मनाम् ॥ २७ ॥
राजर्षीणां पुराणानां धर्मशास्त्रसमुद्भवाः ॥
आनंदं तस्य राजर्षेर्जनयंतो द्विजोत्तमाः ॥ २८ ॥
अथ क्वाऽपि कथांते स पार्थिवस्तैर्महर्षिभिः ॥
पृष्टः कौतूहलाविष्टैर्दत्त्वा श्रौतीस्तदाशिषः ॥ २९ ॥
॥ ऋषय ऊचुः ॥ ॥
वर्षेवर्षे महीपाल त्वमत्राऽऽगत्य यत्नतः ॥
करोषि मंत्रिणा सार्धं पुरस्याऽस्य प्रदक्षिणाम् ॥ ॥ ६.१४.३० ॥
अस्मिन्क्षेत्रे सुतीर्थानि संति पार्थिवसत्तम ॥
तथाऽन्यानि प्रसिद्धानि देवतायतनानि च । ३१ ॥
आदरस्तेषु वै राजन्नास्ति स्वल्पो ऽपि कर्हिचित् ॥
एतन्नः कौतुकं जातं न चेद्गुह्यं प्रकीर्तय ॥ ३२ ॥
॥ सूत उवाच ॥ ॥
तेषां तद्वचनं श्रुत्वा विनयाऽवनतः स्थितः ॥
स प्रोवाच वचो भूपः किंचिद्व्रीडासमन्वितः॥३३॥
यत्पृष्टोऽस्मि द्विजश्रेष्ठा युष्माभिः सांप्रतं मम ॥
तद्गुह्यं न मयाऽऽख्यातं कस्यचिद्धरणीतले ॥३४॥
तथाऽपि हि प्रकर्तव्यं युष्माकं सत्यमेव हि ॥
अपि गुह्यतमं चेत्स्याच्छृण्वंतु मुनिसत्तमाः ॥ ३५ ॥
॥ सूत उवाच ॥ ॥
ततः स कथयामास पूर्वजातिसमुद्भवम् ॥
वृत्तांतं तन्मुनींद्राणां तेषां ब्राह्मणसत्तमाः ॥ ३६ ॥
यथा नष्टः पशुस्तस्य कृता यद्वदवेक्षणा ॥
यथा प्रदक्षिणा जाता चमत्कारपुरस्य तु । ३७ ॥
जातिस्मृतिर्यथा जाता प्राक्तनी तत्प्रभावतः ॥
राज्यप्राप्तिर्विभूतिश्च तथेष्टाप्तिः पदेपदे ॥ ३८ ॥
तच्छ्रुत्वा मुनयः सर्वे प्रहृष्टाः पृथिवीपतेः ॥
आशीर्वादान्बहून्दत्त्वा साधुसाध्विति चाऽब्रुवन् ॥ ३९ ॥
समुत्थाय ततश्चक्रुः पुरस्तस्याः प्रदक्षिणाम् ॥
यथोक्तविधिना सर्वे श्रद्धया परया युताः ॥ ६.१४.४० ॥
गताश्च परमां सिद्धिं तत्प्रभावात्सुदुर्लभाम् ॥
जपयज्ञप्रदानैर्या तीर्थसेवादिकैरपि ॥ ४१ ॥
सोऽपि राजा स मन्त्री च जातौ वैमानिकौ सुरौ ॥
अद्याऽपि तौ हि दृश्येते तारारूपौ नभस्तले ॥ ४२ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये चमत्कारपुरप्रदक्षिणामाहात्म्यवर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥