स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१३

विकिस्रोतः तः


॥ ॥सूत उवाच ॥ ॥
एवं निवेद्य पुत्राणां स राज्यं पृथिवीपतिः ॥
पुरं च तद्द्विजातिभ्यः प्रदाय स्वयमेव हि ॥ १ ॥
तत आराधयामास देवदेवं महेश्वरम् ॥
कृत्वा तदाऽऽश्रमं तत्र श्रद्धया परया युतः ॥ २ ॥
स बभूव फलाहारो यावद्वर्षशतं नृपः ॥
शीर्णपर्णाशनः पश्चात्तावत्कालं समाहितः ॥ ३ ॥
ततः परं जलाहारो जातो वर्षशतं हि सः ॥
वायुभक्षस्ततोऽभूत्स यावद्वर्षशतं परम्॥ ४ ॥
ततस्तुष्टो महादेवस्तस्य वर्षशते गते ॥
चतुर्थे वायुभक्षस्य दर्शने समुपस्थितः ॥ ५ ॥
प्रोवाच परितुष्टोऽस्मि मत्तः प्रार्थय वांछितम् ॥
अहं ते संप्रदास्यामि दुर्लभं त्रिदशैरपि ॥ ६ ॥
॥ राजोवाच ॥ ॥
एतत्पुण्यतमं क्षेत्रं नानातीर्थसमाश्रयम् ॥
हाटकेश्वरमाहात्म्यात्सर्वपापक्षयापहम् ॥ ७ ॥
तस्मात्तव निवासेन भूयान्मेध्यतमं पुनः ॥
एतन्मे वांछितं देव देहि तुष्टिं गतो यदि ॥ ८ ॥
मयैतदग्र्यं निर्माय ब्राह्मणेभ्यो निवेदितम् ॥
पुरं शर्वाऽमराधीश श्रद्धापूतेन चेतसा ॥ ९ ॥
तस्मिंस्त्वया सदा वासः कर्तव्यो मम वाक्यतः ॥
निश्चलत्वेन येन स्याद्गणैः सर्वैः समन्वितम् ॥ ६.१३.१० ॥
॥ भगवानुवाच ॥ ॥
अचलोऽहं भविष्यामि स्थानेऽत्र तव भूमिप ॥
अचलेश्वर इत्येव नाम्ना ख्यातो जगत्त्रये ॥ ११ ॥
यो मामत्र स्थितं मर्त्यो वीक्षयिष्यति भक्तितः ॥
भविष्यंत्यचलास्तस्य सर्वदैव विभूतयः ॥१२॥
माघशुक्लचतुर्दश्यां मम लिंगस्य यो नरः ॥
श्रद्धया परया युक्तः कर्ता यो घृतकंबलम् ॥१३॥
बाल्ये वयसि यत्पापं वार्धके यौवनेऽपि वा ॥
तद्यास्यति क्षयं तस्य तमः सूर्योदये यथा ॥ १४ ॥
तस्मात्स्थापय मे लिंगं त्वमत्रैव महीपते ॥
अहं येन करोम्येव तत्र वासं सदाचलः ॥ १५ ॥
॥ सूत उवाच ॥ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
सोऽपि राजा चकाराशु प्रासादं सुमनोहरम् ॥ १६ ॥
तत्र संस्थापयामास लिंगं देवस्य शूलिनः ॥
श्रद्धया परया युक्तः सर्वलक्षणलक्षितम् ॥।७॥
यस्मिन्दृष्टेऽथवा स्पृष्टे ध्याते वा पूजितेऽपि वा ॥
नरो विमुच्यते पापादाजन्ममरणांतिकात् ॥।८॥
ततः संचिंतयामास भूपालः किं महेश्वरः ॥
सांनिध्यं निश्चलो भूत्वा लिंगेऽत्रैव करिष्यति ॥ १९ ॥
एतस्मिन्नंतरे जाता वाणी गगनगोचरा ॥
हर्षयन्ती महीपालं चमत्कारं सुनिस्वना ॥ ६.१३.२० ॥
मा त्वं भूमिपशार्दूल कार्यचिन्तां करिष्यसि ॥
अस्मिन्वासं सदात्रैव लिंगे कर्तास्मि नित्यशः ॥ २१ ॥
तथान्यदपि ते वच्मि प्रत्ययार्थं वचो नृप ॥
तच्छ्रुत्वा निर्वृतिं गच्छ वीक्षस्वैव च यत्नतः ॥ २२ ॥।
सदा मे निश्चला छाया लिंगस्यास्य भविष्यति ॥
एकैव पृष्ठदेशस्था न दिक्संस्था भविष्यति ॥ २३ ॥
॥ सूत उवाच ॥ ॥
ततः स वीक्षयामास तां छायां लिंगसंभवाम् ॥
तद्रूपां निश्चलां नित्यं तद्दिक्संस्थे दिवाकरे ॥ २४ ॥
ततो हर्षं परं गत्वा प्रणिपत्य च तं भुवि ॥
कृतकृत्यमिवात्मानं स मेने पार्थिवोत्तमः ॥ २५ ॥
अद्यापि दृश्यते छाया तादृग्रूपा सदा हि सा ॥
तस्य लिंगस्य विप्रेन्द्रा जाता विस्मयकारिणी ॥ २६ ॥
षण्मासाभ्यंतरे मृत्युर्यस्य स्याद्भुवि भो द्विजाः ॥
न स पश्यति तां छायामेषोऽन्यः प्रत्ययः परः ॥ २७ ॥
॥ सूत उवाच ॥ ॥
एवं स भगवांस्तत्र सर्वदैव व्यवस्थितः ॥
अचलेश्वररूपेण चमत्कारपुरांतिके ॥ २८ ॥
निश्चलत्वेन देवेशोह्यष्टषष्टिषु मध्यमः ॥
क्षेत्राणां वसते तत्र तस्य वाक्यान्महेश्वरः ॥ २९ ॥
तेन तत्पावनं क्षेत्रं सर्वेषामिह कीर्तितम् ॥
कामदं मुक्तिदं चैव जायते सर्वदेहिनाम् ॥ ६.१३.३० ॥
तथान्यदपि यद्वृत्तं वृत्तांतं तत्प्रभावजम् ॥
तदहं संप्रवक्ष्यामि श्रूयतां द्विजसत्तमाः ॥ ३१ ॥
अचलेश्वरमाहात्म्यात्तस्मिन्क्षेत्रे नरा द्रुतम्॥
वांछितं मनसः सर्वे लभंते सकलं फलम् ॥ ३२ ॥
स्वर्गमेके परे मोक्षं धनधान्यसुतांस्तथा ॥
यो यं काममभिध्याय पूजयेदचलेश्वरम्॥
तंतं स लभते मर्त्यः स्वल्पायासेन च द्रुतम् ॥ ३३ ॥
अथ दृष्ट्वा सहस्राक्षः सर्वे पापनरा भुवि ॥
स्वर्गं यांति तथा मोक्षं प्राप्नुवन्ति च सम्मुखम् ॥ ३४ ॥
ततः क्रोधं च कामं च लोभं द्वेषं भयं रतिम् ॥
मोहं च व्यसनं दुर्गं मत्सरं रागमेव च ॥ ३५ ॥
सर्वान्मूर्तान्समाहूय ततः प्रोवाच सादरम्॥
स्वयमेव सहस्राक्षो रहस्ये द्विजसत्तमाः ॥ ३६ ।
नरो वा यदि वा नारी चमत्कारपुरं प्रति ॥
यो गच्छति धरापृष्ठे युष्माभिर्वार्य एव सः ॥ ३७ ॥
तत्रैव वसमानोऽपि यो गच्छेदचलेश्वरम् ॥
मद्वाक्यात्स विशेषेण सर्वैर्वार्यः प्रयत्नतः ॥ ३८ ॥
ते तथेति प्रतिज्ञाय गत्वा शक्रस्य शासनात् ॥
चक्रुस्ततः समुच्छिन्नं तन्माहात्म्यं गतं भुवि ॥ ३९ ॥
एतद्वः सर्वमाख्यातमाख्यानं पापनाशनम् ॥
अचलेश्वरदेवस्य तस्मिन्क्षेत्रे निवासिनः ॥ ६.१३.४० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येऽचलेश्वरमाहात्म्यवर्णनंनाम त्रयोदशोध्यायः ॥ ॥ १३ ॥ ॥ ॥