स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०११
ऋषय ऊचुः ॥ ॥
चमत्कारः कथं राजा मुक्तः कुष्ठेन सूतज ॥
कथं तेन तपस्तप्तं कियत्कालं च भूभुजा ॥ १ ॥
कतमे ब्राह्मणास्ते वै शंखतीर्थं प्रदर्शितम् ॥
यैस्तस्य रोगमुक्त्यर्थं दुःखितस्य महात्मनः ॥ २ ॥
कतमं शंखतीर्थं तत्कस्मिन्स्थाने व्यवस्थितम् ॥
किंप्रभावं च निःशेषं सर्वं विस्तरतो वद ॥ ३ ॥
॥ सूत उवाच ॥ ॥
अहं वः कीर्तयिष्यामि कथामेतां मनोहराम् ॥
सर्वपापहरां विप्राश्चमत्कारनृपोद्भवाम् ॥ ४ ॥
स भ्रांतः सर्वतीर्थानि प्रभासाद्यानि कृत्स्नशः ॥
तपस्वी नियताहारो भिक्षान्नकृतभोजनः ॥५॥
पृच्छमानो भिषग्मुख्यानौषधानि मुहुर्मुहुः ॥
मंत्रान्मंत्रविदश्चैव रोगनाशाय नित्यतः ॥ ॥ ६ ॥
न लेभे किंचिदिष्टं वा स मंत्रं भेषजं च वा ॥
तीर्थं वा नृपशार्दूलो येन स्याद्व्याधिसंक्षयः ॥ ७ ॥
ततश्च पार्थिवश्रेष्ठो वैराग्यं परमं गतः ॥
एकाकी यतचित्तात्मा सर्वसत्त्वविराजिते ॥ ९७ ॥
निवासमकरोत्तस्मिन्क्षेत्रे पुण्यतमे चिरम् ॥
शीर्णपर्णफलाहारो भूमौ शेते सदा निशि ॥
अन्य स्याऽन्यस्य वृक्षस्य मदाहंकारवर्जितः ॥ ९ ॥
ततः कतिपयाहस्य भ्रममाणो महीपतिः ॥
सोऽपश्यद्ब्राह्मणश्रेष्ठांस्तीर्थयात्राश्रयान्बहून् ॥ 6.11.१० ॥
ततः प्रणम्य तान्विप्रानुपविष्टान्धरातले ॥
विश्वामित्राश्रमस्यांते प्रोवाच विनयान्वितः ॥॥॥
॥ राजोवाच ॥ ॥
अहं नाम्ना चमत्कारः पार्थिवः सूर्यवंशजः ॥
आनर्त्ताधिपतिर्व्याप्तः कुष्ठेन द्विजसत्तमाः ॥।२॥
अस्ति कश्चिदुपायोऽत्र दैवो वा मानुषोऽपि वा ॥
भेषजं वाऽथ मंत्रो वा येन कुष्ठं प्रशाम्यति ॥ १३ ॥
ममोपरि दयां कृत्वा वदध्वं द्विजसत्तमाः ॥
कुष्ठग्रस्तशरीरं च परं कृच्छ्रमुपागतम् ॥।४॥
अथवा वित्थ नो यूयं त्यक्ष्यामीह कलेवरम् ॥
प्रविश्याग्निं जलं वाऽपि भक्षयित्वाऽथ वा विषम्॥ १५ ॥
तस्य तद्वचनं श्रुत्वा सर्वे ते द्विजसत्तमाः ॥
प्रोचुः कृपासमाविष्टास्ततस्तं पृथिवीश्वरम् ॥ १६ ॥
अस्ति पार्थिवशार्दूल स्थानादस्माददूरतः ॥
शंखतीर्थमिति ख्यातं सर्वरोगक्षयावहम् ॥ १७ ॥
ये नरा व्याधिना ग्रस्ताः काणाश्चांधास्तथा जडाः ॥
हीनांगाश्चाऽधिकांगाश्च कुरूपा विकृताननाः ॥ १८ ॥
तेऽपि चैत्रस्य कृष्णादौ स्नातास्तत्राकृताशनाः ॥
भवंति नीरुजः सद्यश्चित्रासंस्थे निशाकरे ॥ १९ ॥
अस्माभिः शतशो दृष्टा द्वादशार्कसमप्रभाः ॥
कामदेवसमाकारास्तेजोवीर्यसमायुताः ॥ 6.11.२० ॥
॥ ॥ राजोवाच ॥ ॥
शंखतीर्थं कथं ज्ञेयं मया ब्राह्मणसत्तमाः ॥
कथं चैव समुत्पन्नं वदध्वं मम विस्तरात् ॥ २१ ॥
॥ ब्राह्मणा ऊत्रुः ॥ ॥
आसीत्पूर्वं मुनिश्रेष्ठो लिखिताख्यो महीतले ॥
शांडिल्यस्य मुनेः पुत्रस्तपोवीर्यसमन्वितः ॥ २२ ॥
अथ तस्यानुजो जज्ञे शंखाख्यो धर्मशास्त्रवित् ॥
कन्दमूलफलाहारः सदैव तपसि स्थितः ॥ २३ ॥
कस्यचित्त्वथ कालस्य लिखितस्याऽऽश्रमं ययौ ॥
शंखः स्वादुफलार्थाय पीडितोतिबुभुक्षया ॥ २४ ॥
स शून्यमाश्रमं प्राप्य लिखितस्य महात्मनः ॥
आत्मीयानीति मन्वानः फलानि जगृहे ततः ॥ २५ ॥
भक्षयामास भूरीणि पक्वानि मधुराणि च ॥
एतस्मिन्नन्तरे प्राप्तो लिखितः शिष्यसंयुतः ॥२६ ॥
स गृहीतफलं दृष्ट्वा शंखं प्रोवाच कोपतः ॥ २७ ॥
अदत्तानि मया पाप फलानि हृतवानसि ॥
कस्मात्त्वं चौर्यरूपेण नानुबन्धमवेक्षसे ॥ २८ ॥
॥ शंख उवाच ॥॥ ॥ ॥
सत्यमेतद्द्विजश्रेष्ठ यत्त्वया परिकीर्तितम् ॥
फलानि प्रगृहीतानि विजनेऽत्र तवाश्रमे ॥ २९ ॥
तस्मात्कुरु यथार्हं मे निग्रहं चौर्यसंभवम् ॥।
इह लोकः परश्चैव येन मे स्यात्सुखावहः ॥ 6.11.३० ॥
ततः स हस्तमादाय हस्ते शंखस्य तत्क्षणात् ॥
चकर्त कोपमाविष्टो वार्यमाणोऽपि तापसैः ॥। ॥ ३१ ॥
छिन्नहस्तोऽपि शंखस्तु तपश्चक्रे सुदारुणम् ॥
विशेषेण समासाद्य स्वाश्रमे भूय एव तु ॥ ३२ ॥
ततस्तुष्टो महादेवस्तस्य कालेन केन चित् ॥
प्रोवाच दर्शनं गत्वा तं च शंखमुनीश्वरम् ॥ ३३ ॥
॥ महेश्वर उवाच ॥ ॥
भोभो मुने महासत्त्व दुष्करं कृतवानसि ॥
वरं गृहाण मत्तस्त्वं मनसा समभीप्सितम्॥ ३४ ॥
॥ शंख उवाच ॥ ॥
यदि तुष्टोसि मे देव वरं चेद्यच्छसि प्रभो ॥
स्यातां मे तादृशौ हस्तौ भूयोऽपि सुरसत्तम ॥ ३५ ॥
तथेदं मम नामांकं तीर्थं स्यात्सुरसत्तम ॥
विख्यातं सर्वलोकेषु सर्वपापहरं नृणाम् ॥ ३६ ॥
हीनांगो वाधिकांगो वा व्याधिना ग्रस्त एव च ॥
अत्र स्नानं करोत्याशु स भूयः स्यात्पुनर्नवः ॥ ३७ ॥
॥ भगवानुवाच ॥ ॥
एतत्तीर्थं तु विख्यातं तव नाम्ना भविष्यति ॥
अद्यप्रभृति विप्रेन्द्र देहिनां पापनाशनम् ॥ ३८ ॥
हीनांगो वाधिकांगो वा योऽत्र स्नानं करिष्यति ॥
चैत्रे शुक्ले निराहारश्चित्रासंस्थे निशाकरे ॥
सुवर्णांगः स तेजस्वी भविष्यति न संशयः ॥ ३९ ॥
सकामो यदि विप्रेंद्र ध्यायमानः सुरूपताम् ॥
निष्कामो वा परं स्थानं गमि ष्यति शिवात्मकम्॥ 6.11.४० ॥
अत्र श्राद्धे कृते ब्रह्मंश्चतुर्दश्यां निशाकरे ॥
चित्रास्थिते प्रयास्यंति पितरस्तृप्तिमुत्तमाम् ॥ ४१ ॥
अद्यैव विप्रशार्दूल चैत्रशुक्लांत उत्तमः ॥
अपराह्णे निशानाथश्चित्रायोगं प्रयास्यति ॥ ४२ ॥
तत्रोपवासयुक्तस्य सम्यक्स्नातस्य तत्क्षणात् ॥
स्यातां हस्तौ सुरूपाढ्यौ यथा पूर्वं तथा हि तौ ॥ ४३ ॥
एवमुक्त्वा स भगवांस्ततश्चादर्शनं गतः ॥
शंखोऽपि कुतपे काले तत्र स्नानमथाकरोत् ॥ ४४ ॥
ततश्च तत्क्षणाज्जातौ हस्तौ तस्य यथा पुरा ॥
रक्तोत्पलनिभौ कांतौ मत्स्यचिह्नेन चिह्नितौ ॥ ४५ ॥
॥ब्राह्मणा ऊचुः॥
एवं तद्धरणीपृष्ठे तीर्थं जातं नृपोत्तम ॥
प्रभावाद्देवदेवस्य चंद्रांकस्य शुभावहम् ॥ ४६ ॥
तस्मात्त्वमपि राजेंद्र तत्र स्नानं समाचर ॥
चैत्रे शुक्लचतुर्दश्यां चित्रासंस्थे निशाकरे ॥ ॥ ४७ ॥
भविष्यसि न संदेहः सर्वरोगविवर्जितः॥
वयं ते दर्शयिष्यामः प्राप्ते काले यथोदिते ॥४८॥
॥ सूत उवाच ॥ ॥
ततः कतिपयाहेन चैत्रकृष्णादिरागतः ॥
चित्रासंस्थे निशानाथे संप्राप्ता च चतुर्दशी ॥ ४९ ॥
ततस्ते ब्राह्मणा भूपं समादाय च तत्क्षणात् ॥
शंखतीर्थं समुद्दिश्य गतास्तस्य हितैषिणः ॥ 6.11.५० ॥
ततः स मनसि ध्यात्वा कुष्ठव्याधिपरिक्षयम् ॥
स्नानं चक्रे यथान्यायं श्रद्धया परया युतः ॥ ५१ ॥
ततः कुष्ठविनिर्मुक्तो द्वादशार्कसमप्रभः ।
निष्क्रांतः सलिलात्तस्माद्धर्षेण महतान्वितः ॥ ५२ ॥
ततः प्रणम्य तान्सर्वान्ब्राह्मणान्वेदपारगान् ॥
कृतांजलिपुटो भूत्वा वाक्यमेतदुवाच ह ॥ ५३ ॥
प्रसादेन हि युष्माकं मुक्तोऽहं ब्राह्मणोत्तमाः ॥
कुष्ठव्याधेर्महाकालं गर्हितोस्म्येव देहिनाम् ॥ ५४ ॥
तस्मान्नाहं करिष्यामि राज्यं ब्राह्मणसत्तमाः ॥
तीर्थेऽत्रैवाधुना नित्यं चरिष्यामि महत्तपः ॥ ५५ ॥
एतद्राज्यं च देशं च हस्त्यश्वादि तथापरम् ॥
यत्किंचिद्विद्यते मह्यं तद्गृह्णंतु द्विजोत्तमाः ॥ ५६ ॥
ममैवानुग्रहार्थाय दयां कृत्वा बृहत्तराम् ॥
दीनस्य भक्तियुक्तस्य विरक्तस्य विशेषतः ॥ ५७ ॥ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
न वयं रक्षितुं शक्ता राज्यं पार्थिवसत्तम ॥
तत्किं तेन गृहीतेन येन स्याद्राज्यविप्लवः ॥ ५८ ॥
जामदग्न्येन रामेण पुरा दत्ता वसुन्धरा ॥
त्रिःसप्त क्षत्रियैर्हीनां कृत्वास्माकं नृपोत्तम ॥ ५९ ॥
सा भूयोपि हृताऽस्माकं क्षत्रियैर्बलवत्तरैः॥
तिरस्कृत्य द्विजान्सर्वाँल्लीलयापि मुहुर्मुहुः ॥ 6.11.६० ॥
॥ राजोवाच ॥ ॥
अहं वः प्रकरिष्यामि रक्षां ब्राह्मणसत्तमाः ॥
तपस्थितोऽपि कार्येऽत्र न भीः कार्या कथंचन ॥ ६१ ॥
॥ ब्राह्मणा ऊचुः ॥ ॥
अवश्यं यदि ते श्रद्धा विद्यते दानसंभवा ।
क्षेत्रेऽत्रापि महापुण्ये कृत्वा देहि पुरोत्तमम् ॥ ॥। ६२ ॥
सर्वेषां ब्राह्मणेंद्राणां प्राकारपरिखान्वितम् ॥
सुखेन येन तिष्ठामः स्नात्वा तीर्थैः पृथग्विधैः ॥
गृहस्थधर्मिणः सर्वे स्वाध्यायनिरता सदा । ६३ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा स महीपालस्तथेत्युक्त्वा प्रहर्षितः ॥
नगरं कल्पयामास स्थाने तत्र महत्तमम् ॥ ६४ ॥
प्राकारेण सुतुंगेन परिखाद्येन सर्वतः ॥
आयामव्यासतश्चैव क्रोशमात्रं मनोहरम् ॥ ६५ ॥
त्रिकचत्वरसंशुद्धं शोभितं सर्वतो ध्वजैः ॥
प्रासादैः प्रोन्नतैः कान्तैः समंतात्सुधया वृतैः ॥ ६६ ॥
मत्तवारणकोपेतैर्बहुभिर्भूभिरेव च ॥
संपूर्णं सत्यकामाद्यैः साधुलोकप्रशंसितैः ॥ ६७ ॥
ततो गृहाणि सर्वाणि पूरयित्वा स भूमिपः ॥
सुवर्णमणिमुक्तादिपदार्थैरपरैरपि ॥ ६८ ॥
ब्राह्मणेभ्यः कुलीनेभ्यो वेदविद्भ्यो विशेषतः ॥
श्रोत्रियेभ्यश्च दांतेभ्यः स तु श्रद्धासमन्वितः ॥ ६९ ॥
यथाज्येष्ठं यथाश्रेष्ठं प्रक्षाल्य चरणौ ततः ॥
शास्त्रोक्तेन विधानेन प्रददौ द्विजसत्तमाः ॥ 6.11.७० ॥
इति श्रीस्कांदे महापुराणएकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थोत्पत्तिमाहात्म्यवर्णने चमत्कारभूपतिना व्राह्मणेभ्यो नगरदानवर्णनंनामैकादशोऽध्यायः ॥ ११ ॥