स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ००९

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
अथ शक्रः समाहूय प्रोचे संवर्तकानिलम् ॥
हाटकेश्वरजेक्षेत्रे महान्नागबिलोऽस्ति वै ॥ १ ॥
तं पूरय ममादेशाद्द्रुतं गत्वाऽभिपांसुभिः ॥
येन न स्याद्गतिस्तत्र कस्यचिन्मृत्युधर्मिणः ॥२॥
॥ वायुरुवाच ॥ ॥
तवादेशान्मया पूर्वं पूरितो विवरो यदा ॥।
लिंगोद्भवस्तदा शापः प्रदत्तो मे पुरारिणा ॥ ३ ॥
यस्माल्लिंगं ममैतद्वै त्वया पांसुभिरावृतम् ॥
तस्मात्समानधर्मा त्वं गन्धवाहो भविष्यसि ॥ ४ ।
यद्वत्कर्पूरजं गन्धं समग्रं त्वं हि वक्ष्यसि ॥
अमेध्यसंभवं तद्वन्मम वाक्यादसंशयम् ॥५॥
तस्मात्कुरु प्रसादं मे विदित्वैतत्सुरेश्वर ॥
कृत्येऽस्मिन्स्म र्यतामन्यस्त्रिपुरारेर्बिभेम्यहम् ॥६॥
ततः संचिंतयामास पूरणं त्रिदशाधिपः ॥
तस्य नागबिलस्यैव नैव किंचिदवैक्षत ॥७॥
ततस्तं प्राह देवेज्यःस्वय मेव शतक्रतुम् ॥
कस्मात्त्वं व्याकुलीभूतः कृत्येऽस्मिंस्त्रिदशाधिप ॥ ८ ॥
अस्ति पर्वतमुख्योऽत्र नाम्ना ख्यातो हिमालयः ॥
तस्य पुत्रत्रयं जातं तच्च शक्र शृणुष्व मे ॥ ९ ॥
मैनाकः प्रथमः प्रोक्तो द्वितीयो नंदिवर्धनः॥
रक्तशृंगस्तृतीयस्तु पर्वतः परिकीर्तितः ॥ ६.९.१० ॥
स मैनाकः समुद्रांतः प्रविष्टः शक्र ते भयात् ॥
पक्षाभ्यां सहितोऽद्यापि स तत्रैव व्यवस्थितः ॥ ११ ॥
नंदिवर्धन इत्येष द्वितीयः परिकीर्तितः ॥
वसिष्ठाश्रमजो रन्ध्रस्ते न कृत्स्नः प्रपूरितः ॥ १२ ॥
हिमाचलसमादेशाद्वसिष्ठस्य च सन्मुनेः ॥
देवभूमिं परित्यज्य स गतस्तत्र सत्वरम् ॥ १३ ॥
तृतीयस्तिष्ठतेऽद्यापि रक्तशृंगः स्मृतोऽत्र यः ॥
तमानय सहस्राक्ष बिलं सार्पं प्रपूरय ॥ १४ ॥
नान्यथा पूरितुं शक्यो बिलोऽयं त्रिदशाधिप ॥
तं मुक्त्वा पर्वत श्रेष्ठं सत्यमेतन्मयोदितम् ॥ १५ ॥
॥ सूत उवाच ॥
तच्छ्रुत्वा देवपूज्यस्य वचनं त्रिदशाधिपः ॥
जगाम सत्वरं तत्र स यत्रास्ते हिमालयः ॥ ॥ १६ ॥
ततः प्रोवाच तं गत्वा सामपूर्वमिदं वचः ॥
हिमाचलं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥ १७ ॥
॥ इन्द्र उवाच ॥ ॥
हाटकेश्वरजे क्षेत्रे महान्नागबिलः स्थितः ॥
तेन गत्वा नरा देवं पाताले हाटकेश्वरम् ॥ १८ ॥
पूजयिष्यंति ये केचिदपि पापपरायणाः ॥
मया सार्धं करिष्यंति ततः स्पर्द्धां नगोत्तम ॥ १९ ॥
तस्मात्पुत्रमिमं तत्र रक्तशृंगं हिमालय ॥
प्रेषयस्व बिलो येन पूर्यते सोऽहिसंभवः ॥ ६.९.२० ॥
कुरुष्व त्वं ममातिथ्यं गृहप्राप्तस्य पर्वत ॥
आत्मपुत्रप्रदानेन कीर्तिं प्राप्स्यस्यलौकिकीम् ॥ २१ ॥
बाढमित्येव सोऽप्युक्त्वा पूजयित्वा च देवपम् ॥
ततः प्रोवाच तं पुत्रं रक्तशृंगं हिमालयः ॥ २२ ॥
तवार्थाय सहस्राक्षः पुत्र प्राप्तो ममांतिकम् ॥
तस्माद्गच्छ द्रुतं तत्र यत्र नागबिलः स्थितः ॥ २३ ॥
पूरयित्वा ममादेशात्तं त्वं शक्रस्य कृत्स्नशः ॥
सुखी भव सहानेन तथान्यैः सुरसत्तमैः ॥ २४ ॥
॥ रक्तशृंग उवाच ॥ ॥
नाहं तत्र गमिष्यामि मर्त्य भूमौ कथंचन ॥
यत्र कण्टकिनो वृक्षा रूक्षाः फलविवर्जिताः ॥ २५ ॥
न सिद्धा न च गंधर्वा न देवा न च किंनराः ॥
न च तीर्थानि रम्याणि न नद्यो विमलोदकाः ॥ २६ ॥
तथा पापसमाचारा मनुष्याः शीलवर्जिताः ॥
दुष्टचित्ताः सदा सर्वे तिर्यग्योनिगता अपि ॥ २७ ॥
तथा मम नगश्रेष्ठ पक्षौ द्वावपि कर्तितौ ॥
शक्रेण तेन नो शक्तिर्गंतुमस्ति कथंचन ॥ २८ ॥
तस्मात्कंचित्सहस्राक्ष उपायं तत्कृते परम् ॥
चिंतयत्वेव मां मुक्त्वा सत्यमेतन्मयोदितम् ॥ २९ ॥
॥ शक्र उवाच॥ ॥
अह त्वां तत्र नेष्यामि स्वहस्तेन विदारितम् ॥
तत्रापि सुशुभा वृक्षा भविष्यंति तवाश्रयाः ॥ ६.९.३० ॥
तथा पुण्यानि तीर्थानि देवतायतनानि च ॥
समंतात्ते भविष्यंति मुनीनामाश्रमास्तथा ॥ ३१ ॥
अत्रस्थस्य प्रभावो यस्तव पर्वत नंदन ॥
मद्वाक्यात्तत्र संस्थस्य कोटिसंख्यो भविष्यति ॥ ३२ ॥
तथा ये मानवास्तत्र पापात्मानोऽपि भूतले ॥
विपाप्मानो भविष्यंति सहसा तव दर्शनात् ॥ ३३ ॥
तस्माद्गच्छ द्रुतं तत्र मया सार्धं नगात्मज ॥
न चेद्वज्रप्रहारेण करिष्यामि सहस्रधा ॥ ३४ ॥
॥ सूत उवाच ॥ ॥
तस्य तद्वचनं श्रुत्वा रक्तशृंगो भयान्वितः॥
प्रविष्टः सहसागत्य तस्मिन्नागबिले गतः ॥ ३५ ॥
निमग्नो ब्राह्मणश्रेष्ठा नासाग्रं यावदेव हि ॥
शृंगैर्मनोरमैस्तुं गैः समग्रैः सहितस्तदा ॥
वृक्षगुल्मलताकीर्णै रम्यपक्षिनिषेवितैः ॥ ३६ ॥
एवं संस्थाप्य तं शक्रो हिमाचलसुतं नगम् ॥
ततः प्रोवाच सहृष्टो वरो मत्तः प्रगृह्यताम् ॥ ३७ ॥
॥ रक्तशृंग उवाच ॥ ॥
एष एव वरोऽस्माकं यत्त्वं तुष्टः सुरेश्वर ॥
किं वरेण करिष्यामि त्वत्प्रसादादहं सुखी ॥ ३८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
न वृथा दर्शनं मे स्यादपि स्वप्ने नगात्मज ॥
किं पुनर्दर्शने जाते कृते कृत्ये विशेषतः॥३९॥
॥ रक्तशृंग उवाच ॥ ॥
अवश्यं यदि देयो मे वरः सर्वसुराधिप ॥
विभवो मे द्विजार्थाय सर्वः स्यात्सर्वदा विभो ॥६.९.४॥।
॥ इन्द्र उवाच ॥ ॥
भविष्यति महीपालश्चमत्कार इति स्मृतः ॥
तव मूर्धनि विप्रार्थं स पुरं स्थापयिष्यति ॥ ४१ ॥
तत्र ब्राह्मणशार्दूला वेदवेदांगपारगाः॥
विभवं तव निःशेषं भजिष्यंति प्रहर्षिताः ॥ ४२ ॥
तथाहं चैत्रमासस्य चतुर्दश्यां नगात्मज॥
कृष्णायां स्वयमागत्य शृंगे मुख्यतमे तव॥४३॥
पूजयिष्यामि देवेशं हाटकेश्वरसंज्ञितम् ॥
सर्वैर्देवगणैः सार्धं तथा किंनरगुह्यकैः ॥४४॥
तमेकं दिवसं चात्र शृंगे तव हरः स्वयम्॥
अस्माभिः सहितस्तुष्टो निवासं प्रकरिष्यति ॥ ४५ ॥
प्रभावस्तेन ते मुख्य स्त्रैलोक्येऽपि भविष्यति ॥
स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम्॥४६॥
॥ सूत उवाच ॥॥
एवमुक्त्वा सहस्राक्षस्ततः प्राप्तस्त्रिविष्टपम्॥
रक्तशृंगोऽपि तस्थौ च व्याप्य नागबिलं तदा ॥४७॥
तस्योपरि सुमुख्यानि तीर्थान्यायतनानि च ॥
संजातानि मुनीनां च संजाताश्च तथाऽऽश्रमाः ॥ ॥४८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागबिलपूर्तिवर्णनंनाम नवमोऽध्यायः॥९॥