स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ००८

विकिस्रोतः तः
Jump to navigation Jump to search


॥ सूत उवाच ॥ ॥
एवं स्वर्गमनुप्राप्ते त्रिशंकौ नृपसत्तमे ॥
सशरीरे द्विजश्रेष्ठा विश्वामित्रसमुद्यमात् ॥ ६.८.१ ॥
तत्तीर्थं ख्यातिमायातं समस्ते भुवनत्रये ॥
ततःप्रसूति लोकानां धर्मकामार्थमोक्षदम् ॥ २ ॥
अस्पृष्टं कलिदोषेण तथान्यैरुपपातकैः ॥
ब्रह्महत्यादिकैश्चैवत्रिपुरारेः प्रभावतः ॥ ३ ॥
यस्तत्र त्यजति प्राणाञ्छ्रद्धा युक्तेन चेतसा ॥
स मोक्षमाप्नुयान्मर्त्यो यद्यपि स्यात्सुपापकृत् ॥ ४ ॥
कृमिपक्षिपतंगा ये पशवः पक्षिणो मृगाः ॥
तेऽपि तत्र मृता यांति शिवलोकमसंशयम्॥ ५ ॥
स्नानं ये तत्र कुर्वंति श्रद्धापूतेन चेतसा ॥
त्रिशंकुरिव ते स्वर्गे प्रयांत्यपि विधर्मिणः ॥ ६ ॥
घर्मार्त्ता वा तृषार्ता वा येऽवगाहंति तज्जलम्॥
तेऽपि यांति परं स्थानं यत्र देवो महेश्वरः ॥ ७ ॥
विश्वामित्रोऽपि तद्दृष्ट्वा तीर्थमाहात्म्यमुत्तमम् ॥
कुरुक्षेत्रं परित्यज्य तत्र वासमथाकरोत्॥ ८ ॥
तथान्ये मुनयः शांतास्त्यक्त्वा तीर्थानि दूरतः॥
तत्राश्रमपदं कृत्वा प्रयाताः परमं पदम् ॥ ९ ॥
तथैव मनुजाः सर्वे दूरादागत्य सत्वराः ॥
तत्र स्नात्वा दिवं यांति कृत्वा पापशतान्यपि ॥ ६.८.१० ॥
एवं तस्य प्रभावेण तीर्थस्य द्विजसत्तमाः ॥
गच्छमानेषु लोकेषु सुखेन त्रिदिवालयम् ॥ ११ ॥
अग्निष्टोमादिका सर्वाः समुच्छेदं गताः क्रियाः ॥
न कश्चिद्यजते मर्त्यो न व्रतं कुरुते नरः ॥ १२ ॥
न यच्छति तथा दानं न च तीर्थं निषेवते ॥
केवलं कुरुते स्नानं लिंगभेदे समाहितः ॥ १३ ॥
ततः प्रगच्छति स्वर्गं विमानवरमाश्रितः ॥ १४ ॥
ततः प्रपूरिताः सर्वे स्वर्गलोका नरैर्द्विजाः ॥
ब्रह्मविष्णुशिवेन्द्रादीन्स्पर्धमानैः सुरोत्तमान् ॥ १५ ॥
ततो देवगणाः सर्वे यज्ञभागविवर्जिताः ॥
कृच्छ्रं परमनुप्राप्ता मन्त्रं चक्रुः परस्परम्॥१६॥
हाटकेश्वरमाहात्म्यात्स्वर्गलोकः प्रपूरितः ॥
ऊर्ध्वबाहुभिराकीर्णः स्पर्धमानैः समंततः ॥ १७ ॥
तस्मात्तत्क्रियतां कर्म येनोच्छेदं प्रगच्छति ॥
तीर्थमेद्धरापृष्ठे हाटकेश्वरसंज्ञितम्॥ १८ ॥
ततः संवर्तको वायुः शक्रादेशात्समंततः ॥
तत्क्षेत्रं पूरयामास पांसुभिर्द्विजसत्तमाः ॥ १९ ॥
एवं नाशमनुप्राप्ते तस्मिंस्तीर्थे स्थलोच्चये ॥
जाते जाताः क्रियाः सर्वा भूयोऽपि क्रतुसंभवाः ॥ ६.८.२० ॥
ततः कालेन महता वल्मीकः समपद्यत ॥
तस्मिन्क्षेत्रे स पाताले संप्रयातः शनैःशनैः ॥ २१ ॥
अथ पातालतो नागास्तेन मार्गेण कौतुकात् ॥
मर्त्यलोकं समायांति भ्रमंति च धरातले॥२२॥
तत्र ते मानवान्भोगान्भुक्त्वा चैव यथेच्छया॥
पुनर्निर्यांति तेनैव मार्गेण निजमंदिरम्॥२३॥
ततो नागबिलः ख्यातः स सर्वस्मिन्धरातले ॥
गतागतेन नागानां स वल्मीको द्विजोत्तमाः ॥ २४ ॥
कस्यचित्त्वथ कालस्य भगवान्पाकशासनः ॥
ब्रह्महत्यासमोपेतो निस्तेजाः समपद्यत ॥ २५ ॥
ततः पितामहादेशं लब्ध्वा मार्गेण तेन सः ॥
प्रविश्य चेक्षयामास पाताले हाट केश्वरम् ॥ २६ ॥
अथाऽभूत्पापनिर्मुक्तस्तत्क्षणात्तस्य दर्शनात्॥
तेजसा च समायुक्तः पुनः प्राप त्रिविष्टपम् ॥ २७ ॥
स दृष्ट्वा तत्प्रभावं तल्लिंगं देवस्य शूलिनः ॥
हाटकेश्वरसंज्ञस्य भयं चक्रे नरोद्भवम् ॥ २८ ॥
यदि कश्चित्पुमानत्र त्रिशंकुरिव भूपतिः ॥
पूजयिष्यति तल्लिंगं विपाप्मा श्रद्धया सह ॥ २९ ॥
यापयिष्यति तन्नूनं मामस्मात्त्रिदशालयात् ॥
तस्मात्संपूरयाम्येनं मार्गं पाता लसंभवम् ॥ ६.८.३० ॥
ततश्च त्वरया युक्तो रक्तशृंगं नगोत्तमम् ॥
प्रचिक्षेप बिले तस्मिन्स्वयमेव शतक्रतुः ॥ ३१ ॥
॥ ऋषय ऊचुः ॥॥ ॥ ॥
ब्रह्महत्या कथं जाता देवेन्द्रस्य महात्मनः ॥
कस्मिन्काले च सर्वं नो विस्तरात्सूत कीर्तय ॥ ३२ ॥
रक्तशृंगो गिरिः कोऽयं संक्षिप्तस्तत्र तेन यः ॥
मानुषाणां भयं तस्य कतमस्य शचीपतेः ॥ ३३ ॥
॥ सूत उवाच ॥ ॥
पुरा त्वष्ट्रा द्विजश्रेष्ठा हिरण्यकशिपोः सुता ॥
विवाहिता रमानाम श्रेष्ठरूपगुणान्विता ॥ ३४ ॥
अथ तस्या ययौ कालः सुप्रभूतः सुतं विना ॥
ततो वैराग्यसंपन्ना सुतार्थं तपसि स्थिता ॥। ॥ ३५ ॥
ध्यायमाना सुराधीशं देवदेवं महेश्वरम् ॥
बलिपूजोपहारेण सम्यक्छ्रद्धासमन्विता ॥ ३६ ॥
नियता नियताहारा स्नानजप्यपरायणा ॥
यच्छमाना द्विजाग्र्येभ्यो दानानि विविधानि च ॥ ३७ ॥
ततो वर्षसहस्रांते तस्यास्तुष्टो महेश्वरः ॥
उवाच वरदोऽस्मीति वृणुष्व यदभीप्सितम् ॥ ३८ ॥
सा वव्रे मम पुत्रोऽस्तु भगवंस्त्वत्प्रसादतः ॥
शूरः शस्त्रैरवध्यश्च विप्रदानवरूपधृक् ॥ ३९ ॥
वेदाध्ययन संपन्नो यज्ञकर्मसमुद्यतः ॥
तेजसा यशसा ख्यातः सर्वेषामपि देहिनाम् ॥ ६.८.४० ॥
॥ भगवानुवाच ॥ ॥
भविष्यति न संदेहः पुत्रस्ते बलवान्सुधीः ॥
अवध्यः सर्वशस्त्राणां महातेजोभिरन्वितः ॥ ४१ ॥
यज्वा दानपतिः शूरो वेदवेदांगपारगः ॥
ब्राह्मणोक्ताः क्रियाः सर्वाः करिष्यति स कृत्स्नशः ॥
अजेयः संगरे चैव कृत्स्नैरपि सुरासुरैः ॥ ४२ ॥
एवमुक्त्वा स देवेशस्ततश्चादर्शनं गतः ॥
ऋतौ सापि दधे गर्भं सकाशाद्विश्वकर्मणः ॥ ॥ ४३ ॥
ततश्च सुषुवे पुत्रं दशमे मासि शोभनम् ॥
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम् ॥ ४४ ॥
तस्य चक्रे पिता नाम प्राप्ते द्वादशमे दिने ॥।
प्रसिद्धं वृत्र इत्येव पूजयित्वा द्विजोत्तमान् ॥ ४५ ॥
अथासौ ववृधे बालः शुक्लपक्षे यथोडुराट् ॥
पितृमातृकृतानंदो बन्धुवर्गेण लालितः ॥ ४६॥
ततोऽस्य प्रददौ काले व्रतं विप्रजनोचितम् ॥
समभ्येत्य स्वयं शुक्रो दानवस्यापि संद्विजः ॥ ४७ ॥
स चापि चतुरो वेदान्ब्रह्मचारिव्रते स्थितः ॥
वेदांगैः सहितान्वृत्रः पपाठ गुरुवत्सलः ॥ ४८ ॥
ततो यौवनमासाद्य भूमिपालानशेषतः ॥
जित्वा धरां वशे चक्रे पातालं तदनंत रम्॥ ४९ ॥
ततश्चेंद्रजयाकांक्षी समासाय सुरालयम् ॥
सहस्राक्षमुखान्देवान्युद्धे चक्रे पराङ्मुखान् ॥ ६.८.५० ॥
अथ तेन समं वज्री चक्रेऽष्टादश संयुगान्॥
एकस्मिन्नपि नो लेभे विजयं द्विजसत्तमाः ॥ ५१ ॥
हतशेषैः सुरैः सार्धं सर्वांगक्षतविक्षतैः ॥
ततो जगाम वित्रस्तो ब्रह्मलोकं दिवा लयात्॥ ५२ ॥
वृत्रोऽपि बुभुजे कृत्स्नं त्रैलोक्यं सचराचरम् ॥
शाक्रं पदं समास्थाय निहताशेषकंटकम् ॥ ५३ ॥
यज्ञभागभुजश्चक्रे दानवान्बल गर्वितान् ॥
देवस्थानेषु सर्वेषु यथोक्तेषु महाबलः ॥ ५४ ॥
एवं त्रैलोक्यराज्येऽपि लब्धे तस्य द्विजोत्तमाः ॥
न संतोषश्च संजज्ञे ब्रह्मलोकाभि कांक्षया ॥ ५५ ॥
ततः शुक्रं समाहूय प्रोवाच मधुरं वचः ॥
विनयावनतो भूत्वा चतुर्भिः सचिवैः सह ॥ ५६ ॥
॥ वृत्र उवाच ॥ ॥
ब्रह्मलोकं गतः शक्रो भयाद्गुरुकुलोद्वह ॥
कथं गतिर्भवेत्तत्र मम ब्रूहि यथातथम् ॥ ५७ ॥
येन शक्रं विरंचिं च सूदयिष्ये तथाखिलम् ॥
तुभ्यं दत्त्वा ब्रह्म लोकं भोक्ष्यामि त्रिदिवं स्वयम् ॥ ५८ ॥
॥ शुक्र उवाच ॥ ॥
न गतिर्विद्यते तत्र तव दानवसत्तम ॥
तस्मात्त्रैलोक्यराज्येन संतोषं कर्तुम र्हसि ॥ ५९ ॥
॥ वृत्र उवाच ॥ ॥
यावत्तिष्ठति सुत्रामा तावन्नास्ति सुखं मम ॥
तस्मान्निष्कंटकार्थाय यतिष्येऽहं द्विजोत्तम ॥ ६.८.६० ॥
कथं शक्रस्य संजाता गतिस्तत्र भृगूद्वह ॥
न भविष्यति मे ब्रूहि कथं साऽद्य महामते ॥ ६१ ॥
॥ शुक्र उवाच ॥ ॥
तेन पूर्वं तपस्तप्तं नैमिषे दानवोत्तम ॥
यावद्वर्षसहस्रांतं ध्यायमानेन शंकरम्॥ ६२ ॥
तत्प्रभावाद्गतिस्तस्य तत्र जाता सदैव हि ॥
सभृत्यपरिवारस्य नान्यदस्तीह कारणम्॥ ६३ ॥
योऽन्योऽपि नैमिषारण्ये तद्रूपं कुरुते तपः ॥
ब्रह्मलोके गतिस्तस्य जायते नात्र संशयः ॥ ६४ ॥
॥ सूत उवाच ॥ ॥
तच्छ्रुत्वा सत्वरं गत्वा नैमिषं तीर्थमुत्तमम् ॥
तपश्चक्रे ततस्तीव्रं ध्यायमानो महेश्वरम् ॥ ६५ ॥
त्रैलोक्यरक्षणार्थाय संनिरूप्य दनूत्त मान्॥
महाबलसमोपेताञ्छक्राधिकपराक्रमान् ॥ ६६ ॥
वर्षास्वाकाशस्थायी स हेमन्ते सलिलाश्रयः ॥
पंचाग्निसाधको ग्रीष्मे स वभूवा निलाशनः ॥ ६७ ॥
एवं तस्य व्रतस्थस्य जग्मुर्वर्षशतानि च ॥
तत्र भीतास्ततो देवा ब्रह्मविष्णुपुरःसराः ॥ ६८ ॥
चक्रुश्च सततं मंत्रं तद्विनाशाय केवलम् ॥
वीक्षयंति च च्छिद्राणि न च पश्यंति दुःखिताः ॥ ६९ ॥
अथाब्रवीत्स्वयं विष्णुश्चिरं निश्चित्य चेतसा ॥
वधोपायं समालोक्य वृत्रस्य प्रमुदान्वितः । ६.८.७० ॥
॥ विष्णुरुवाच ॥ ॥
तस्य शक्र वधोपायो मया ज्ञातोऽधुना ध्रुवम् ॥
तच्छ्रुत्वा कुरु शीघ्रं त्वमुपायो नास्ति कश्चन ॥ ७१ ॥
अवध्यः सर्वशस्त्राणां स कृतः शूलपाणिना ॥
तस्मादस्थिमयं वज्रं तद्वधार्थं निरूपय ॥ ७२ ॥
॥ इन्द्र उवाच ॥ ॥
अस्थिभिः कस्य जीवस्य वज्रं देव भविष्यति ॥
गजस्य शरभस्याथ किं वान्यस्य वदस्व मे ॥ ७३ ॥
॥ विष्णुरुवाच ॥ ॥
शतहस्तप्रमाणं तत्षडस्रि च सुराधिप ॥
मध्ये क्षामं तु पार्श्वाभ्यां स्थूलं रौद्रसमाकृति ॥ ७४ ॥
॥ इंद्र उवाच ॥ ॥
न तादृग्दृश्यते सत्त्वं त्रैलोक्येपि सुरेश्वर ॥
यस्यास्थिभिर्विधीयेत वजमेवंविधाकृति ॥ ७५ ॥
॥ विष्णुरुवाच ॥ ॥
दधीचिर्नाम विप्रोऽस्ति तपः परममा स्थितः ॥
द्विगुणं च तथा दीर्घः सरस्वत्यां कृताश्रमः ॥ ७६ ॥
तं गत्वा प्रार्थयाशु त्वं स्वान्यस्थीनि प्रदास्यति ॥
नादेयं विद्यते किंचित्तस्य संप्रार्थितस्य हि ॥ ७७ ।
ततः शक्रः सुरैः सार्धं गत्वा तस्य तदाश्रमम् ॥
प्राचीसरस्वतीतीरे पुष्करे द्विजसत्तमाः ॥ ७९ ।
अथ देवान्समा लोक्य संप्राप्तान्निजमंदिरे ॥
दधीचिः संप्रहृष्टात्मा सत्वरः संमुखं ययौ ॥ ७९ ॥
स प्रणम्य सहस्राक्षं तथान्यानपि सन्मुनिः ॥
अर्घ्यादिभिस्ततः पूजां चक्रे तेषां ततः परम् ॥ ६.८.८० ॥
ततः प्रोवाच हृष्टात्मा विनयावनतः स्थितः ॥
स्वयमेव सहस्राक्षं प्रणिपत्य मुहुर्मुहुः ॥ ८१ ॥ ॥
॥ दधीचिरुवाच ॥ ॥
किमर्थमागता देवाः कृत्यं चाशु निवेद्यताम् ॥
धन्योऽहमागतो यस्य गृहे त्वं बलसूदन ॥ ८२ ॥
॥ शक्र उवाच ॥ ॥
वृत्रेण निर्जिताः सर्वे वयं ब्राह्मणसत्तम ॥
स वध्यो नहि शस्त्राणां सर्वेषां वरपुष्टितः । ८३ ॥
सोऽस्थिसंभववज्रस्य वध्यः स्यादब्रवीद्धरिः॥
शतहस्तप्रमाणस्य न च जीवोस्ति तादृशः ॥ ८४ ॥
त्वां मुक्त्वा ब्राह्मणश्रेष्ठ तस्मादस्थीनि यच्छ नः ॥
स्वकीयानि भवेद्येन वज्रं तस्य विनाशकम् ॥ ८५ ॥
कुरु कृत्यं द्विजश्रेष्ठ देवानामार्तिनाशनम् ॥
अन्यथा विबुधाः सर्वे नाशं यास्यंति कृत्स्नशः ॥ ८६ ॥
॥ सूत उवाच ॥
तच्छ्रुत्वा संप्रहृष्टात्मा दधीचिर्भगवान्मुनिः ॥
अत्यजज्जीवितं तेषां हितार्थाय दिवौकसाम् ॥ ८७ ॥
ततो देवाः प्रहृष्टास्ते गृहीत्वास्थीनि कृत्स्नशः ॥
ततश्चक्रुर्महावज्रं यादृशं विष्णुनोदितम् ॥ ८८ ॥
अथ शक्रस्तदादाय नैमिषाभिमुखो ययौ ॥
भयेन महता युक्तो वेपमानो निशागमे ॥ ८९ ॥
तत्र ध्यानस्थितं वृत्रं दूरस्थस्त्रिदशाधिपः ॥
वज्रेण ताडयामास पलायनपरायणः ॥ ६.८.९० ॥
सोऽपि वजप्रहारेण भस्मसात्सम पद्यत ॥
वृत्रो दानवशार्दूलो वह्निं प्राप्य पतंगवत् ॥ ९१ ॥
शक्रोऽपि भयसंत्रस्तो गत्वा सागरमध्यगम् ॥
पर्वतं सुदुरारोहं तुंगशृंगं समाश्रितः ॥ ॥ ९२ ॥
न जानाति हतं वृत्रं वज्रघातेन तेन तम् ॥
केवलं वीक्षते मार्गं वृत्रागमनसंभवम् ॥ ९३ ॥
एतस्मिन्नंतरे देवाः संप्रहृष्टतनूरुहाः ।
सूत्रं विनिहतं दृष्ट्वा तुष्टुवुस्त्रिदशाधिपम् ॥ ९४ ॥
न जानंति भयान्नष्टं तस्मिन्सागरपर्वते ।
अन्विष्य चिरकालेन कृच्छ्रात्संप्राप्य तं ततः॥ ९५ ॥
वीक्षांचक्रुः समासीनं विषमे गिरिगह्वरे ॥
तेजोहीनं तथा दीनं ब्रह्महत्यापरिप्लुतम् ॥ ९६ ॥
गात्रदुर्गंधितासंगैः पूरयन्तं दिशो दश ॥ ९७ ॥
अथोवाच चतुर्वक्त्रो दृष्ट्वा शक्रं तथाविधम् ॥
समस्तान्देवसंघातान्दूरस्थः पापशंकया ॥ ९८ ॥
शक्रोऽयं विबुधश्रेष्ठा ब्रह्महत्यापरिप्लुतः ।
तस्मातत्त्याज्यः सुदूरेण नो चेत्पापमवाप्स्यथ ॥ ९९ ॥
पश्यध्वं सर्वलिंगानि ब्रह्महत्यान्वितानि च ॥
अस्य गात्रेषु दृश्यंते तस्माद्गच्छामहे दिवि ॥ ६.८.१०० ॥
पितामहमुखान्दृष्ट्वा देवान्प्राप्तान्सुराधिपः ॥
पराङ्मुखानकस्माच्च संजातान्विस्मयान्वितः ॥॥॥।
ततः प्रोवाच संभ्रांतः किमिदं गम्यते सुराः ॥
दृष्ट्वापि मामनाभाष्य कच्चित्क्षेमं गृहे मम ॥ १०२ ॥
कच्चित्स निहतस्तेन मम वज्रेण दानवः ॥
कच्चिन्न मां स युद्धार्थमन्वेष यति दुर्मतिः ॥ १०३ ॥
॥ ब्रह्मोवाच ॥ ॥
निहतः स त्वया शक्र तेन वज्रेण दानवः ॥
गतो मृत्युवशं पापो न भयं कर्तुमर्हसि ॥ १०४ ॥
परं तस्य वधाज्जाता ब्रह्महत्या सुगर्हिता ॥
तव शक्र न तेनाद्य स्पृशामोऽस्पृश्यतां गतम् ॥ १०५ ॥
॥ इन्द्र उवाच ॥ ॥
मया विनिहताः पूर्वं बहवः किल दानवाः ॥
ब्रह्महत्या न संजाता मम हत्याधुना कथम् ॥ १०६ ॥
॥ ब्रह्मोवाच ॥ ॥
ते त्वया निहता युद्धे क्षात्रधर्मेण वासव ॥
विशुद्धा दानवाः सर्वे तेन जातं न पातकम् ॥ १०७ ॥
एष यज्ञोपवीताढ्यो विशेषात्तपसि स्थितः।
छलेन निहतः शक्र तेन त्वं पापसंयुतः ॥ १०८ ॥ ॥
॥ इन्द्र उवाच ॥ ॥
जानाम्यहं चतुर्वक्त्र स्वं कायं पापसंयुतम् ॥
चिह्नैर्ब्रह्मवधोद्भूतैस्तस्माच्छुद्धिं वदस्व मे ॥ १०९ ॥
यया याति द्रुतं पापं ब्रह्महत्यासमुद्भवम् ॥
स्पृश्यो भवामि सर्वेषां देवानां प्रपितामह ॥ ६.८.११० ।
॥ ब्रह्मोवाच ॥ ॥
तीर्थयात्रां सुरश्रेष्ठ तदर्थं कर्तुमर्हसि ।
तया विना न ते पापं नाशमायाति कृत्स्नशः ॥ १११ ॥
॥ सूत उवाच ॥ ॥
ततस्तद्वचनाच्छक्रस्तीर्थयात्रापरायणः ॥
बभ्राम सकलां पृथ्वीं स्नानं कुर्वन्पृथक्पृथक् ॥ ११२ ॥
तीर्थेषु सुप्रसिद्धेषु नदीनदयुतेषु च ॥
वाराणस्यां प्रयागे च प्रभासे कुरुजांगले ॥ ११३ ॥
तथान्येषु सहस्राक्षो विपाप्मा न व्यजायत ॥
ततो वैराग्यमापन्नश्चिन्तयामास चेतसि ॥।१४॥
अहं स्नातः समस्तेषु तीर्थेषु धरणीतले॥
न च पापेन निर्मुक्तः किं करोमि च सांप्रतम् ॥ ११५ ॥
किं पतामि गिरेः शृंगाद्विषं वा भक्षयामि किम् ॥
त्रैलोक्यराज्यविभ्रष्टो नाहं जीवितुमुत्सहे ॥ ११६ ॥
एवं वैराग्यमापन्नो गिरिमारुह्य वासवः ॥
यावत्क्षिपति चात्मानं मरणे कृतनिश्चयः । ११७ ॥
तावद्देवोत्थिता वाणी गगनाद्द्विजसत्तमाः ॥
मा शक्र साहसं कार्षीर्वैराग्यं प्राप्य चेतसि ॥ ११८ ॥
त्वया राज्यं प्रकर्तव्यं स्वर्गेऽद्यापि युगाष्टकम् ॥
तस्मात्पापविशुद्ध्यर्थं शृणु शक्र समा हितः ॥ ११९ ॥
कुरुष्व वचनं शीघ्रं भावनीयं न चान्यथा ॥
यत्त्वया पांसुभिः पूर्वं विवरं परिपूरितः ॥ ६.८.१२० ॥
हाटकेश्वरजे क्षेत्रे यत्र देवः स्वयं हरः ॥
तत्र नागबिलो जातो वल्मीकात्त्रिदशाधिप ॥ १२१ ॥
येन नागा धरापृष्ठे निर्गच्छंति व्रजंति च ॥
तेन मार्गेण गत्वा त्वं पाताले हाटकेश्वरम् ॥
स्नात्वा पातालगंगायां पूजयस्व महेश्वरम् ॥ १२२ ॥
ततः पापविनिर्मुक्तो भविष्यसि न संशयः ॥
संप्राप्स्यसि च भूयोऽपि देवराज्यमकण्टकम् ॥ १२३ ॥
॥ सूत उवाच ॥ ॥
अथ शक्रः समाकर्ण्य तां गिरं गगनोत्थिताम् ॥
जगाम सत्वरं तत्र यत्र नागबिलः स च ॥ १२४ ॥
ततः प्रविश्य पातालं गंगातोयपरिप्लुतः ॥
पूजयामास तल्लिंगं हाटकेश्वरसंज्ञितम् ॥ १२५ ॥
अथ तस्य क्षणाज्जातं शरीरं मलवर्जितम् ॥
दुर्गन्धश्च गतो नाशं तेजोवृद्धिर्बभूव ह ॥ १२६ ॥
एतस्मिन्नंतरे प्राप्ता ब्रह्मविष्णुमुखाः सुराः ॥
प्रोचुश्च देवराजं तं मुक्तपापं प्रहर्षिताः ॥ १२७ ॥
प्राप्तस्तु मेध्यतां शक्र विमुक्तो ब्रह्महत्यया ॥
तस्मादागच्छ गच्छामः सहितास्त्रिदशालयम् ॥ १२८ ॥
एतन्नाग बिलं शक्र पुनः पूरय पांसुभिः ॥
नो चेदागत्य चानेन मानुषाः सिद्धिहेतवः ॥ १२९ ॥
एतल्लिंगं समभ्यर्च्य स्नात्वा भागीरथीजले ॥
अपि पापसमायुक्ता यास्यंति परमां गतिम् ॥ ६.८.१३० ॥
ततस्ते त्रिदशाः सर्वे स च देवं शतक्रतुः ॥
प्रणिपत्य पुनः प्रोच्चैः प्रजग्मुस्त्रिदशालयम् ॥।३॥।
ततो जज्ञे महांस्तत्र स्वर्गे वृत्रवधोत्सवः ॥
देवेन्द्रत्वमनुप्राप्ते पुनः शक्रे द्विजोत्तमाः ॥ १३२ ॥
॥ सूत उवाच ॥ ॥
एतद्वः सर्वमाख्यातं हाटकेश्वरसंभवम् ॥
माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥ १३३ ॥
यश्चैतत्कीर्तयेद्भक्त्या शृणोति च समाहितः ॥
स याति परमं स्थानं जरा मरणवर्जितम्॥ १३४ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये वृत्रवधवर्णनंनामाष्टमो ऽध्यायः ॥ ८ ॥ छ ॥