स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२७
मार्कण्डेय उवाच -
एतानि तव संक्षेपात्प्राधान्यात्कथितानि च ।
न शक्तो विस्तराद्वक्तुं संख्यां तीर्थेषु पाण्डव ॥ २२७.१ ॥
एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।
नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ २२७.२ ॥
मनसा संस्मरेद्यस्तु नर्मदां सततं नृप ।
चान्द्रायणशतस्याशु लभते फलमुत्तमम् ॥ २२७.३ ॥
अश्रद्दधानाः पुरुषा नास्तिकाश्चात्र ये स्थिताः ।
पतन्ति नरके घोरे प्राहैवं परमेश्वरः ॥ २२७.४ ॥
नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।
तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ २२७.५ ॥
इयं माहेश्वरी गङ्गा महेश्वरतनूद्भवा ।
प्रोक्ता दक्षिणगङ्गेति भारतस्य युधिष्ठिर ॥ २२७.६ ॥
जाह्नवी वैष्णवी गङ्गा ब्राह्मी गङ्गा सरस्वती ।
इयं माहेश्वरी गङ्गा रेवा नास्त्यत्र संशयः ॥ २२७.७ ॥
यथा हि पुरुषे देवस्त्रैमूर्तत्वमुपाश्रितः ।
ब्रह्मविष्णुमहेशाख्यं न भेदस्तत्र वै यथा ।
तथा सरित्त्रये पार्थ भेदं मनसि मा कृथाः ॥ २२७.८ ॥
कोटिशो ह्यत्र तीर्थानि लक्षशश्चापि भारत ।
तथा सहस्रशो रेवातीरद्वयगतानि तु ॥ २२७.९ ॥
वृक्षान्तरिक्षसंस्थानि जलस्थलगतानि च ।
कः शक्तस्तानि निर्णेतुं वागीशो वा महेश्वरः ॥ २२७.१० ॥
स्मरणाज्जन्मजनितं दर्शनाच्च त्रिजन्मजम् ।
सप्तजन्मकृतं नश्येत्पापं रेवावगाहनात् ॥ २२७.११ ॥
देवकार्यं कृतं तेन अग्नयो विधिवद्धुताः ।
वेदा अधीताश्चत्वारो येन रेवावगाहिता ॥ २२७.१२ ॥
प्राधान्याच्चापि संक्षेपात्तीर्थान्युक्तानि ते मया ।
न शक्यो विस्तरः पार्थ श्रोतुं वक्तुं च वै मया ॥ २२७.१३ ॥
युधिष्ठिर उवाच -
विधानं च यमांश्चैव नियमांश्च वदस्व मे ।
प्रायश्चित्तार्थगमने को विधिस्तं वदस्व मे ॥ २२७.१४ ॥
श्रीमार्कण्डेय उवाच -
साधु पृष्टं महाराज यच्छ्रेयः पारलौकिकम् ।
शृणुष्वावहितो भूत्वा यथाज्ञानं वदामि ते ॥ २२७.१५ ॥
अध्रुवेण शरीरेण ध्रुवं कर्म समाचरेत् ।
अवश्यमेव यास्यन्ति प्राणाः प्राघूर्णिका इव ॥ २२७.१६ ॥
दानं वित्तादृतं वाचः कीर्तिधर्मौ तथा ख्युषः ।
परोपकरणं कायादसारात्सारमुद्धरेत् ॥ २२७.१७ ॥
अस्मिन्महामोहमये कटाहे सूर्याग्निना रात्रिदिवेन्धनेन ।
मासर्तुदर्वीपरिघट्टनेन भूतानि कालः पचतीति वार्ता ॥ २२७.१८ ॥
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥ २२७.१९ ॥
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ॥ २२७.२० ॥
अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् ।
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ॥ २२७.२१ ॥
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २२७.२२ ॥
सन्तीह विविधोपाया नृणां देहविशोधनाः ।
तीर्थसेवासमं नास्ति स्वशरीरस्य शोधनम् ॥ २२७.२३ ॥
कृच्छ्रचान्द्रायणाद्यैर्वा द्वितीयं तीर्थसेवया ।
यदा तीर्थं समुद्दिश्य प्रयाति पुरुषो नृप ।
तदा देवाश्च पितरस्तं व्रजन्त्यनु खेचराः ॥ २२७.२४ ॥
परमा मोदपूर्णास्ते प्रयान्त्यस्यानुयायिनः ।
कृत्वाभ्युदयिकं श्राद्धं समापृच्छय तु देवताम् ॥ २२७.२५ ॥
इष्टबन्धूंश्च विष्णुं च शङ्करं सगणेश्वरम् ।
व्रजेद्द्विजाभ्यनुज्ञातो गृहीत्वा नियमानपि ॥ २२७.२६ ॥
एकाशनं ब्रह्मचर्यं भूशय्यां सत्यवादिताम् ।
वर्जनं च परान्नस्य प्रतिग्रहविवर्जनम् ॥ २२७.२७ ॥
वर्जयित्वा तथा द्रोहवञ्चनादि नृपोत्तम ।
साधुवेषं समास्थाय विनयेन विभूषितः ॥ २२७.२८ ॥
दम्भाहङ्कारमुक्तो यः स तीर्थफलमश्नुते ।
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥ २२७.२९ ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ।
अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ॥ २२७.३० ॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ।
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥ २२७.३१ ॥
वर्जयित्वा कुरुक्षेत्रं विशालां विरजां गयाम् ।
स्नानं सुरार्चनं चैव श्राद्धे वै पिण्डपातनम् ॥ २२७.३२ ॥
विप्राणां भोजनं शक्त्या सर्वतीर्थेष्वयं विधिः ।
प्रायश्चित्तनिमित्तं च यो व्रजेद्यतमानसः ॥ २२७.३३ ॥
तस्यापि च विधिं वक्ष्ये शृणु पार्थ समाहितः ।
एकाशनं ब्रह्मचर्यमक्षारलवणाशनम् ॥ २२७.३४ ॥
स्नात्वा तीर्थाभिगमनं हविष्यैकान्नभोजनम् ।
वर्जयेत्पतितालापं बहुभाषणमेव च ॥ २२७.३५ ॥
परीवादं परान्नं च नीचसङ्गं विवर्जयेत् ।
व्रजेच्च निरुपानत्को वसानो वाससी शुचिः ॥ २२७.३६ ॥
संकल्पं मनसा कृत्वा ब्राह्मणानुज्ञया व्रजेत् ।
तीर्थे गत्वा तथा स्नात्वा कृत्वा चैव सुरार्चनम् ॥ २२७.३७ ॥
दुष्कर्मतो विमुक्तः स्यादनुतापी भवेद्यदि ।
वेदे तीर्थे च देवे च दैवज्ञे चौषधे गुरौ ॥ २२७.३८ ॥
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।
उक्ततीर्थफलानां च पुराणेषु स्मृतिष्वपि ॥ २२७.३९ ॥
अर्थवादभवां शङ्कां विहाय भरतर्षभ ।
कृत्वा विचारं शास्त्रोक्तं परिकल्प्य यथोचितम् ॥ २२७.४० ॥
कायेन कृच्छ्रचरणे ह्यशक्तानां विशुद्धये ।
ज्ञात्वा तीर्थाविशेषं हि प्रायश्चित्तं समाचरेत् ॥ २२७.४१ ॥
तच्छृणुष्व महाराज नर्मदायां यथोचितम् ।
चतुर्विंशतिसंख्येभ्यो योजनेभ्यो व्रजेन्नरः ॥ २२७.४२ ॥
चतुर्विंशतिकृच्छ्राणां फलमाप्नोति शोभनम् ।
अत ऊर्ध्वं योजनेषु पादकृच्छ्रमुदाहृतः ॥ २२७.४३ ॥
तन्मध्ये च महाराज यो व्रजेच्छुद्धिकाङ्क्षया ।
योजने योजने तस्य प्रायश्चित्तं विदुर्बुधाः ॥ २२७.४४ ॥
प्रणवाख्ये महाराज तथा रेवोरिसंगमे ।
भृगुक्षेत्रे तथा गत्वा फलं तद्द्विगुणं स्मृतम् ॥ २२७.४५ ॥
सङ्गमे देवनद्याश्च शूलभेदे नृपोत्तम ।
द्विगुणं पादहीनं स्यात्करजासंगमे तथा ॥ २२७.४६ ॥
एरण्डीसङ्गमे तद्वत्कपिलायाश्च संगमे ।
केचित्त्रिगुणितं प्राहुः कुब्जारेवोत्थसङ्गमे ॥ २२७.४७ ॥
ओंकारे च महाराज तदपि स्यात्समञ्जसम् ।
सङ्गमेषु तथान्यासां नदीनां रेवया सह ॥ २२७.४८ ॥
प्राहुस्ते सार्धकृच्छ्रं वै फलं पूर्वं युधिष्ठिर ।
त्रिगुणं कृच्छ्रमाप्नोति रेवासागरसङ्गमे ॥ २२७.४९ ॥
कृच्छ्रं चतुर्गुणं प्रोक्तं शुक्लतीर्थे युधिष्ठिर ।
योजने योजने गत्वा चतुर्विंशतियोजनम् ।
तत्र तत्र वसेद्यस्तु सुचिरं नृवरोत्तम ॥ २२७.५० ॥
रेवासेवासमाचारः संयुक्तः शुद्धबुद्धिमान् ।
दम्भाहङ्काररहितः शुद्ध्यर्थं स विमुच्यते ॥ २२७.५१ ॥
इति ते कथितं पार्थ प्रायश्चित्तार्थलक्षणम् ।
रेवायात्राविधानं च गुह्यमेतद्युधिष्ठिर ॥ २२७.५२ ॥
युधिष्ठिर उवाच -
योजनस्य प्रमाणं मे वद त्वं मुनिसत्तम ।
यज्ज्ञात्वा निश्चितं मे स्यान्मनःशुद्धेस्तु कारणम् ॥ २२७.५३ ॥
मार्कण्डेय उवाच -
शृणु पाण्डव वक्ष्यामि प्रमाणं योजनस्य यत् ।
तथा यात्राविशेषेण विशेषं कृच्छ्रसम्भवम् ॥ २२७.५४ ॥
तिर्यग्यवोदराण्यष्टावूर्ध्वा वा व्रीहयस्त्रयः ।
प्रमाणमङ्गुलस्याहुर्वितस्तिर्द्वादशांगुला ॥ २२७.५५ ॥
वितस्तिद्वितयं हस्तश्चतुर्हस्तं धनुः स्मृतम् ।
स एव दण्डो गदितो विशेषज्ञैर्युधिष्ठिर ॥ २२७.५६ ॥
धनुःसहस्रे द्वे क्रोशश्चतुःक्रोशं च योजनम् ।
एतद्योजनमानं ते कथितं भरतर्षभ ॥ २२७.५७ ॥
येन यात्रां व्रजन् वेत्ति फलमानं निजार्जितम् ।
उक्तं कृच्छ्रफलं तीर्थे जलरूपे नृपोत्तम ॥ २२७.५८ ॥
यथाविशेषं ते वच्मि पूर्वोक्ते तत्र तत्र च ।
तन्मे शृणु महीपाल श्रद्दधानाय कथ्यते ॥ २२७.५९ ॥
यस्मिंस्तीर्थे हि यत्प्रोक्तं फलं कृच्छ्रादिकं नृप ।
तत्राप्युपोषणात्कृच्छ्रफलं प्राप्नोत्यथाधिकम् ॥ २२७.६० ॥
दिनजाप्याच्च लभते फलं कृच्छ्रस्य शक्तितः ।
तत्र विख्यातदेवेशं स्नात्वा दृष्ट्वाभिपूज्य च ॥ २२७.६१ ॥
प्रणम्य लभते पार्थ फलं कृच्छ्रभवं सुधीः ।
तीर्थे मुख्यफलं स्नानाद्द्वितीयं चाप्युपोषणात् ॥ २२७.६२ ॥
तृतीयं ख्यातदेवस्य दर्शनाभ्यर्चनादिभिः ।
चतुर्थं जाप्ययोगेन देहशक्त्या त्वहर्निशम् ॥ २२७.६३ ॥
पञ्चमं सर्वतीर्थेषु कल्पनीयं हि दूरतः ।
तीरस्थो योजनादर्वाग्दशांशं लभते फलम् ॥ २२७.६४ ॥
उक्ततीर्थफलात्पार्थ नात्र कार्या विचारणा ॥ २२७.६५ ॥
उपवासेन सहितं महानद्यां हि मज्जनम् ।
अप्यर्वाग्योजनात्पार्थ दद्यात्कृच्छ्रफलं नृणाम् ॥ २२७.६६ ॥
षड्योजनवहा कुल्य नद्योऽल्पा द्वादशैव च ।
चतुर्विंशतिगा नद्यो महानद्यस्ततोऽधिकाः ॥ २२७.६७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तीर्थयात्रादिविधानविशेषकथनं नाम सप्तविंशत्यधिकद्विशततमोऽध्यायः ॥