स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२६

विकिस्रोतः तः

मार्कण्डेय उवाच -
ततः क्रोशान्तरे पुण्यं तीर्थं तद्विमलेश्वरम् ।
यत्र स्नानेन दानेन जपहोमार्चनादिभिः ॥ २२६.१ ॥
विमलेश्वरमाराध्य यो यदिच्छेत्स तल्लभेत् ।
स्वर्गलाभादिकं वापि पार्थिवं वा यथेप्सितम् ॥ २२६.२ ॥
पुरा त्रिशिरसं हत्वा त्वष्टुः पुत्रं शतक्रतुः ।
यस्य तीर्थस्य माहात्म्याद्वैमल्यं परमं गतः ॥ २२६.३ ॥
यत्र वेदनिधिर्विप्रो महत्तप्त्वा तपः पुरा ।
नानाकर्ममलैः क्षीणैर्विमलोऽभवदर्कवत् ॥ २२६.४ ॥
महादेवप्रसादेन सोमवत्प्रियदर्शनः ।
पुरा भानुमतीं भानुः सुतां स्मरशरार्दितः ॥ २२६.५ ॥
चकमे तेन दोषेण कुष्ठरोगार्दितोऽभवत् ।
स चाप्यत्र तपस्तप्त्वा विमलत्वमुपागतः ॥ २२६.६ ॥
महादेवेन तुष्टेन स्वस्थानं मुदितोऽभजत् ।
तथैव च पुरा पार्थ विभाण्डकसुतो मुनिः ॥ २२६.७ ॥
योगिसङ्गं वने प्राप्य पुरे च नृपतेस्तथा ।
राजसंसर्गदोषाद्वै मालिन्यं परमात्मनः ॥ २२६.८ ॥
विचारयन्नभ्युपेत्य रेवासागरसङ्गमम् ।
शान्तया भार्यया सार्द्धं तप्त्वा द्वादशवत्सरान् ॥ २२६.९ ॥
कृच्छ्रचान्द्रायणैर्देवं तोषयंस्त्र्यम्बकं मुनिः ।
महादेवेन तुष्टेन सोऽपि वैमल्यमाप्तवान् ॥ २२६.१० ॥
शर्वाण्या प्रेरितः शर्वः पुरा दारुवने नृप ।
मोहनान्मुनिपत्नीनां स्वं दीक्ष्य विमलं किल ॥ २२६.११ ॥
विचार्य परमस्थानं नर्मदोदधिसङ्गमम् ।
तत्र स्थित्वा महाराज तपस्तप्त्वा सहोमया ॥ २२६.१२ ॥
विमलोऽसौ यतो जातस्तेनासौ विमलेश्वरः ।
तेन नाम्ना स्वयं तस्थौ लोकानां हितकाम्यया ॥ २२६.१३ ॥
ततस्तिलोत्तमां सृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रजानाथोऽपि तां सृष्ट्वा दृष्ट्वाग्रे सुमनोहराम् ॥ २२६.१४ ॥
भावियोगबलाक्रान्तः स तस्यामभिकोऽभवत् ।
तेन वीक्ष्य सदोषत्वं रेवातीरद्वयं श्रितः ॥ २२६.१५ ॥
तीर्थान्यनुसरन्मौनी त्रिस्नायी संस्मरञ्छिवम् ।
रेवार्णवसमायोगे स्नात्वा सम्पूज्य शङ्करम् ।
कालेनाल्पेन राजर्षे ब्रह्माप्यमलतां गतः ॥ २२६.१६ ॥
एवमन्येऽपि बहुशो देवर्षिनृपसत्तमाः ।
त्यक्त्वा दोषमलं तत्र विमला बहवोऽभवन् ॥ २२६.१७ ॥
तथा त्वमपि राजेन्द्र तत्र स्नात्वा शिवार्चनात् ।
अमलोऽपि विशेषेण वैमल्यं प्राप्स्यसे परम् ॥ २२६.१८ ॥
तत्र स्नात्वा नरो नारी पूजयित्वा महेश्वरम् ।
पापदोषविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २२६.१९ ॥
तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।
अष्टम्यां च चतुर्दश्यां सर्वपर्वसु पार्थिव ॥ २२६.२० ॥
सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।
श्राद्धं कृत्वा विधानेन पित्ःणामनृणी भवेत् ।
ब्राह्मणान् भोजयेच्छक्त्या तेभ्यो दद्याच्च दक्षिणाम् ॥ २२६.२१ ॥
यद्यदिष्टतमं लोके यच्चैवात्महितं गृहे ।
तत्तद्गुणवते देयं तत्रैवाक्षयमिच्छता ।
स्वर्णधान्यानि वासांसि छत्रोपानत्कमण्डलुम् ॥ २२६.२२ ॥
गृहं देवस्य वै शक्त्या कृत्वा स्याद्भुवि भूपतिः ।
गीतनृत्यकथाभिश्च तोषयेत्परमेश्वरम् ॥ २२६.२३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विमलेश्वरतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॥