स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२५

विकिस्रोतः तः

श्रीमार्कण्डेय उवाच -
ततः क्रोशान्तरे गच्छेदलिकातीर्थमुत्तमम् ।
अलिका नाम गान्धर्वी कुशीला कुटिलाशया ॥ २२५.१ ॥
चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता ।
वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता ॥ २२५.२ ॥
पतिं जघान तं सुप्तं कस्मिंश्चित्कारणान्तरे ।
गत्वा निवेदयामास पितरं रत्नवल्लभम् ॥ २२५.३ ॥
पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप ।
गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम् ॥ २२५.४ ॥
ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज ॥ २२५.५ ॥

मार्कण्डेय उवाच -
इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती ।
तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित् ॥ २२५.६ ॥
संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर ।
श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे ॥ २२५.७ ॥
तत्र पार्थ तपश्चक्रे निराहारा जितव्रता ।
कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः ॥ २२५.८ ॥
चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् ।
एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप ॥ २२५.९ ॥
तस्या विशुद्धिमिच्छन्त्याः शिवध्यानार्चनादिभिः ।
ततः कतिपयाहोभिस्तस्या ज्ञात्वा हठं परम् ।
परितुष्टः शिवः प्राह पार्वत्या परिचोदितः ॥ २२५.१० ॥

ईश्वर उवाच -
पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् ।
तुष्टोऽहं तपसा तेऽद्य वरं वरय वाञ्छितम् ॥ २२५.११ ॥

अलिकोवाच -
यदि तुष्टोऽसि देवेश वरार्हा यद्यहं मता ।
नानापापाग्नितप्ताया देहि शुद्धिं परां मम ॥ २२५.१२ ॥
त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः ।
दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम् ॥ २२५.१३ ॥

ईश्वर उवाच -
त्वं भद्रे शुद्धदेहासि मा किंचिदनुशोचिथाः ।
स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि ॥ २२५.१४ ॥
इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।
अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम् ॥ २२५.१५ ॥
दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् ।
पितरं च समासाद्य मातरं च युधिष्ठिर ॥ २२५.१६ ॥
तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः ।
विमानवरमारूढा दिव्यमालान्विता नृप ॥ २२५.१७ ॥
गौरीलोकमनुप्राप्तसखित्वेऽद्यापि मोदते ।
ततः प्रभृति तत्पार्थ विख्यातमलिकेश्वरम् ॥ २२५.१८ ॥
तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर ।
स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम् ॥ २२५.१९ ॥
स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् ।
मानसं वाचिकं पापं कायिकं यत्पुरा कृतम् ॥ २२५.२० ॥
सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा ।
दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते ॥ २२५.२१ ॥
धूपपात्रं विमानं च घण्टां कलशमेव च ।
दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात् ॥ २२५.२२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥