स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२३

विकिस्रोतः तः

मार्कण्डेय उवाच -
ततः क्रोशान्तरे पार्थ वासवं तीर्थमुत्तमम् ।
वसुभिः स्थापितं तत्र स्थित्वा वै द्वादशाब्दकम् ॥ २२३.१ ॥
धरो ध्रुवश्च सोमश्च आपश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवोऽष्टाविमे पुरा ॥ २२३.२ ॥
पितृशापपरिक्लिष्टा गर्भवासाय भारत ।
नार्मदं तीर्थमासाद्य तपश्चक्रुर्यतेन्द्रियाः ॥ २२३.३ ॥
आराधयन्तः परमं भवानीपतिमव्यम् ।
द्वादशाब्दानि राजेन्द्र ततस्तुष्टो महेश्वरः ॥ २२३.४ ॥
प्रत्यक्षः प्रददौ तेभ्यस्त्वभीष्टं वरमुत्तमम् ।
ततः स्वनाम्ना संस्थाप्य वसवस्तं महेश्वरम् ।
जग्मुराकाशमाविश्य प्रसन्ने सति शङ्करे ॥ २२३.५ ॥
ततः प्रभृति विख्यातं तीर्थं तद्वासवाह्वयम् ।
तस्मिंस्तीर्थे महाराज यो भक्त्या पूजयेच्छिवम् ।
यथालब्धोपहारैश्च दीपं दद्यात्प्रयत्नतः ॥ २२३.६ ॥
शुक्लपक्षे तदाष्टम्यां प्रत्यहं वापि शक्तितः ।
अष्टौ वर्षसहस्राणि स वसेच्छिवसंनिधौ ॥ २२३.७ ॥
ततः शिवालयं याति गर्भवासं न पश्यति ।
पुष्पैर्वा पल्लवैर्वापि फलैर्धान्यैस्तथापि वा ॥ २२३.८ ॥
पूजयेद्देवमीशानं स दैन्यं नाप्नुयात्क्वचित् ।
सर्वशोकविनिर्मुक्तः स्वर्गलोके महीयते ॥ २२३.९ ॥
एकाहमपि कौन्तेय यो वसेद्वासवेश्वरे ।
पापराशिं विनिर्धूय भानुवद्दिवि मोदते ॥ २२३.१० ॥
विप्रांश्च भोजयेद्भक्त्या दद्याद्वासांसि दक्षिणाम् ॥ २२३.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे वासवेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॥