स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २२२
श्रीमार्कण्डेय उवाच -
ततः क्रोशान्तरे गच्छेत्तिलादं तीर्थमुत्तमम् ।
तिलप्राशनकृद्यत्र जाबालिः शुद्धिमाप्तवान् ॥ २२२.१ ॥
पितृमातृपरित्यागी भ्रातुर्भार्याभिलाषकृत् ।
पुत्रविक्रयकृत्पापश्छलकृद्गुरुणा सह ॥ २२२.२ ॥
एवं दोषसमाविष्टो यत्र यत्रापि गच्छति ।
तत्र तत्रापि धिक्कारं लभते सत्सु भारत ।
न कोऽपि संगतिं धत्ते तेन सार्द्धं सभास्वपि ॥ २२२.३ ॥
इति लज्जान्वितो विप्रः काले न महता नृप ।
चिन्तामवाप महतीमगतिज्ञो हि पावने ॥ २२२.४ ॥
चकार सर्वतीर्थानि रेवां चाप्यवगाहयत् ॥ २२२.५ ॥
अणिवापान्तमासाद्य दक्षिणे नर्मदातटे ।
तस्थौ यत्र व्रती पार्थ जाबालिः प्राशयंस्तिलान् ॥ २२२.६ ॥
तिलैरेकाशनं कुर्वंस्तथैवैकान्तराशनम् ।
त्र्यहषड्द्वादशाहाशी पक्षमासाशनस्तथा ॥ २२२.७ ॥
कृच्छ्रचान्द्रायणादीनि व्रतानि च तिलैरपि ।
तिलादत्वमनुप्राप्तो ह्यब्दद्वासप्ततिं क्रमात् ॥ २२२.८ ॥
कालेन गच्छता तस्य प्रसन्नोऽभवदीश्वरः ।
प्रादादिहामुत्रिकीं तु शुद्धिं सालोक्यमात्मकम् ॥ २२२.९ ॥
तेन स स्थापितो देवः स्वनाम्ना भरतर्षभ ।
तिलादेश्वरसंज्ञां च प्राप लोकादपि प्रभुः ॥ २२२.१० ॥
तदा प्रभृति विख्यातं तीर्थं पापप्रणाशनम् ।
तत्र तीर्थे नरः स्नात्वा चतुर्दश्यष्टमीषु च ॥ २२२.११ ॥
उपवासपरः पार्थ तथैव हरिवासरे ।
तिलहोमी तिलोद्वर्ती तिलस्नायी तिलोदकी ॥ २२२.१२ ॥
तिलदाता च भोक्ता च नानापापैः प्रमुच्यते ।
तिलैरापूरयेल्लिङ्गं तिलतैलेन दीपदः ।
रुद्रलोकमवाप्नोति पुनात्या सप्तमं कुलम् ॥ २२२.१३ ॥
तिलपिण्डप्रदानेन श्राद्धे नृपतिसत्तम ।
विकर्मस्थाश्च गच्छन्ति गतिमिष्टां हि पूर्वजाः ॥ २२२.१४ ॥
स्वर्गलोकस्थिताः श्राद्धैर्ब्राह्मणानां च भोजनैः ।
अक्षयां तृप्तिमासाद्य मोदन्ते शाश्वतीः समाः ॥ २२२.१५ ॥
पितुः कुलं मातृकुलं तथा भार्याकुलं नृप ।
कुलत्रयं समुद्धृत्य स्वर्गं नयति वै नरः ॥ २२२.१६ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे तिलादेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वाविंशदधिकद्विशततमोऽध्यायः ॥