स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१९

विकिस्रोतः तः

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च सर्वं कोटिगुणं भवेत् ॥ २१९.१ ॥
तत्र देवाः सगन्धर्वा ऋषयो ये तथामलाः ।
कोटितीर्थे परां सिद्धिं सम्प्राप्ता भुवि दुर्लभाम् ॥ २१९.२ ॥
स्थापितश्च महादेवस्तत्र कोटीश्वरो नृप ।
तं दृष्ट्वा देवदेवेशं सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ २१९.३ ॥
तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते तन्नृपश्रेष्ठ सर्वं कोटिगुणं भवेत् ॥ २१९.४ ॥
तत्र दक्षिणमार्गस्था ये केचिन्मुनिसत्तमाः ।
सिद्धा मृताः पदं यान्ति पितृलोकं ध्रुवं हि ते ॥ २१९.५ ॥
उत्तरं नर्मदाकूलं ये श्रेष्ठा मुनिपुंगवाः ।
देवलोकं गताः पूर्वमिति शास्त्रस्य निश्चयः ॥ २१९.६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नामैकोनविंशदधिकद्विशततमोऽध्यायः ॥