स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१५

विकिस्रोतः तः

श्रीमार्कण्डेय उवाच -
शृङ्गितीर्थं ततो गच्छेन्मोक्षदं सर्वदेहिनाम् ।
मृतानां तत्र राजेन्द्र मोक्षप्राप्तिर्न संशयः ॥ २१५.१ ॥
तत्रैव पिण्डदानेन पितॄणामनृणो भवेत् ।
तेन पुण्येन पूतात्मा लभेद्गाणेश्वरीं गतिम् ॥ २१५.२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शृङ्गितीर्थमाहात्म्यवर्णनं नाम पञ्चदशोत्तरद्विशततमोऽध्यायः ॥