स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २१२

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमार्कण्डेय उवाच -
अथान्यत्सम्प्रवक्ष्यामि देवस्य चरितं महत् ।
श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते ॥ २१२.१ ॥
भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः ।
एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः ॥ २१२.२ ॥
अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः ।
स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः ॥ २१२.३ ॥
कृत्तिवासा महाकायो महाहिकृतभूषणः ।
वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम् ॥ २१२.४ ॥
कपालपाणिर्भगवान्बालकैर्बहुभिर्वृतः ।
क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित्क्वचित् ॥ २१२.५ ॥
यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् ।
भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति ॥ २१२.६ ॥
एवं सम्प्रचरन् देवो वेष्टितो बहुभिर्जनैः ।
दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः ॥ २१२.७ ॥
इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः ।
विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततोऽस्तुवन् ॥ २१२.८ ॥
तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् ।
डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत ॥ २१२.९ ॥
तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते ।
दर्शनात्स्पर्शनाद्राजन् सर्वपापैः प्रमुच्यते ॥ २१२.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥