स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०९

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं पार्थ पुष्कलीतीर्थमुत्तमम् ।
तत्र तीर्थे नरः स्नात्वा ह्यश्वमेधफलं लभेत् ॥ २०९.१ ॥
क्षमानाथं ततो गच्छेत्तीर्थं त्रैलोक्यविश्रुतम् ।
दानवगन्धर्वैरप्सरोभिश्च सेवितम् ॥ २०९.२ ॥
तत्र तिष्ठति देवेशः साक्षाद्रुद्रो महेश्वरः ।
भारेण महता जातो भारभूतिरिति स्मृतः ॥ २०९.३ ॥

युधिष्ठिर उवाच -
भारभूतीति विख्यातं तीर्थं सर्वगुणान्वितम् ।
श्रोतुमिच्छामि विप्रेन्द्र परं कौतूहलं हि मे ॥ २०९.४ ॥

श्रीमार्कण्डेय उवाच -
भारभूतिसमुत्पत्तिं शृणु पाण्डवसत्तम ।
विस्तरेण यथा प्रोक्ता पुरा देवेन शम्भुना ॥ २०९.५ ॥
आसीत्कृतयुगे विप्रो वेदवेदाङ्गपारगः ।
विष्णुशर्मेति विख्यातः सर्वशास्त्रार्थपारगः ॥ २०९.६ ॥
क्षमा दमो दया दानं सत्यं शौचं धृतिस्तथा ।
विद्या विज्ञानमास्तिक्यं सर्वं तस्मिन्प्रतिष्ठितम् ॥ २०९.७ ॥
ईदृग्गुणा हि ये विप्रा भवन्ति नृपसत्तम ।
पतितान्नरके घोरे तारयन्ति पित्ःंस्तु ते ॥ २०९.८ ॥
इन्द्रियं लोलुपा विप्रा ये भवन्ति नृपोत्तम ।
पतन्ति नरके घोरे रौरवे पापमोहिताः ॥ २०९.९ ॥
ये क्षान्तदान्ताः श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।
प्रतिग्रहे संकुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ॥ २०९.१० ॥
एवं गुणगणाकीर्णो ब्राह्मणो नर्मदातटे ।
वसते ब्राह्मणैः सार्धं शिलोञ्छवृत्तिजीवनः ॥ २०९.११ ॥
तादृशं ब्राह्मणं ज्ञात्वा देवदेवो महेश्वरः ।
द्विजरूपधरो भूत्वा तस्याश्रममगात्स्वयम् ॥ २०९.१२ ॥
दृष्ट्वा तं ब्राह्मणैः सार्धमुच्चरन्तं पदक्रमम् ।
अभिवादयते विप्रं स्वागतेन च पूजितः ॥ २०९.१३ ॥
प्रोवाच तं मुहूर्तेन ब्राह्मणो विस्मयान्वितः ।
किमथ तद्बटो ब्रूहि किं करोमि तवेप्सितम् ॥ २०९.१४ ॥

बटुरुवाच -
विद्यार्थिनमनुप्राप्तं विद्धि मां द्विजसत्तम ।
ददासि यदि मे विद्यां ततः स्थास्यामि ते गृहे ॥ २०९.१५ ॥

ब्राह्मण उवाच -
सर्वेषामेव विप्राणां बटो त्वं गोत्र उत्तमे ।
दानानां परमं दानं कथं विद्या च दीयते ॥ २०९.१६ ॥
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या भवतीह फलप्रदा ॥ २०९.१७ ॥

बटुरुवाच -
यथान्ये बालकाः स्नाताः शुश्रूषन्ति ह्यहर्निशम् ।
तथाहं बटुभिः सार्धं शुश्रूषामि न संशयः ॥ २०९.१८ ॥
तथेति चोक्त्वा विप्रेन्द्रः पाठयंस्तं दिने दिने ।
वर्तते सह शिष्यैः स शिलोञ्छानुपहारयन् ॥ २०९.१९ ॥
ततः कतिपयाहोभिः प्रोक्तो बटुभिरीश्वरः ।
पचनाद्यं बटो कर्म कुरु क्रमत आगतम् ॥ २०९.२० ॥
तथेति चोक्तो देवेशो भारग्राममुपागतः ।
ध्यात्वा वनस्पतीः सर्वा इदं वचनमब्रवीत् ॥ २०९.२१ ॥
यावदागच्छते विप्रो बटुभिः सह मन्दिरम् ।
अदर्शनाभिः कर्तव्यं तावदन्नं सुसंस्कृतम् ॥ २०९.२२ ॥
एवमुक्त्वा तु ताः सर्वा विश्वरूपो महेश्वरः ।
क्रीडनार्थं गतस्तत्र बटुवेषधरः पृथक् ॥ २०९.२३ ॥
दृष्ट्वा समागतं तत्र बटुवेषधरं पृथक् ।
धिक्त्वां च परुषं वाक्यमूचुस्ते गिरिसन्निधौ ॥ २०९.२४ ॥
क्षुत्क्षामकंठाः सर्वे च गत्वा तु किल मन्दिरम् ।
त्वया सिद्धेन चान्नेन तृप्तिं यास्यामहे वयम् ॥ २०९.२५ ॥
तद्वृथा चिन्तितं सव त्वयागत्य कृतं द्विज ।
मिथ्याप्रतिज्ञेन सता दुरनुष्ठितमद्य ते ॥ २०९.२६ ॥

बटुरुवाच -
सन्तापमनुतापं वा भोजनार्थं द्विजर्षभाः ।
मा कुरुध्वं यथान्यायं सिद्धेऽग्रे गृहमेष्यथा ॥ २०९.२७ ॥

बटुरुवाच -
दिनशेषेण चास्माकं पञ्चतां च दिने दिने ।
निष्पत्तिं याति वा नेति तदसिद्धमशेषतः ॥ २०९.२८ ॥
असिद्धं सिद्धमस्माकं यत्त्वया समुदाहृतम् ।
दृष्ट्वानृतं गतास्तत्र त्वां बद्धाम्भसि निक्षिपे ॥ २०९.२९ ॥

बटुरुवाच -
भोभोः शृणुध्व सर्वेऽत्र सोपाध्याया द्विजोत्तमाः ।
प्रतिज्ञां मम दुर्धर्षां यां श्रुत्वा विस्मयो भवेत् ॥ २०९.३० ॥
यदि सिद्धमिदं सर्वमन्नं स्यादाश्रमे गुरोः ।
यूयं बद्ध्वा मया सर्वे क्षेप्तव्या नर्मदाम्भसि ॥ २०९.३१ ॥
अथवान्नं न सिद्धं स्याद्भवद्भिर्दृढबन्धनैः ।
गुरोस्तु पश्यतो बद्ध्वा क्षेप्तव्योऽहं नर्मदाह्रदे ॥ २०९.३२ ॥
तथेति कृत्वा ते सर्वे समयं गुरुसन्निधौ ।
स्नात्वा जाप्यविधानेन भूतग्रामं ततो ययुः ॥ २०९.३३ ॥
दृष्ट्वा ते विस्मयं जग्मुर्विस्तृते भक्ष्यभोजने ।
षड्रसेन नृपश्रेष्ठ भुक्त्वा हुत्वा पृथक्पृथक् ॥ २०९.३४ ॥
ततः प्रोवाच वचनं हृष्टपुष्टो द्विजोत्तमः ।
वरदोऽस्मि वरं वत्स वृणु यत्तव रोचते ॥ २०९.३५ ॥
साङ्गोपाङ्गास्तु ते वेदाः शास्त्राणि विविधानि च ।
प्रतिभास्यन्ति ते विप्र मदीयोऽस्तु वरस्त्वयम् ॥ २०९.३६ ॥
प्रणम्य बटुभिः सार्धं स चिक्रीड यथासुखम् ।
द्वितीये तु ततः प्राप्ते दिवसे नर्मदाजले ॥ २०९.३७ ॥
क्रीडनार्थं गताः सर्वे सोपाध्याया युधिष्ठिर ।
ततः स्मृत्वा पणं सर्वे भाषयित्वा विधानतः ॥ २०९.३८ ॥
उपाध्यायमथोवाच नत्वा देवः कृताञ्जलिः ।
जले प्रक्षेपयाम्यद्य निष्प्रतिज्ञान् बटून् प्रभो ॥ २०९.३९ ॥
तद्देवस्य वचः श्रुत्वा नष्टास्ते बटवो नृप ।
गुरोस्तु पश्यतो राजन्धावमाना दिशो दश ॥ २०९.४० ॥
वायुवेगेन देवेन लुञ्जितास्ते समन्ततः ।
भारं बद्ध्वा तु सर्वेषां बटूनां च नरेश्वर ॥ २०९.४१ ॥
शापानुग्रहको देवोऽक्षिपत्तोये यथा गृहे ।
ततो विषादमगमद्दृष्ट्वा तान्नर्मदाजले ॥ २०९.४२ ॥
गुरुणा बटुरुक्तोऽथ किमेतत्साहसं कृतम् ।
एतेषां मातृपितरो बालकानां गृहेऽङ्गनाः ॥ २०९.४३ ॥
यदि पृच्छन्ति ते बालान् क्व गतान् कथयाम्यहम् ।
एवं स्थिते महाभाग यदि कश्चिन्मरिष्यति ॥ २०९.४४ ॥
तदा स्वकीयजीवेन त्वं योजयितुमर्हसि ।
मृतेषु तेषु विप्रेषु न जीवे निश्चयो मृतः ॥ २०९.४५ ॥
ब्रह्महत्याश्च ते बह्व्यो भविष्यन्ति मृते मयि ।
द्विजबन्धनमात्रेण नरको भवति ध्रुवम् ॥ २०९.४६ ॥
मरणाद्यां गतिं यासि न तां वेद्मि द्विजाधम ।
एवमुक्तः स्मितं कृत्वा देवदेवो महेश्वरः ॥ २०९.४७ ॥
भारभूतेश्वरे तीर्थ उज्जहार जलाद्द्विजान् ।
मुक्त्वा भारं तु देवेन छादयित्वा तु तान्द्विजान् ॥ २०९.४८ ॥
लिङ्गं प्रतिष्ठितं तत्र भारभूतेति विश्रुतम् ।
मृतांस्तान् वै द्विजान् दृष्ट्वा ब्रह्महत्या निराकृता ॥ २०९.४९ ॥
गतानि पञ्च वै दृष्ट्वा ब्रह्महत्याशतानि वै ।
ततः स विस्मयाविष्टो दृष्ट्वा तान्बालकान् गुरुः ॥ २०९.५० ॥
नान्यस्य कस्यचिच्छक्तिरेवं स्यादीश्वरं विना ।
ज्ञात्वा तं देवदेवेशं प्रणाममकरोद्द्विजः ॥ २०९.५१ ॥
अज्ञानेन मया सव यदुक्तं परमेश्वर ।
अप्रियं यत्कृतं सर्वं क्षन्तव्यं तन्मम प्रभो ॥ २०९.५२ ॥

देव उवाच -
भगवन्गुरुर्भवान्देवो भवान्मम पितामहः ।
वेदगर्भ नमस्तेऽस्तु नास्ति कश्चिद्व्यतिक्रमः ॥ २०९.५३ ॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति ।
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ॥ २०९.५४ ॥
एवमुक्त्वा जगन्नाथो विष्णुशर्माणमानतः ।
तत्र तीर्थे जगामाशु कैलासं धरणीधरम् ॥ २०९.५५ ॥
तदाप्रभृति तत्तीर्थं भारभूतीति विश्रुतम् ।
विख्यातं सर्वलोकेषु महापातकनाशनम् ॥ २०९.५६ ॥
तत्र तीर्थे पुनर्वृत्तमितिहासं ब्रवीमि ते ।
सर्वपापहरं दिव्यमेकाग्रस्त्वं शृणुष्व तत् ॥ २०९.५७ ॥
पुरा कृतयुगस्यादौ वैश्यः कश्चिन्महामनाः ।
सुकेश इति विख्यातस्तस्य पुत्रोऽतिधार्मिकः ॥ २०९.५८ ॥
सोमशर्मेति विख्यातो मृतः पृथुललोचनः ।
स सखायं वणिक्पुत्रं कंचिच्चक्रे दरिद्रिणम् ॥ २०९.५९ ॥
सुदेवमिति ख्यातं सर्वकर्मसु कोविदम् ।
एकदा तु समं तेन व्यवहारमचिन्तयत् ॥ २०९.६० ॥
सखे समुद्रयानेन गच्छावोत्तरणैः शुभैः ।
भाण्डं बहु समादाय मदीये द्रव्यसाधने ॥ २०९.६१ ॥
परं तीरं गमिष्याव उत्कर्षस्त्वावयोः समः ।
इति तौ मन्त्रयित्वा तु मन्त्रवत्समभीप्सितम् ॥ २०९.६२ ॥
सर्वं प्रयाणकं गृह्य ह्यारूढौ लवणोदधिम् ।
तौ गत्वा तु परं भाण्डं विक्रीय पुरतस्तदा ॥ २०९.६३ ॥
प्राप्तौ बहु सुवर्णं च रत्नानि विविधानि च ।
नावं तां संगतां कृत्वा पश्चात्तावारुरोहतुः ॥ २०९.६४ ॥
नावमन्तर्जले दृष्ट्वा निशीथे स्वर्णसंभृताम् ।
दृष्ट्वा तु सोमशर्माणमुत्सङ्गे कृतमस्तकम् ॥ २०९.६५ ॥
शयानमतिविश्वस्तं सहदेवो व्यचिन्तयत् ।
एष निद्रावशं यातो मयि प्राणान्निधाय वै ॥ २०९.६६ ॥
अस्याधीनमिदं सर्वं द्रव्यरत्नमशेषतः ।
उत्कर्षार्द्धं तु मे दद्यात्तत्र गत्वेति वा न वा ॥ २०९.६७ ॥
इति निश्चित्य मनसा पापस्तं लवणोदधौ ।
चिक्षेप सोमशर्माणं पापध्यातेन चेतसा ॥ २०९.६८ ॥
उत्तीर्य तरणात्तस्माद्गत्वा संगृह्य तद्धनम् ।
ततः कतिपयाहोभिः संयुक्तः कालधर्मणा ॥ २०९.६९ ॥
गतो यमपुरं घोरं गृहीतो यमकिंकरैः ।
स नीतस्तेन मार्गेण यत्र संतपते रविः ॥ २०९.७० ॥
कृत्वा द्वादशधात्मानं सम्प्राप्ते प्रलये यथा ।
सुतीक्ष्णाः कण्टका यत्र यत्र श्वानः सुदारुणाः ॥ २०९.७१ ॥
तीक्ष्णदंष्ट्रा महाव्याला व्याघ्रा यत्र महावृकाः ।
सुतप्ता वालुका यत्र क्षुधा तृष्णा तमो महत् ॥ २०९.७२ ॥
पानीयस्य कथा नास्ति न छाया नाश्रमः क्वचित् ।
अन्नं पानीयसहितं यावत्तद्दीयते विषम् ॥ २०९.७३ ॥
छायां संप्रार्थमानानां भृशं ज्वलति पावकः ।
तैर्दह्यमाना बहुशो विलपन्ति मुहुर्मुहुः ॥ २०९.७४ ॥
हा भ्रातर्मातः पुत्रेति पतन्ति पथि मूर्छिताः ।
इत्थंभूतेन मार्गेण स गीतो यमकिंकरैः ॥ २०९.७५ ॥
यत्र तिष्ठति देवेशः प्रजासंयमनो यमः ।
ते द्वारदेशे तं मुक्त्वाचक्षुर्यमकिंकराः ॥ २०९.७६ ॥
बद्ध्वा तं गलपाशेन ह्यासीनं मित्रघातिनम् ।
अवधारय देवेश बुध्यस्व यदनन्तरम् ॥ २०९.७७ ॥

यम उवाच -
न तु पूर्वं मुखं दृष्टं मया विश्वासघातिनाम् ।
ये मित्रद्रोहिणः पापास्तेषां किं शासनं भवेत् ॥ २०९.७८ ॥
ऋषयोऽत्र विचारार्थं नियुक्ता निपुणाः स्थिताः ।
ते यत्र ब्रुवते तत्र क्षिपध्वं मा विचार्यताम् ॥ २०९.७९ ॥
इत्युक्तास्ते तमादाय किंकराः शीघ्रगामिनः ।
मुनीशांस्तत्र तानूचुस्तं निवेद्य यमाज्ञया ॥ २०९.८० ॥
द्विजा अनेन मित्रं स्वं प्रसुप्तं निशि घातितम् ।
विश्वस्तं धनलोभेन को दण्डोऽस्य भविष्यति ॥ २०९.८१ ॥
मुनय ऊचुः ।
अदृष्टपूर्वमस्माभिर्वदनं मित्रघातिनाम् ।
कृत्वा पटान्तरे ह्येनं शृण्वन्तु गतिमस्य ताम् ॥ २०९.८२ ॥
ते शास्त्राणि विचार्याथ ऋषयश्च परस्परम् ।
आहूय यमदूतांस्तानूचुर्ब्राह्मणपुंगवाः ॥ २०९.८३ ॥
आलोकितानि शास्त्राणि वेदाः साङ्गाः स्मृतीरपि ।
पुराणानि च मीमांसा दृष्टमस्माभिरत्र च ॥ २०९.८४ ॥
ब्रह्मघ्ने च सुरापे च स्तेये गुर्वङ्गनागमे ।
निष्कृतिर्विहिता शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८५ ॥
ये स्त्रीघ्नाश्च गुरुघ्नाश्च ये बालब्रह्मघातिनः ।
विहिता निष्कृतिः शास्त्रे कृतघ्ने नास्ति निष्कृतिः ॥ २०९.८६ ॥
वापीकूपतडागानां भेत्तारो ये च पापिनः ।
उद्यानवाटिकानां च छेत्तारो ये च दुर्जनाः ॥ २०९.८७ ॥
दावाग्निदाहका ये च सततं येऽसुहिंसकाः ।
न्यासापहारिणो ये च गरदाः स्वामिवञ्चकाः ॥ २०९.८८ ॥
मातापितृगुरूणां च त्यागिनो दोषदायिनः ।
स्वभर्तृवञ्चनपरा या स्त्री गर्भप्रघातिनी ॥ २०९.८९ ॥
विवेकरहिता या स्त्री यास्नाता भोजने रता ।
द्विकालभोजनरतास्तथा वैष्णववासरे ॥ २०९.९० ॥
तासां स्त्रीणां गतिर्दृष्टा न तु विश्वासघातिनाम् ।
विश्वासघातिनां पुंसां मित्रद्रोहकृतां तथा ॥ २०९.९१ ॥
तेषां गतिर्न वेदेषु पुराणेषु च का कथा ।
इति स्थितेषु पापेषु गतिरेषां न विद्यते ॥ २०९.९२ ॥
नान्या गतिर्मित्रहनने विश्वस्तघ्ने च नः श्रुतम् ।
इतो नीत्वा यमदूता एनं विश्वस्तघातिनम् ॥ २०९.९३ ॥
कल्पकोटिशतं साग्रं पर्यायेण पृथक्पृथक् ।
नरकेषु च सर्वेषु त्रिंशत्कोटिषु संख्यया ॥ २०९.९४ ॥
क्षिप्यतामेष मित्रघ्नो विचारो मा विधीयताम् ।
इति ते वचनं श्रुत्वा किंकरास्तं निगृह्य च ॥ २०९.९५ ॥
यत्र ते नरका घोरास्तत्र क्षेप्तुं गतास्ततः ।
ते तमादाय हि नरके घोरे रौरवसंज्ञिते ॥ २०९.९६ ॥
चिक्षिपुस्तत्र पापिष्ठं क्षिप्ते रावोऽभवन्महान् ।
नरकस्थितभूतेषु मोक्तव्यो नैष पापकृत् ॥ २०९.९७ ॥
अस्य संस्पर्शनादेव पीडा शतगुणा भवेत् ।
यथा व्यथासिकाष्ठैश्च समिद्धैर्दहनात्मकैः ॥ २०९.९८ ॥
भवति स्पर्शनात्तस्य किमेतेन कृतामलम् ।
यथा दुर्जनसंसर्गात्सुजनो याति लाघवम् ॥ २०९.९९ ॥
सन्निधानात्तथास्याशु क्षते क्षारावसेचनम् ।
प्रसादः क्रियतामाशु नीयतां नरकेऽन्यतः ॥ २०९.१०० ॥
एवमुक्तास्ततस्तैस्तु गतास्ते त्वशुचिं प्रति ।
तत्र ते नारकाः सन्ति पूर्ववत्तेऽपि चुक्रुशुः ॥ २०९.१०१ ॥
एवं ते किंकराः सर्वे पर्यटन्नरकमण्डले ।
नरकेऽपि स्थितिस्तस्य नास्ति पापस्य दुर्मतेः ॥ २०९.१०२ ॥
यदा तदा तु ते सर्वे तं गृह्य यमसन्निधौ ।
गत्वा निवेद्य तत्सर्वं यदुक्तं नारकैर्नरैः ।
नरके न स्थितिर्यस्य तस्य किं क्रियतां वद ॥ २०९.१०३ ॥

यम उवाच -
पापिष्ठ एष वै यातु योनिं तिर्यङ्निषेविताम् ।
कालं मुनिभिरुद्दिष्टः तिर्यग्योनिं प्रवेश्यताम् ॥ २०९.१०४ ॥
एवमुक्ते तु वचने प्रजासंयमनेन च ।
स गतः कृमितां पापो विष्ठासु च पृथक्पृथक् ॥ २०९.१०५ ॥
ततोऽसौ दंशमशकान् पिपीलिकसमुद्भवान् ।
यूकामत्कुणकाढ्यांश्च गत्वा पक्षित्वमागतः ॥ २०९.१०६ ॥
स्थावरत्वं गतः पश्चात्पाषाणत्वं ततः परम् ।
सरीसृपानजगरवराहमृगहस्तिनः ॥ २०९.१०७ ॥
वृकश्वानखरोष्ट्रांश्च सूकरीं ग्रामजातिकाम् ।
योनिमाश्वतरीं प्राप्य तथा महिषसम्भवाम् ॥ २०९.१०८ ॥
एताश्चान्याश्च बह्वीर्वै प्राप योनीः क्रमेण वै ।
स ता योनीरनुप्राप्य धुर्योऽभूद्भारवाहकः ॥ २०९.१०९ ॥
स गृहे पार्थिवेशस्य धार्मिकस्य यशस्विनः ।
स दृष्ट्वा कार्त्तिकीं प्राप्तामेकदा नृपसत्तमः ॥ २०९.११० ॥
पुरोहितं समाहूय ब्राह्मणांश्च तथा बहून् ।
न गृहे कार्त्तिकीं कुर्यादेतन्मे बहुशः श्रुतम् ॥ २०९.१११ ॥
समेताः कुत्र यास्याम इति ब्रूत द्विजोत्तमाः ।
यो गृहे कार्त्तिकीं कुर्यात्स्नानदानादिवर्जितः ॥ २०९.११२ ॥
संवत्सरकृतात्पुण्यात्स बहिर्भवति श्रुतिः ।
तस्मात्सर्वप्रयत्नेन तीर्थं सर्वगुणान्वितम् ॥ २०९.११३ ॥
सहितास्तत्र गच्छामः स्नातुं दातुं च शक्तितः ।
एवमुक्ते तु वचने पार्थिवेन द्विजोत्तमाः ॥ २०९.११४ ॥
ऊचुः श्रेष्ठं नृपथेष्ठ रेवाया उत्तरे तटे ।
भारेश्वरेति विख्यातं मुक्तितीर्थं नृपोत्तम ॥ २०९.११५ ॥
तत्र यामो वयं सर्वे सर्वपापक्षयावहम् ।
एवमुक्तः स नृपतिर्गृहीत्वा प्रचुरं वसु ॥ २०९.११६ ॥
शकटं संभृतं कृत्वा तत्र युक्तः स धूर्वहः ।
यः कृत्वा मित्रहननं गोयोनिं समुपागतः ॥ २०९.११७ ॥
इत्थं स नर्मदातीरे सम्प्राप्तस्तीर्थमुत्तमम् ।
गत्वा चतुर्दशीदिने ह्युपवासकृतक्षणः ॥ २०९.११८ ॥
गत्वा स नर्मदातीरे नाम रुद्रेत्यनुस्मरन् ।
शुचिप्रदेशाच्च मृदं मन्त्रेणानेन गृह्यताम् ॥ २०९.११९ ॥
उद्धृतासि वराहेण रुद्रेण शतबाहुना ।
अहमप्युद्धरिष्यामि प्रजया बन्धनेन च ॥ २०९.१२० ॥
स एवं तां मृदं नीत्वा मुक्त्वा तीरे तथोत्तरे ।
ददर्श भास्करं पश्चान्मन्त्रेणानेन चालभेत् ॥ २०९.१२१ ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे ।
मृत्तिके हर मे पापं जन्मकोटिशतार्जितम् ॥ २०९.१२२ ॥
तत एवं विगाह्यापो मन्त्रमेतमुदीरयेत् ।
त्वं नर्मदे पुण्यजले तवाम्भः शङ्करोद्भवम् ॥ २०९.१२३ ॥
स्नानं प्रकुर्वतो मेऽद्य पापं हरतु चार्जितम् ।
स स्नात्वानेन विधिना संतर्प्य पितृदेवताः ॥ २०९.१२४ ॥
ययौ देवालयं पश्चादुपहारैः समन्वितः ।
भक्त्या संचिन्त्य सान्निध्ये शङ्करं लोकशङ्करम् ॥ २०९.१२५ ॥
पुराणोक्तविधानेन पूजां समुपचक्रमे ।
पूजाचतुष्टयं देवि शिवरात्र्यां निगद्यते ॥ २०९.१२६ ॥
संस्नाप्य प्रथमे यामे पञ्चगव्येन शङ्करम् ।
घृतेन पूरणं पश्चात्कृतं नृपवरेण तु ॥ २०९.१२७ ॥
धूपदीपनैवेद्याद्यं संकल्प्य च यथाविधि ।
अर्घेणानेन देवेशं मन्त्रेणानेन शङ्करम् ॥ २०९.१२८ ॥
नमस्ते देवदेवेश शम्भो परमकारण ।
गृहाणार्घमिमं देव संसाराघमपाकुरु ॥ २०९.१२९ ॥
वित्तानुरूपतो दत्तं सुवर्णं मन्त्रकल्पितम् ।
अग्निर्हि देवाः सर्वे सुवर्णं च हुताशनात् ॥ २०९.१३० ॥
अतः सुवर्णदानेन प्रीताः स्युः सर्वदेवताः ।
तदर्घं सर्वदा दातुः प्रीतो भवतु शङ्करः ॥ २०९.१३१ ॥
अनेन विधिना तेन पूजितः प्रथमे शिवः ।
यामे द्वितीये तु पुनः पूर्वोक्तविधिना चरेत् ॥ २०९.१३२ ॥
स्नापयामास दुग्धेन गव्येन त्रिपुरान्तकम् ।
तंदुलैः पूरणं पश्चात्कृतं लिङ्गस्य शूलिनः ॥ २०९.१३३ ॥
कृत्वा विधानं पूर्वोक्तं दत्तं वस्त्रयुगं सितम् ।
श्वेतवस्त्रयुगं यस्माच्छङ्करस्यातिवल्लभम् ॥ २०९.१३४ ॥
प्रीतो भवति वै शम्भुर्दत्तेन श्वेतवाससा ।
यामं तृतीयं सम्प्राप्तं दृष्ट्वा नृपतिसत्तमः ॥ २०९.१३५ ॥
देवं संस्नाप्य मधुना पूरणं चक्रिवांस्तिलैः ।
तिलद्रोणप्रदानं च कुर्यान्मन्त्रमुदीरयन् ॥ २०९.१३६ ॥
तिलाः श्वेतास्तिलाः कृष्णाः सर्वपापहरास्तिलाः ।
तिलद्रोणप्रदानेनु संसारश्छिद्यतां मम ॥ २०९.१३७ ॥
अनेन विधिना राजा यामिनीयामपूजनम् ।
अतिवाह्य विनोदेन ब्रह्मघोषेण जागरम् ॥ २०९.१३८ ॥
चकार पूजनं शम्भोर्बहुपुण्यप्रसाधकम् ।
ये जागरे त्रिनेत्रस्य शिवरात्र्यां शिवस्थिताः ॥ २०९.१३९ ॥
ते यां गतिं गताः पार्थ न तां गच्छन्ति यज्विनः ।
पापानि यानि कानि स्युः कोटिजन्मार्जितान्यपि ॥ २०९.१४० ॥
हरकेशवयोः स्नान्ति जागरे यान्ति संक्षयम् ।
यावन्तो निमिषा नृणां भवन्ति निशि जाग्रताम् ॥ २०९.१४१ ॥
निमिषे निमिषे राजन्नश्वमेधफलं ध्रुवम् ।
उपवासपराणां च देवायतनवासिनाम् ॥ २०९.१४२ ॥
शृण्वतां धर्ममाख्यानं ध्यायतां हरकेशवौ ।
न तां बहुसुवर्णेन क्रतुना गतिमाप्नुयुः ॥ २०९.१४३ ॥
शिवरात्रिस्तिथिः पुण्या कार्त्तिकी च विशेषतः ।
रेवाया उत्तरं कूलं तीरं भारेश्वरेति च ॥ २०९.१४४ ॥
जागृतश्चातिदुःखेन कथं पापं न हास्यति ।
इत्थंस जागरं कृत्वा शिवरात्र्यां नरेश्वरः ॥ २०९.१४५ ॥
प्रभाते विमले गत्वा नर्मदातीरमुत्तमम् ।
स्नापितास्तेन ते सर्वे वाहनानि गजादयः ॥ २०९.१४६ ॥
यैस्तु वाहैर्गतस्तीर्थं स्नातोऽहं स्नापयामि तान् ।
तत्र मध्यस्थितः स्नातस्तिर्यक्त्वान्निर्गतो वणिक् ॥ २०९.१४७ ॥
दानं ददौ तानुद्दिश्य किंचिच्छक्त्यनुरूपतः ।
तेन वाहकृताद्दोषान्मुक्तो भवति मानवः ॥ २०९.१४८ ॥
अन्यथासौ कृतो लाभः कृतो व्रजति तान् प्रति ।
संस्नाप्य तं ततो राजा स्वयं स्नात्वा विधानतः ॥ २०९.१४९ ॥
संतर्प्य पितृदेवांश्च कृत्वा श्राद्धं यथाविधि ।
कृत्वा पिण्डान्पितृभ्यश्च वृषमुत्सृज्य लक्षणम् ॥ २०९.१५० ॥
गत्वा देवालयं पश्चाद्देवं तीर्थोदकेन च ।
संस्नाप्य पञ्चगव्येन ततः पञ्चामृतेन च ॥ २०९.१५१ ॥
सर्वौषधिजलेनैव ततः शुद्धोदकेन च ।
चन्दनेन सुगन्धेन समालभ्य च शङ्करम् ॥ २०९.१५२ ॥
कुङ्कुमैश्च सकर्पूरैर्गन्धैश्च विविधैस्तथा ।
पुष्पौघैश्च सुगन्धाढ्यैश्चतुर्थं लिङ्गपूरणम् ॥ २०९.१५३ ॥
कृतं नृपवरेणात्र कुर्वता पूर्वकं विधिम् ।
गोदानं च कृतं पश्चाद्विधिदृष्टेन कर्मणा ॥ २०९.१५४ ॥
धेनुके रुद्ररूपासि रुद्रेण परिनिर्मिता ।
अस्मिन्नगाधे संसारे पतन्तं मां समुद्धर ॥ २०९.१५५ ॥
धेनुं स्वलंकृतां दद्यादनेन विधिना ततः ।
क्षमाप्य देवदेवेशं ब्राह्मणान् भोजयेद्बहून् ॥ २०९.१५६ ॥
षड्विधैर्भोजनैर्भक्ष्यैर्वासोभिस्तान् समर्चयेत् ।
दक्षिणाभिर्विचित्राभिः पूजयित्वा क्षमापयेत् ॥ २०९.१५७ ॥
स स्वयं बुभुजे पश्चात्परिवारसमन्वितः ।
तामेव रजनीं तत्र न्यवसज्जगतीपतिः ॥ २०९.१५८ ॥
तस्य तत्रोषितस्यैवं निशीथेऽथ नरेश्वर ।
आकाशे सोऽति शुश्राव दिव्यवाणीसमीरितम् ॥ २०९.१५९ ॥

वागुवाच -
राजन्समं ततो लोके फलं भवति साम्प्रतम् ।
संसारसागरे ह्यत्र पतितानां दुरात्मनाम् ॥ २०९.१६० ॥
यदि संनिधिमात्रेण फलं तत्रोच्यते कथम् ।
यदि शंतनुवंशस्य तत्रोन्मादकरं भवेत् ॥ २०९.१६१ ॥
य एष त्वद्गृहे वोढा ह्यतिभारधुरंधरः ।
अनेन मित्रहननं पापं विश्वासघातनम् ॥ २०९.१६२ ॥
कृतं जन्मसहस्राणामतीते परिजन्मनि ।
गतेन पाप्मनात्मानं नरकेषु च संस्थितिः ॥ २०९.१६३ ॥
ततो योनिसहस्रेषु गतिस्तिर्यक्षु चैव हि ।
गोयोनिं समनुप्राप्तस्त्वद्गृहे स सुदुर्मतिः ॥ २०९.१६४ ॥
स्नापितश्च त्वया तीर्थे ह्यस्मिन् पर्वसमागमे ।
दृष्ट्वा पूजां त्वया कॢप्तां कृता जागरणक्रिया ॥ २०९.१६५ ॥
तेन निष्कल्मषो जातो मुक्त्वा देहं तवाग्रतः ।
स्वर्गं प्रति विमानस्थः सोऽद्य राजन्गमिष्यति ॥ २०९.१६६ ॥

श्रीमार्कण्डेय उवाच -
एवमुक्ते निपतितो धुर्यः प्राणैर्व्ययुज्यत ।
विमानवरमारूढस्तत्क्षणात्समदृश्यत ॥ २०९.१६७ ॥
स तं प्रणम्य राजेन्द्रमुवाच प्रहसन्निव ॥ २०९.१६८ ॥

वृष उवाच -
भोभो नृपवरश्रेष्ठ तीर्थमाहात्म्यमुत्तमम् ।
यत्र चास्मद्विधस्तीर्थे मुच्यते पातकैर्नरः ।
मया ज्ञातमशेषेण मत्समो नास्ति पातकी ॥ २०९.१६९ ॥
अतः परं किं तु कुर्यां परं तीर्थानुकीर्तनम् ।
भवान्माता भवन्भ्राता भवांश्चैव पितामहः ॥ २०९.१७० ॥
क्षन्तव्यं प्रणतोऽस्म्यद्य यस्मिंस्तीर्थे हि मादृशाः ।
गतिमीदृग्विधां यान्ति न जाने तव का गतिः ॥ २०९.१७१ ॥
समाराध्य महेशानं सम्पूज्य च यथाविधि ।
का गतिस्तव संभाष्या देह्यनुज्ञां मम प्रभो ॥ २०९.१७२ ॥
त्वरयन्ति च मां ह्येते दिविस्थाः प्रणयाद्गणाः ।
स्वस्त्यस्तु ते गमिष्यामीत्युक्त्वा सोऽन्तर्दधे क्षणात् ॥ २०९.१७३ ॥

श्रीमार्कण्डेय उवाच -
गते चादर्शनं तत्र स राजा विस्मयान्वितः ।
तीर्थमाहात्म्यमतुलं वर्णयन्स्वपुरं गतः ॥ २०९.१७४ ॥
इत्थंभूतं हि तत्तीर्थं नर्मदायां व्यवस्थितम् ।
सर्वपापक्षयकरं सर्वदुःखघ्नमुत्तमम् ॥ २०९.१७५ ॥
उपपापानि नश्यन्ति स्नानमात्रेण भारत ।
कार्त्तिकस्य चतुर्दश्यामुपवासपरायणः ॥ २०९.१७६ ॥
चतुर्धा पूरयेल्लिङ्गं तस्य पुण्यफलं शृणु ।
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥ २०९.१७७ ॥
महापापानि चत्वारि चतुर्भिर्यान्ति संक्षयम् ।
सोऽश्वमेधस्य यज्ञस्य लभते फलमुत्तमम् ॥ २०९.१७८ ॥
कार्त्तिके शुक्लपक्षस्य चतुर्दश्यामुपोषितः ।
स्वर्णदानाच्च तत्तीर्थे यज्ञस्य लभते फलम् ॥ २०९.१७९ ॥
अष्टम्यां वा चतुर्दश्यां वैशाखे मासि पूर्ववत् ।
दीपं पिष्टमयं कृत्वा पितॄन् सर्वान् विमोक्षयेत् ॥ २०९.१८० ॥
तत्र यद्दीयते दानमपि वालाग्रमात्रकम् ।
तदक्षयफलं सर्वमेवमाह महेश्वरः ॥ २०९.१८१ ॥
भारभूत्यां मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजञ्छिवलोकान्निरन्तरम् ॥ २०९.१८२ ॥
अथवा लोकवृत्त्यर्थं मर्त्यलोकं जिगीषति ।
साङ्गवेदज्ञविप्राणां जायते विमले कुले ॥ २०९.१८३ ॥
धनधान्यसमायुक्तो वेदविद्यासमन्वितः ।
सर्वव्याधिविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ २०९.१८४ ॥
पुनस्तत्तीर्थमासाद्य ह्यक्षयं पदमाप्नुयात् ॥ २०९.१८५ ॥
एतत्पुण्यं पापहरं कथितं ते नृपोत्तम ।
भारतेदं महाख्यानं शृणु चैव ततः परम् ॥ २०९.१८६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भारभूतितीर्थमाहात्म्यवर्णनं नाम नवाधिकद्विशततमोऽध्यायः ॥