स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०७
अध्यायः २०७
श्रीमार्कण्डेय उवाच -
तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् ।
यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम् ॥ २०७.१ ॥
तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय काञ्चनम् ।
तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते ॥ २०७.२ ॥
सर्वेषामेव रत्नानां काञ्चनं रत्नमुत्तमम् ।
अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि ॥ २०७.३ ॥
तेनैव दत्ता पृथिवी सशैलवनकानना ।
सपत्तनपुरा सर्वा काञ्चनं यः प्रयच्छति ॥ २०७.४ ॥
मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् ।
तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत ॥ २०७.५ ॥
स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् ।
तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः ॥ २०७.६ ॥
तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।
पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम् ॥ २०७.७ ॥
पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् ।
सुवर्णकोटिसहिते गृहे वै जायते द्विजः ॥ २०७.८ ॥
सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः ।
जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः ॥ २०७.९ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥