स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९८

विकिस्रोतः तः

अध्याय १९८
मार्कण्डेय उवाच -
ततो गच्छेन्महीपाल भद्रकालीतिसङ्गमम् ।
शूलतीर्थमिति ख्यातं स्वयं देवेन निर्मितम् ॥ १९८.१ ॥
पञ्चायतनमध्ये तु तिष्ठते परमेश्वरः ।
शूलपाणिर्महादेवः सर्वदेवतपूजितः ॥ १९८.२ ॥
स सङ्गमो नृपश्रेष्ठ नित्यं देवैर्निषेवितः ।
दर्शनात्तस्य तीर्थस्य स्नानदानाद्विशेषतः ॥ १९८.३ ॥
दौर्भाग्यं दुर्निमित्तं च ह्यभिशापो नृपग्रहः ।
यदन्यद्दुष्कृतं कर्म नश्यते शङ्करोऽब्रवीत् ॥ १९८.४ ॥

युधिष्ठिर उवाच -
कथं शूलेश्वरी देवी कथं शूलेश्वरो हरः ।
प्रथितो नर्मदातीरे एतद्विस्तरतो वद ॥ १९८.५ ॥

मार्कण्डेय उवाच -
बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।
वृत्तिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ १९८.६ ॥
अशोकाश्रममध्यस्थो वृक्षमूले महातपाः ।
ऊर्ध्वबाहुर्महातेजास्तस्थौ मौनव्रतान्वितः ॥ १९८.७ ॥
तस्य कालेन महता तीव्रे तपसि वर्ततः ।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः ॥ १९८.८ ॥
अनुसर्प्यमाणा बहुभिः पुरुषैर्भरतर्षभ ।
ते तस्यावसथे लोप्त्रं न्यदधुः कुरुनन्दन ॥ १९८.९ ॥
निधाय च तदा लीनास्तत्रैवाश्रममण्डले ।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ॥ १९८.१० ॥
आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ।
तमपृच्छंस्तदा वृत्तं रक्षिणस्तं तपोधनम् ॥ १९८.११ ॥
वद केन पथा याता दस्यवो द्विजसत्तम ।
तेन गच्छामहे ब्रह्मन् यथा शीघ्रतरं वयम् ॥ १९८.१२ ॥
तथा तु वचनं तेषां ब्रुवतां स तपोधनः ।
न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ १९८.१३ ॥
ततस्ते राजपुरुषा विचिन्वन्तस्तमाश्रमम् ।
संयम्यैनं ततो राज्ञे सर्वान् दस्यून्न्यवेदयन् ॥ १९८.१४ ॥
तं राजा सहितैश्चोरैरन्वशाद्वध्यतामिति ।
सम्बध्य तं च तैर्राजञ्छूले प्रोतो महातपाः ॥ १९८.१५ ॥
ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।
प्रतिजग्मुर्महीपाल धनान्यादाय तान्यथ ॥ १९८.१६ ॥
शूलस्थः स तु धर्मात्मा कालेन महता तदा ।
ध्यायन्देवं त्रिलोकेशं शङ्करं तमुमापतिम् ॥ १९८.१७ ॥
बहुकालं महेशानं मनसाध्याय संस्थितः ।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत ॥ १९८.१८ ॥
धारयामास विप्राणामृषभः स हृदा हरिम् ।
शूलाग्रे तप्यमानेन तपस्तेन कृतं तदा ॥ १९८.१९ ॥
सन्तापं परमं जग्मुः श्रुत्वैतन्मुनयोऽखिलाः ।
ते रात्रौ शकुना भूत्वा संन्यवर्तन्त भारत ॥ १९८.२० ॥
दर्शयन्तो मुनेः शक्तिं तमपृच्छन् द्विजोत्तमम् ।
श्रोतुमिच्छाम ते ब्रह्मन् किं पापं कृतवानसि ॥ १९८.२१ ॥

श्रीमार्कण्डेय उवाच -
ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।
दोषतः किं गमिष्यामि न हि मेऽन्यो पराध्यति ॥ १९८.२२ ॥
एवमुक्त्वा ततः सर्वानाचचक्षे ततो मुनिः ।
मुनयश्च ततो राज्ञे द्वितीयेऽह्नि न्यवेदयन् ॥ १९८.२३ ॥
राजा तु तमृषिं श्रुत्वा निष्क्रान्तः सह बन्धुभिः ।
प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १९८.२४ ॥

राजोवाच -
यन्मयाऽपकृतं तात तवाज्ञानवशाद्बहु ।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १९८.२५ ॥
एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः ।
कृतप्रसादं राजा तं ततः समवतारयत् ॥ १९८.२६ ॥
अवतीर्यमाणस्तु मुनिः शूले मांसत्वमागते ।
अतिसंपीडितो विप्रः शङ्करं मनसागमत् ॥ १९८.२७ ॥
संध्यातः शङ्करस्तेन बहुकालोपवासतः ।
प्रादुर्भूतो महादेवः शूलं तस्य तथाछिनत् ॥ १९८.२८ ॥
शूलमूलस्थितः शम्भुस्तुष्टः प्राह पुनःपुनः ।
ब्रूहि किं क्रियतां विप्र सत्त्वस्थानपरायण ॥ १९८.२९ ॥
अदेयमपि दास्यामि तुष्टोऽस्म्यद्योमया सह ।
किं तु सत्यवतां लोके सिद्धिर्न स्याच्च भूयसी ॥ १९८.३० ॥
स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जन्तवः ।
शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु ॥ १९८.३१ ॥
बहुभेदप्रभिन्नं तु मनुष्येषु विपच्यते ।
केषां दरिद्रभावेन केषां धनविपत्तिजम् ॥ १९८.३२ ॥
सन्तत्यभावजं केषां केषांचित्तद्विपर्ययः ।
तथा दुर्वृत्तितस्तेषां फलमाविर्भवेन्नृणाम् ॥ १९८.३३ ॥
केषांचित्पुत्रमरणे वियोगात्प्रियमित्रयोः ।
राजचौराग्नितः केषां दुःखं स्याद्दैवनिर्मितम् ॥ १९८.३४ ॥
तच्छरीरे तु केषांचित्कर्मणा सम्प्रदृश्यते ।
जराश्च विविधाः केषां दृश्यन्ते व्याधयस्तथा ॥ १९८.३५ ॥
दृश्यन्ते चाभिशापाश्च पूर्वकर्मानुसंचिताः ।
कष्टाः कष्टतरावस्था गताः केचिदनागसः ॥ १९८.३६ ॥
पूर्वकर्मविपाकेन धर्मेण तपसि स्थिताः ।
दान्ताः स्वदारनिरता भूरिदाः परिपूजकाः ॥ १९८.३७ ॥
ह्रीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः ।
दुर्गमामापदं प्राप्य निजकर्मसमुद्भवाम् ॥ १९८.३८ ॥
न संज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते ।
इदमेव तपो मत्वा क्षिपन्ति सुविचेतसः ॥ १९८.३९ ॥
हा भ्रातर्मातः पुत्रेति कष्टेषु न वदन्ति ये ।
स्मरन्ति मां महेशानमथवा पुष्करेक्षणम् ॥ १९८.४० ॥
दुष्कृतं पूर्वजं भोक्तुं ध्रुवं तदुपशाम्यति ॥ १९८.४१ ॥
दिनानि यावन्ति वसेत्स कष्टे यथाकृतं चिन्तयद्देवमीशम् ।
तावन्ति सौम्यानि कृतानि तेन भवन्ति विप्र श्रुतिनोदनैषा ॥ १९८.४२ ॥
यस्मात्त्वया कष्टगतेन नित्यं स्मृतश्चाहं मनसा पूजितश्च ।
गौरीसहायस्तेन इहागतोऽस्मि ब्रूह्यद्य कृत्यं क्रियतां किं नु विप्र ॥ १९८.४३ ॥

माण्डव्य उवाच -
तुष्टो यद्युमया सार्धं वरदो यदि शङ्कर ।
तदा मे शूलसंस्थस्य संशयं परमं वद ॥ १९८.४४ ॥
न रुजा मम कापि स्याच्छूलसंप्रोतितेऽगके ।
अमृतस्रावि तच्छूलं प्रभावात्कस्य शंस मे ॥ १९८.४५ ॥

श्रीशूलपाणिरुवाच -
शूलस्थेन त्वया विप्र मनसा चिन्तितोऽस्मि यत् ।
अनयानां निहन्ताहं दुःखानां विनिबर्हणः ॥ १९८.४६ ॥
ध्यातमात्रो ह्यहं विप्र पाताले वापि संस्थितः ।
शूलमूले त्वहं शम्भुरग्रे देवी स्वयं स्थिता ।
जगन्माताम्बिका देवी त्वामृतेनान्वपूरयत् ॥ १९८.४७ ॥

माण्डव्य उवाच -
पूर्वमेव स्थितो यस्माच्छूलं व्याप्योमया सह ।
प्रसादप्रवणो मह्यमिदानीं चानया सह ॥ १९८.४८ ॥
यस्याः संस्मरणादेव दौर्भाग्यं प्रलयं व्रजेत् ।
न दौर्भाग्यात्परं लोके दुःखाद्दुःखतरं किल ॥ १९८.४९ ॥
किलैवं श्रूयते गाथा पुराणेषु सुरोत्तम ।
त्रैलोक्यं दहतस्तुभ्यं सौभाग्यमेकतां गतम् ॥ १९८.५० ॥
विष्णोर्वक्षःस्थलं प्राप्य तत्स्थितं चेति नः श्रुतम् ।
पीतं तद्वक्षसस्त्रस्तदक्षेण परमेष्ठिना ॥ १९८.५१ ॥
तस्मात्सतीति संजज्ञ इयमिन्दीवरेक्षणा ।
यजतस्तस्य देवेश तव मानावखण्डनात् ॥ १९८.५२ ॥
जुहावाग्नौ तु सा देवी ह्यात्मानं प्राणसंज्ञिकम् ।
आत्मानं भस्मसात्कृत्वा प्रालेयाद्रेस्ततः सुता ॥ १९८.५३ ॥
मेनकायां प्रभो जाता साम्प्रतं या ह्युमाभिधा ।
अनादिनिधना देवी ह्यप्रतर्क्या सुरेश्वर ॥ १९८.५४ ॥
यदि तुष्टोऽसि देवेश ह्युमा मे वरदा यदि ।
उभावप्यत्र वै स्थाने स्थितौ शूलाग्रमूलयोः ॥ १९८.५५ ॥
अवतारो यत्र तत्र संस्थितिं वै ततः कुरु ॥ १९८.५६ ॥

श्रीमार्कण्डेय उवाच -
तेनैवमुक्ते सहसा कृत्वा भूमण्डलं द्विधा ।
निःसृतौ शूलमूलाग्राल्लिङ्गार्चाप्रतिरूपिणौ ॥ १९८.५७ ॥
प्रद्योतयद्दिशः सर्वा लिङ्गं मूले प्रदृश्यते ।
वामतः प्रतिमा देवी तदा शूलेश्वरी स्थिता ॥ १९८.५८ ॥
विलोभयन्ती च जगद्भाति पूरयती दिशः ।
दृष्ट्वा कृताञ्जलिपुटः स्तुतिं चक्रे द्विजोत्तमः ॥ १९८.५९ ॥

माण्डव्य उवाच -
त्वमस्य जगतो माता जगत्सौभाग्यदेवता ।
न त्वया रहितं किंचिद्ब्रह्माण्डेऽस्ति वरानने ॥ १९८.६० ॥
प्रसादं कुरु धर्मज्ञे मम त्वाज्ञप्तुमर्हसि ।
ईदृशेनैव रूपेण केषु स्थानेषु तिष्ठसि ।
प्रसादप्रवणा भूत्वा वद तानि महेश्वरि ॥ १९८.६१ ॥

श्रीदेव्युवाच -
सर्वगा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि ।
सर्वलोकेषु यत्किंचिद्विहितं न मया विना ॥ १९८.६२ ॥
तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः ।
स्मर्तव्या भूतिकामेन तानि वक्ष्यामि तत्त्वतः ॥ १९८.६३ ॥
वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी ।
प्रयागे ललिता देवी कामुका गन्धमादने ॥ १९८.६४ ॥
मानसे कुमुदा नाम विश्वकाया तथाऽपरे ।
गोमन्ते गोमती नाम मन्दरे कामचारिणी ॥ १९८.६५ ॥
मदोत्कटा चैत्ररथे हयन्ती हास्तिने पुरे ।
कान्यकुब्जे स्थिता गौरी रम्भा ह्यमलपर्वते ॥ १९८.६६ ॥
एकाम्रके कीर्तिमती विश्वां विश्वेश्वरे विदुः ।
पुष्करे पुरुहूता च केदारे मार्गदायिनी ॥ १९८.६७ ॥
नन्दा हिमवतः प्रस्थे गोकर्णे भद्रकर्णिका ।
स्थानेश्वरे भवानी तु बिल्वके बिल्वपत्त्रिका ॥ १९८.६८ ॥
श्रीशैले माधवी नाम भद्रे भद्रेश्वरीति च ।
जया वराहशैले तु कमला कमलालये ॥ १९८.६९ ॥
रुद्रकोट्यां तु कल्याणी काली कालञ्जरे तथा ।
महालिङ्गे तु कपिला माकोटे मुकुटेश्वरी ॥ १९८.७० ॥
शालिग्रामे महादेवी शिवलिङ्गे जलप्रिया ।
मायापुर्यां कुमारी तु संताने ललिता तथा ॥ १९८.७१ ॥
उत्पलाक्षी सहस्राक्षे हिरण्याक्षे महोत्पला ।
गयायां विमला नाम मङ्गला पुरुषोत्तमे ॥ १९८.७२ ॥
विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ।
नारायणी सुपार्श्वे तु त्रिकूटे भद्रसुन्दरी ॥ १९८.७३ ॥
विपुले विपुला नाम कल्याणी मलयाचले ।
कोटवी कोटितीर्थेषु सुगन्धा गन्धमादने ॥ १९८.७४ ॥
गोदाश्रमे त्रिसन्ध्या तु गङ्गाद्वारे रतिप्रिया ।
शिवचण्डे सभानन्दा नन्दिनी देविकातटे ॥ १९८.७५ ॥
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
देवकी मथुरायां तु पाताले परमेश्वरी ॥ १९८.७६ ॥
चित्रकूटे तथा सीता विन्ध्ये विन्ध्यनिवासिनी ।
सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चण्डिका ॥ १९८.७७ ॥
रमणा रामतीर्थे तु यमुनायां मृगावती ।
करवीरे महालक्ष्मी रूपादेवी विनायके ॥ १९८.७८ ॥
आरोग्या वैद्यनाथे तु महाकाले महेश्वरी ।
अभयेत्युष्णतीर्थे तु मृगी वा विन्ध्यकन्दरे ॥ १९८.७९ ॥
माण्डव्ये माण्डुकी नाम स्वाहा माहेश्वरे पुरे ।
छागलिङ्गे प्रचण्डा तु चण्डिकामरकण्टके ॥ १९८.८० ॥
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ।
वेदमाता सरस्वत्यां पारा पारातटे मुने ॥ १९८.८१ ॥
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ।
सिंहिका कृतशौचे तु कर्तिके चैव शांकरी ॥ १९८.८२ ॥
उत्पलावर्तके लोला सुभद्रा शोणसङ्गमे ।
मता सिद्धवटे लक्ष्मीस्तरंगा भारताश्रमे ॥ १९८.८३ ॥
जालन्धरे विश्वमुखी तारा किष्किन्धपर्वते ।
देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले ॥ १९८.८४ ॥
भीमादेवी हिमाद्रौ तु पुष्टिर्वस्त्रेश्वरे तथा ।
कपालमोचने शुद्धिर्माता कायावरोहणे ॥ १९८.८५ ॥
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ।
काला तु चन्द्रभागायामच्छोदे शक्तिधारिणी ॥ १९८.८६ ॥
वेणायाममृता नाम बदर्यामुर्वशी तथा ।
ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका ॥ १९८.८७ ॥
मन्मथा हेमकूटे तु कुमुदे सत्यवादिनी ।
अश्वत्थे वन्दिनीका तु निधिर्वैश्रवणालये ॥ १९८.८८ ॥
गायत्री वेदवदने पार्वती शिवसन्निधौ ।
देवलोके तथेन्द्राणी ब्रह्मास्ये तु सरस्वती ॥ १९८.८९ ॥
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ।
अरुन्धती सतीनां तु रामासु च तिलोत्तमा ॥ १९८.९० ॥
चित्रे ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ।
शूलेश्वरी भृगुक्षेत्रे भृगौ सौभाग्यसुन्दरी ॥ १९८.९१ ॥
एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् ।
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ १९८.९२ ॥
इदमेव परं विप्र सर्वेषां तु भविष्यति ।
पठत्यष्टोत्तरशतं नाम्नां यः शिवसन्निधौ ॥ १९८.९३ ॥
स मुच्यते नरः पापैः प्राप्नोति स्त्रियमीप्सिताम् ।
स्नात्वा नारी तृतीयायां मां समभ्यर्च्य भक्तितः ॥ १९८.९४ ॥
न सा स्याद्दुःखिनी जातु मत्प्रभावान्नरोत्तम ।
नित्यं मद्दर्शने नारी नियताया भविष्यति ॥ १९८.९५ ॥
पतिपुत्रकृतं दुःखं न सा प्राप्स्यति कर्हिचित् ।
मदालये तु या नारी तुलापुरुषसंज्ञितम् ॥ १९८.९६ ॥
सम्पूज्य मण्डयेद्देवांल्लोकपालांश्च साग्निकान् ।
सपत्नीकान्द्विजान्पूज्य वासोभिर्भूषणैस्तथा ॥ १९८.९७ ॥
भूतेभ्यस्तु बलिं दद्यादृत्विग्भिः सह देशिकः ।
ततः प्रदक्षिणीकृत्य तुलामित्यभिमन्त्रयेत् ॥ १९८.९८ ॥
शुचिरक्ताम्बरो वा स्याद्गृहीत्वा कुसुमाञ्जलिम् ।
नमस्ते सर्वदेवानां शक्तिस्त्वं परमा स्थिता ॥ १९८.९९ ॥
साक्षिभूता जगद्धात्री निर्मिता विश्वयोनिना ।
त्वं तुले सर्वभूतानां प्रमाणमिह कीर्तिता ॥ १९८.१०० ॥
कराभ्यां बद्धमुष्टिभ्यामास्ते पश्यन्नुमामुखम् ।
ततोऽपरे तुलाभागेन्यसेयुर्द्विजपुंगवाः ॥ १९८.१०१ ॥
द्रव्यमष्टविधं तत्र ह्यात्मवित्तानुसारतः ।
मन्दशभूते विप्रेन्द्र पृथिव्यां यदधिष्ठितम् ॥ १९८.१०२ ॥
सुवर्णं चैव निष्पावांस्तथा राजिकुसुम्भकम् ।
तृणराजेन्दुलवणं कुङ्कुमं तु तथाष्टमम् ॥ १९८.१०३ ॥
एषामेकतमं कुर्याद्यथा वित्तानुसारतः ।
साम्यादभ्यधिकं यावत्काञ्चनादि भवेद्द्विज ॥ १९८.१०४ ॥
तावत्तिष्ठेन्नरो नारी पश्चादिदमुदीरयेत् ।
नमो नमस्ते ललिते तुलापुरुषसंज्ञिते ॥ १९८.१०५ ॥
त्वमुमे तारयस्वास्मानस्मात्संसारकर्दमात् ।
ततोऽवतीर्य मुरवे पूर्वमर्द्धं निवेदयेत् ॥ १९८.१०६ ॥
ऋत्विग्भ्योऽपरमर्द्धं च दद्यादुदकपूर्वकम् ।
तेभ्यो लब्धा ततोऽनुज्ञां दद्यादन्येषु चार्थिषु ॥ १९८.१०७ ॥
सपत्नीकं गुरुं रक्तवाससी परिधापयेत् ।
अन्यांश्च ऋत्विजः शक्त्या गुरुं केयूरकङ्कणैः ॥ १९८.१०८ ॥
शुक्लां गां क्षीरिणीं दद्याल्ललिता प्रीयतामिति ।
अनेन विधिना या तु कुर्यान्नारी ममालये ॥ १९८.१०९ ॥
मत्तुल्या सा भवेद्राज्ञां तेजसा श्रीरिवामला ।
सावित्रीव च सौन्दर्ये जन्मानि दश पञ्च च ॥ १९८.११० ॥

श्रीमार्कण्डेय उवाच -
एवं निशम्य वचनं गौर्या द्विजवरोत्तमः ।
नमस्कृत्य जगामाशु धर्मराज निवेशनम् ॥ १९८.१११ ॥
तदा प्रभृति तत्तीर्थं ख्यातं शूलेश्वरीति च ।
तस्मिंस्तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १९८.११२ ॥
ब्राह्मणानन्नवासोभिः पिण्डैः पितृपितामहान् ।
भक्तोपहारैर्देवेशमुमया सह शङ्करं ॥ १९८.११३ ॥
धूपगुग्गुलदानैश्च दीपदानैः सुबोधितैः ।
सर्वपापविनिर्मुक्तः स गच्छेच्छिवसन्निधिम् ॥ १९८.११४ ॥
तस्मिंस्तीर्थे तु यः कश्चिदभियुक्तो नरेश्वर ।
अम्भिशापि तथा स्नातस्त्रिदिनं मुच्यते नरः ॥ १९८.११५ ॥
कृष्णपक्षे चतुर्दश्यां रात्रौ जागर्ति यो नरः ।
उपवासपरः शुद्धः शिवं सम्पूजयेन्नरः ।
प्रमुच्य पापसंमोहं रुद्रलोकं स गच्छति ॥ १९८.११६ ॥
त्रिनेत्रश्च चतुर्बाहुः साक्षाद्रुद्रोऽपरः ।
क्रीडते देवकन्याभिर्यावच्चन्द्रार्कतारकम् ॥ १९८.११७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टनवत्युत्तरशततमोऽध्यायः ॥