स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९२

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १९२
मार्कण्डेय उवाच -
तस्यैवानन्तरं तात देवतीर्थमनुत्तमम् ।
दृष्ट्वा तु श्रीपतिं पापैर्मुच्यते मानवो भुवि ॥ १९२.१ ॥
महर्षेस्तस्य जामाता भृगोर्देवो जनार्दनः ॥ १९२.२ ॥

युधिष्ठिर उवाच -
कोऽयं श्रियः पतिर्देवो देवानामधिपो विभुः ।
कथं जन्माभवत्तस्य देवेषु त्रिषु वा मुने ॥ १९२.३ ॥
सम्बन्धी च कथं जातो भृगुणा सह केशवः ।
एतद्विस्तरतो ब्रह्मन् वक्तुमर्हसि भार्गव ॥ १९२.४ ॥

मार्कण्डेय उवाच -
संक्षेपात्कथयिष्यामि साध्यस्य चरितं महत् ।
न हि विस्तरतो वक्तुं शक्ताः सर्वे महर्षयः ॥ १९२.५ ॥
नारायणस्य नाभ्यब्जाज्जातो देवश्चतुर्मुखः ।
तस्य दक्षोऽङ्गजो राजन् दक्षिणाङ्गुष्ठसम्भवः ॥ १९२.६ ॥
धर्मः स्तनान्तात्संजातस्तस्य पुत्रोऽभवत्किल ।
नारायणसहायोऽसावजोऽपि भरतर्षभ ॥ १९२.७ ॥
मरुत्वती वसुर्ज्ञाना लम्बा भानुमती सती ।
संकल्पा च मुहूर्ता च साध्या विश्वावती ककुप् ॥ १९२.८ ॥
धर्मपत्न्यो दशैवैता दाक्षायण्यो महाप्रभाः ।
तासां साध्या महाभागा पुत्रानजनयन्नृप ॥ १९२.९ ॥
नरो नारायणश्चैव हरिः कृष्णस्तथैव च ।
विष्णोरंशांशका ह्येते चत्वारो धर्मसूनवः ॥ १९२.१० ॥
तथा नारायणनरौ गन्धमादनपर्वते ।
आत्मन्यात्मानमाधाय तेपतुः परमं तपः ॥ १९२.११ ॥
ध्यायमानावनौपम्यं स्वं कारणमकारणम् ।
वासुदेवमनिर्देश्यमप्रतर्क्यमनन्तरम् ॥ १९२.१२ ॥
योगयुक्तौ महात्मानावास्थितावुरुतापसौ ।
तयोस्तपःप्रभावेण न तताप दिवाकरः ॥ १९२.१३ ॥
ववाह शङ्कितो वायुः सुखस्पर्शो ह्यशङ्कितः ।
शिशिरोऽभवदत्यर्थं ज्वलन्नपि विभावसुः ॥ १९२.१४ ॥
सिंहव्याघ्रादयः सौम्याश्चेरुः सह मृगैर्गिरौ ।
तयोर्गौरिव भारार्ता पृथिवी पृथिवीपते ॥ १९२.१५ ॥
चेरुश्च भूधराश्चैव चुक्षुभे च महोदधिः ।
देवाश्च स्वेषु धिष्ण्येषु निष्प्रभेषु हतप्रभाः ।
बभूवुरवनीपाल परमं क्षोभमागताः ॥ १९२.१६ ॥
देवराजस्तथा शक्रः संतप्तस्तपसा तयोः ।
युयोजाप्सरसस्तत्र तयोर्विघ्नचिकीर्षया ॥ १९२.१७ ॥

इन्द्र उवाच -
रम्भे तिलोत्तमे कुब्जे घृताचि ललिते शुभे ।
प्रम्लोचे सुभ्रु सुम्लोचे सौरभेयि महोद्धते ॥ १९२.१८ ॥
अलम्बुषे मिश्रकेशि पुण्डरीके वरूथिनि ।
विलोकनीयं बिभ्राणा वपुर्मन्मथबोधनम् ॥ १९२.१९ ॥
गन्धमादनमासाद्य कुरुध्वं वचनं मम ।
नरनारायणौ तत्र तपोदीक्षान्वितौ द्विजौ ॥ १९२.२० ॥
तेपाते धर्मतनयौ तपः परमदुश्चरम् ।
तावस्माकं वरारोहाः कुर्वाणौ परमं तपः ॥ १९२.२१ ॥
कर्मातिशयदुःखार्तिप्रदावायतिनाशनौ ।
तद्गच्छत न भीः कार्या भवतीभिरिदं वचः ॥ १९२.२२ ॥
स्मरः सहायो भविता वसन्तश्च वराङ्गनाः ।
रूपं वयः समालोक्य मदनोद्दीपनं परम् ।
कन्दर्पवशमभ्येति विवशः को न मानवः ॥ १९२.२३ ॥

मार्कण्डेय उवाच -
इत्युक्त्वा देवराजेन मदनेन समं तदा ।
जग्मुरप्सरसः सर्वा वसन्तश्च महीपते ॥ १९२.२४ ॥
गन्धमादनमासाद्य पुंस्कोकिलकुलाकुलम् ।
चचार माधवो रम्यं प्रोत्फुल्लवनपादपम् ॥ १९२.२५ ॥
प्रववौ दक्षिणाशायां मलयानुगतोऽनिलः ।
भृङ्गमालारुतरवै रमणीयमभूद्वनम् ॥ १९२.२६ ॥
गन्धश्च सुरभिः सद्यो वनराजिसमुद्भवः ।
किन्नरोरगयक्षाणां बभूव घ्राणतर्पणः ॥ १९२.२७ ॥
वराङ्गनाश्च ताः सर्वा नरनारायणावृषी ।
विलोभयितुमारब्धा वागङ्गललितस्मितैः ॥ १९२.२८ ॥
जगौ मनोहरं काचिन्ननर्त तत्र चाप्सराः ।
अवादयत्तथैवान्या मनोहरतरं नृप ॥ १९२.२९ ॥
हावैर्भावैः सृतैर्हास्यैस्तथान्या वल्गुभाषितैः ।
तयोः क्षोभाय तन्वङ्ग्यश्चक्रुरुद्यममङ्गनाः ॥ १९२.३० ॥
तथापि न तयोः कश्चिन्मनसः पृथिवीपते ।
विकारोऽभवदध्यात्मपारसम्प्राप्तचेतसोः ॥ १९२.३१ ॥
निवातस्थौ यथा दीपावकम्पौ नृप तिष्ठतः ।
वासुदेवार्पणस्वस्थे तथैव मनसी तयोः ॥ १९२.३२ ॥
पूर्यमाणोऽपि चाम्भोभिर्भुवमन्यां महोदधिः ।
यथा न याति संक्षोभं तथा तन्मानसं क्वचित् ॥ १९२.३३ ॥
सर्वभूतहितं ब्रह्म वासुदेवमयं परम् ।
मन्यमानौ न रागस्य द्वेषस्य च वशंगतौ ॥ १९२.३४ ॥
स्मरोऽपि न शशाकाथ प्रवेष्टुं हृदयं तयोः ।
विद्यामयं दीपयुतमन्धकार इवालयम् ॥ १९२.३५ ॥
पुष्पोज्ज्वलांस्तरुवरान् वसन्तं दक्षिणानिलम् ।
ताश्चैवाप्सरसः सर्वाः कन्दर्पं च महामुनी ॥ १९२.३६ ॥
यच्चारब्धं तपस्ताभ्यामात्मानं गन्धमादनम् ।
ददर्शातेऽखिलं रूपं ब्रह्मणः पुरुषर्षभ ॥ १९२.३७ ॥
दाहाय नामलो वह्नेर्नापः क्लेदाय चाम्भसः ।
तद्द्रव्यमेव तद्द्रव्यविकाराय न वै यतः ॥ १९२.३८ ॥
ततो विज्ञाय विज्ञाय परं ब्रह्म स्वरूपतः ।
मधुकन्दर्पयोषित्सु विकारो नाभवत्तयोः ॥ १९२.३९ ॥
ततो गुरुतरं यत्नं वसन्तमदनौ नृप ।
चक्राते ताश्च तन्वङ्ग्यस्तत्क्षोभाय पुनःपुनः ॥ १९२.४० ॥
अथ नारायणो धैर्यं संधायोदीर्णमानसः ।
ऊरोरुत्पादयामास वराङ्गीमबलां तदा ॥ १९२.४१ ॥
त्रैलोक्यसुन्दरीरत्नमशेषमवनीपते ।
गुणैर्लाघवमभ्येति यस्याः संदर्शनादनु ॥ १९२.४२ ॥
तां विलोक्य महीपाल चकम्पे मनसानिलः ।
वसन्तो विस्मयं यातः स्मरः सस्मार किंचन ॥ १९२.४३ ॥
रम्भातिलोत्तमाद्याश्च वैलक्ष्यं देवयोषितः ।
न रेजुरवनीपाल तल्लक्ष्यहृदयेक्षणाः ॥ १९२.४४ ॥
ततः कामो वसन्तश्च पार्थिवाप्सरसश्च ताः ।
प्रणम्य भगवन्तौ तौ तुष्टुवुर्मुनिसत्तमौ ॥ १९२.४५ ॥
वसन्तकामाप्सरस ऊचुः ।
प्रसीदतु जगद्धाता यस्य देवस्य मायया ।
मोहिताः स्म विजानीमो नान्तरं विद्यते द्वयोः ॥ १९२.४६ ॥
प्रसीदतु स वां देवो यस्य रूपमिदं द्विधा ।
धामभूतस्य लोकानामनादेरप्रतिष्ठतः ॥ १९२.४७ ॥
नरनारायणौ देवौ शङ्खचक्रायुधावुभौ ।
आस्तां प्रसादसुमुखावस्माकमपराधिनाम् ॥ १९२.४८ ॥
निधानं सर्वविद्यानां सर्वपापवनानलः ।
नारायणोऽतो भगवान् सर्वपापं व्यपोहतु ॥ १९२.४९ ॥
शार्ङ्गचिह्नायुधः श्रीमानात्मज्ञानमयोऽनघः ।
नरः समस्तपापानि हतात्मा सर्वदेहिनाम् ॥ १९२.५० ॥
जटाकलापबद्धोऽयमनयोर्नः क्षमावतोः ।
सौम्यास्यदृष्टिः पापानि हन्तुं जन्मार्जितानि वै ॥ १९२.५१ ॥
तथात्मविद्यादोषेण योऽपराधः कृतो महान् ।
त्रैलोक्यवन्द्यौ यौ नाथौ विलोभयितुमागताः ॥ १९२.५२ ॥
प्रसीद देव विज्ञानधन मूढदृशामिव ।
भवन्ति सन्तः सततं स्वधर्मपरिपालकाः ॥ १९२.५३ ॥
दृष्ट्वैतन्नः समुत्पन्नं यथा स्त्रीरत्नमुत्तमम् ।
त्वयि नारायणोत्पन्ना श्रेष्ठा पारवती मतिः ॥ १९२.५४ ॥
तेन सत्येन सत्यात्मन्परमात्मन्सनातन ।
नारायण प्रसीदेश सर्वलोकपरायण ॥ १९२.५५ ॥
प्रसन्नबुद्धे शान्तात्मन्प्रसन्नवदनेक्षण ।
प्रसीद योगिनामीश नर सर्वगताच्युत ॥ १९२.५६ ॥
नमस्यामो नरं देवं तथा नारायणं हरिम् ।
नमो नराय नम्याय नमो नारायणाय च ॥ १९२.५७ ॥
प्रसन्नानामनाथानां तथा नाथवतां प्रभो ।
शं करोतु नरोऽस्माकं शं नारायण देहि नः ॥ १९२.५८ ॥

मार्कण्डेय उवाच -
एवमभ्यर्चितः स्तुत्या रागद्वेषादिवर्जितः ।
प्राहेशः सर्वभूतानां मध्ये नारायणो नृप ॥ १९२.५९ ॥

नारायण उवाच -
स्वागतं माधवे कामे भवत्वप्सरसामपि ।
यत्कार्यमागतानां च इहास्माभिस्तदुच्यताम् ॥ १९२.६० ॥
यूयं संसिद्धये नूनमस्माकं बलशत्रुणा ।
संप्रेषितास्ततोऽस्माकं नृत्ययोगादिदर्शनम् ॥ १९२.६१ ॥
न वयं गीतनृत्येन नाङ्गचेष्टादिभाषितैः ।
लुब्धा वै विषयैर्मन्ये विषया दारुणात्मकाः ॥ १९२.६२ ॥
शब्दादिसङ्गदुष्टानि यदा नाक्षाणि नः शुभाः ।
तदा नृत्यादयो भावाः कथं लोभप्रदायिनः ॥ १९२.६३ ॥
ते सिद्धाः स्म न वै साध्या भवतीनां स्मरस्य च ।
माधवस्य च शाक्रोऽपि स्वास्थ्यं यात्वविशङ्किताः ॥ १९२.६४ ॥
योऽसौ परश्च परमः पुरुषः परमेश्वरः ।
परमात्मा समस्तस्य स्थावरस्य चरस्य च ॥ १९२.६५ ॥
उत्पत्तिहेतुरेते च यस्मिन्सर्वं प्रलीयते ।
सर्वावासीति देवत्वाद्वासुदेवेत्युदाहृतः ॥ १९२.६६ ॥
वयमंशांशकास्तस्य चतुर्व्यूहस्य मानिनः ।
तदादेशितवार्त्मानौ जगद्बोधाय देहिनाम् ॥ १९२.६७ ॥
तत्सर्वभूतं सर्वेशं सर्वत्र समदर्शिनम् ।
कुतः पश्यन्तौ रागादीन्करिष्यामो विभेदिनः ॥ १९२.६८ ॥
वसन्ते मयि चेन्द्रे च भवतीषु तथा स्मरे ।
यदा स एव भूतात्मा तदा द्वेषादयः कथम् ॥ १९२.६९ ॥
तन्मयान्यविभक्तानि यदा सर्वेषु जन्तुषु ।
सर्वेश्वरेश्वरो विष्णुः कुतो रागादयस्ततः ॥ १९२.७० ॥
ब्रह्माणमिन्द्रमीशानमादित्यमरुतोऽखिलान् ।
विश्वेदेवानृषीन् साध्यान्वसून्पितृगणांस्तथा ॥ १९२.७१ ॥
यक्षराक्षसभूतादीन्नागान्सर्पान्सरीसृपान् ।
मनुष्यपक्षिगोरूपगजसिंहजलेचरान् ॥ १९२.७२ ॥
मक्षिकामशकान्दंशाञ्छलभाञ्जलजान् कृमीन् ।
गुल्मवृक्षलतावल्लीत्वक्सारतृणजातिषु ॥ १९२.७३ ॥
यच्च किंचिददृश्यं वा दृश्यं वा त्रिदशाङ्गनाः ।
मन्यध्वं जातमेकस्य तत्सर्वं परमात्मनः ॥ १९२.७४ ॥
जायमानः कथं विष्णुमात्मानं परमं च यत् ।
रागद्वेषौ तथा लोभं कः कुर्यादमराङ्गनाः ॥ १९२.७५ ॥
सर्वभूतमये विष्णौ सर्वगे सर्वधातरि ।
निपात्य तं पृथग्भूते कुतो रागादिको गुणः ॥ १९२.७६ ॥
एवमस्मासु युष्मासु सर्वभूतेषु चाबलाः ।
तन्मथैकत्वभूतेषु रागाद्यवसरः कुतः ॥ १९२.७७ ॥
सम्यग्दृष्टिरियं प्रोक्ता समस्तैक्यावलोकिनी ।
पृथग्विज्ञानमात्रैव लोकसंव्यवहारवत् ॥ १९२.७८ ॥
भूतेन्द्रियान्तः करणप्रधानपुरुषात्मकम् ।
जगद्वै ह्येतदखिलं तदा भेदः किमात्मकः ॥ १९२.७९ ॥
भवन्ति लयमायान्ति समुद्रसलिलोर्मयः ।
न वारिभेदतो भिन्नास्तथैवैक्यादिदं जगत् ॥ १९२.८० ॥
यथाग्नेरर्चिषः पीताः पिङ्गलारुणधूसराः ।
तथापि नाग्नितो भिन्नास्तथैतद्ब्रह्मणो जगत् ॥ १९२.८१ ॥
भवतीभिश्च यत्क्षोभमस्माकं स पुरंदरः ।
कारयत्यसदेतच्च विवेकाचारचेतसाम् ॥ १९२.८२ ॥
भवन्त्यः स च देवेन्द्रो लोकाश्च ससुरासुराः ।
समुद्राद्रिवनोपेता मद्देहान्तरगोचराः ॥ १९२.८३ ॥
यथेयं चारुसर्वाङ्गी भवतीनां मयाग्रतः ।
दर्शिता दर्शयिष्यामि तथा चैवाखिलं जगत् ॥ १९२.८४ ॥
प्रयातु शक्रो मा गर्वमिन्द्रत्वं कस्य सुस्थिरम् ।
यूयं च मा स्मयं यात सन्ति रूपान्विताः स्त्रियः ॥ १९२.८५ ॥
किं सुरूपं कुरूपं वा यदा भेदो न दृश्यते ।
तारतम्यं सुरूपत्वे सततं भिन्नदर्शनात् ॥ १९२.८६ ॥
भवतीनां स्मयं मत्वा रूपौदार्यगुणोद्भवम् ।
मयेयं दर्शिता तन्वी ततस्तु शममेष्यथ ॥ १९२.८७ ॥
यस्मान्मदूरोर्निष्पन्ना त्वियमिन्दीवरेक्षणा ।
उर्वशी नाम कल्याणी भविष्यति वराप्सराः ॥ १९२.८८ ॥
तदियं देवराजस्य नीयतां वरवर्णिनी ।
भवत्यस्तेन चास्माकं प्रेषिताः प्रीतिमिच्छता ॥ १९२.८९ ॥
वक्तव्यश्च सहस्राक्षो नास्माकं भोगकारणात् ।
तपश्चर्या न वाप्राप्यफलं प्राप्तुमभीप्सता ॥ १९२.९० ॥
सन्मार्गमस्य जगतो दर्शयिष्ये करोम्यहम् ।
तथा नरेण सहितो जगतः पालनोद्यतः ॥ १९२.९१ ॥
यदि कश्चित्तवाबाधां करोति त्रिदशेश्वर ।
तमहं वारयिष्यामि निवृत्तो भव वासव ॥ १९२.९२ ॥
कर्तासि चेत्त्वमाबाधां न दुष्टस्येह कस्यचित् ।
तं चापि शास्ता तदहं प्रवर्तिष्याम्यसंशयम् ॥ १९२.९३ ॥
एतज्ज्ञात्वा न सन्तापस्त्वया कार्यो हि मां प्रति ।
उपकाराय जगतामवतीर्णोऽस्मि वासव ॥ १९२.९४ ॥
या चेयमुर्वशी मत्तः समुद्भूता पुरंदर त्रेताग्निहेतुभूतेयं एवं प्राप्य भविष्यति ॥ १९२.९५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये श्रीपत्युत्पत्तिवर्णनं नाम द्विनवत्युत्तरशततमोऽध्यायः ॥