स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १९०

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १९०
श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल सोमतीर्थमनुत्तमम् ।
चन्द्रहासेति विख्यातं सर्वदैवतपूजितम् ॥ १९०.१ ॥
यत्र सिद्धिं परां प्राप्तः सोमो राजा सुरोत्तमः ॥ १९०.२ ॥

युधिष्ठिर उवाच -
कथं सिद्धिमनुप्राप्तः सोमो राजा जगत्पतिः ।
तत्सर्वं श्रोतुमिच्छामि कथयस्व ममानघ ॥ १९०.३ ॥

मार्कण्डेय उवाच -
पुरा शप्तो मुनीन्द्रेण दक्षेण किल भारत ।
असेवनाद्धि दाराणां क्षयरोगी भविष्यसि ॥ १९०.४ ॥
उद्वाहितानां पत्नीनां ये न कुर्वन्ति सेवनम् ।
या निष्ठा जायते तेषां तां शृणुष्व नरोत्तम ॥ १९०.५ ॥
ऋतुकाले तु नारीणां सेवनाज्जायते सुतः ।
सुतात्स्वर्गश्च मोक्षश्च हीत्येवं श्रुतिनोदना ॥ १९०.६ ॥
तत्कालोचितधर्मेण ये न सेवन्ति तां नराः ।
तेषां ब्रह्मघ्नजं पापं जायते नात्र संशयः ॥ १९०.७ ॥
तेन पापेन घोरेण वेष्टतो रौरवे पतेत् ।
तस्य तद्रुधिरं पापाः पिबन्ते कालमीप्सितम् ॥ १९०.८ ॥
ततोऽवतीर्णकालेन यां यां योनिं प्रयास्यति ।
तस्यां तस्यां स दुष्टात्मा दुर्भगो जायते सदा ॥ १९०.९ ॥
नारीणां तु सदा कामो ह्यधिकः परिवर्तते ।
विशेषेण ऋतोः काले भिद्यते कामसायकैः ॥ १९०.१० ॥
परिभूता हि सा भर्त्रा ध्यायतेऽन्यं पतिं ततः ।
तस्याः पुत्रः समुत्पन्नो ह्यटते कुलमुत्तमम् ॥ १९०.११ ॥
स्वर्गस्थास्तेन पितरः पूर्वं जाता महीपते ।
पतन्ति जातमात्रेण कुलटस्तेन चोच्यते ॥ १९०.१२ ॥
तेन कर्मविपाकेन क्षयरोगी शशी ह्यभूत् ।
त्यक्त्वा लोकं सुरेन्द्राणां मर्त्यलोकमुपागतः ॥ १९०.१३ ॥
तत्र तीर्थान्यनेकानि पुण्यान्यायतनानि च ।
भ्रमित्वा नर्मदां प्राप्तः सर्वपापप्रणाशिनीम् ॥ १९०.१४ ॥
उपवासस्तु दानानि व्रतानि नियमाश्च ये ।
चचार द्वादशाब्दानि ततो मुक्तः स किल्बिषैः ॥ १९०.१५ ॥
स्थापयित्वा महादेवं सर्वपातकनाशनम् ।
जगाम प्रभया पूर्णः सोमलोकमनुत्तमम् ॥ १९०.१६ ॥
येनैव स्थापितो देवः पूज्यते वर्षसंख्यया ।
तावद्युगसहस्राणि तस्य लोकं समश्नुते ॥ १९०.१७ ॥
तेन देवान् विधानोक्तान् स्थापयन्ति नरा भुवि ।
अक्षयं चाव्ययं यस्मात्फलं भवति नान्यथा ॥ १९०.१८ ॥
सोमतीर्थे तु यः स्नात्वा पूजयेद्देवमीश्वरम् ।
जायते स नरो भूत्वा सोमवित्प्रियदर्शनः ॥ १९०.१९ ॥
चन्द्रप्रभासे यो गत्वा स्नानं विधिवदाचरेत् ।
व्याधिना नाभिभूतः स्यात्क्षयरोगेण वा युतः ॥ १९०.२० ॥
चन्द्रहास्ये नरः स्नात्वा द्वादश्यां तु नरेश्वर ।
चतुर्दश्यामुपोष्यैव क्षीरस्य जुहुयाच्चरुम् ॥ १९०.२१ ॥
मन्त्रैः पञ्चभिरीशानं पुरुषस्त्र्यम्बकं यजेत् ।
हविःशेषं स्वयं प्राश्य चन्द्रहास्येशमीक्षयेत् ॥ १९०.२२ ॥
अनेन विधिना राजंस्तुष्टो देवो महेश्वरः ।
विधिना तीर्थयोगेन क्षयरोगाद्विमुच्यते ॥ १९०.२३ ॥
सप्तभिः सोमवारैर्यः स्नानं तत्र समाचरेत् ।
स वै कर्णकृताद्रोगान्मुच्यते पूजयञ्छिवम् ॥ १९०.२४ ॥
अक्षिरोगस्तथा राजंश्चन्द्रहास्ये विनश्यति ।
चन्द्रहास्ये तु यो गत्वा ग्रहणे चन्द्रसूर्ययोः ।
स्नानं समाचरेद्भक्त्या मुच्यते सर्वपातकैः ॥ १९०.२५ ॥
तत्र स्नानं च दानं च चन्द्रहास्ये शुभशुभम् ।
कृतं नृपवरश्रेष्ठ सर्वं भवति चाक्षयम् ॥ १९०.२६ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
चन्द्रहास्ये तु ये स्नात्वा पश्यन्ति ग्रहणं नराः ॥ १९०.२७ ॥
वाचिकं मानसं पापं कर्मजं यत्पुरा कृतम् ।
स्नानमात्रात्तु राजेन्द्र तत्र तीर्थे प्रणश्यति ॥ १९०.२८ ॥
बहवस्तन्न जानन्ति महामोहसमन्विताः ।
देहस्थ इव सर्वेषां परमात्मेव संस्थितम् ॥ १९०.२९ ॥
पश्चिमे सागरे गत्वा सोमतीर्थे तु यत्फलम् ।
तत्समग्रमवाप्नोति चन्द्रहास्ये न संशयः ॥ १९०.३० ॥
संक्रान्तौ च व्यतीपाते विषुवे चायने तथा ।
चन्द्रहास्ये नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥ १९०.३१ ॥
ते मूढास्ते दुराचारास्तेषां जन्म निरर्थकम् ।
चन्द्रहास्यं न जानन्ति नर्मदायां व्यवस्थितम् ॥ १९०.३२ ॥
चन्द्रहास्ये तु यः कश्चित्संन्यासं कुरुते नृप ।
अनिवर्तिका गतिस्तस्य सोमलोकात्कदाचन ॥ १९०.३३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे चन्द्रहास्यतीर्थमहात्म्यवर्णनं नाम नवत्युत्तरशततमोऽध्यायः ॥