स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८९

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १८९
श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
उदीर्णो यत्र वाराहो ह्यभवद्धरणीधरः ॥ १८९.१ ॥
धन्वदंष्ट्रां करालाग्रां बिभ्रच्च पृथिवीमिमाम् ।
स एव पञ्चमः प्रोक्तो वाराहो मुक्तिदायकः ॥ १८९.२ ॥

युधिष्ठिर उवाच -
कथमुदीर्णरूपोऽभूद्वाराहो धरणीधरः ।
वाराहत्वं गतः केन पञ्चमः केन संज्ञितः ॥ १८९.३ ॥

मार्कण्डेय उवाच -
आदिकल्पे पुरा राजन्क्षीरोदे भगवान् हरिः ।
शेते स भोगिशयने योगनिद्राविमोहितः ॥ १८९.४ ॥
बभूव नृपतिश्रेष्ठ गत्वा वै देवसंनिधौ ।
अवोचद्भारखिन्नाहं गमिष्यामि रसातलम् ॥ १८९.५ ॥
दृष्ट्वा देवाः समुद्विग्ना गता यत्र जनार्दनः ।
तुष्टुवुर्वाग्भिरिष्टाभिः केशवं जगत्पतिम् ॥ १८९.६ ॥
देवा ऊचुः ।
नमो नमस्ते देवेश सुरार्तिहर सर्वग ।
विश्वमूर्ते नमस्तुभ्यं त्राहि सर्वान्महद्भयात् ॥ १८९.७ ॥
इत्युक्तो दैवतैर्देवो ह्युवाच किमुपस्थितम् ।
कार्यं वदध्वं मे देवा यत्कृत्यं मा चिरं कृथाः ॥ १८९.८ ॥
देवा ऊचुः ।
धरा धरित्री भूतानां भारोद्विग्ना निमज्जति ।
तामुद्धर हृषीकेश लोकान्संस्थापय स्थितौ ॥ १८९.९ ॥
एवमुक्तः सुरैः सर्वैः केशवः परमेश्वरः ।
वाराहं रूपमास्थाय सर्वयज्ञमयं विभुः ॥ १८९.१० ॥
दंष्ट्राकरालं पिङ्गाक्षं समाकुञ्चितमूर्धजम् ।
कृत्वाऽनन्तं पादपीठं दंष्ट्राग्रेणोद्धरन्भुवम् ॥ १८९.११ ॥
सपर्वतवनामुर्वीं समुद्रपरिमेखलाम् ।
उद्धृत्य भगवान् विष्णुरुदीर्णः समजायत ॥ १८९.१२ ॥
दर्शयन्पञ्चधात्मानमुत्तरे नर्मदातटे ।
तथाद्यं कोरलायां तु द्वितीयं योधनीपुरे ॥ १८९.१३ ॥
जयक्षेत्राभिधाने तु जयेति परिकीर्तितम् ।
असुरान्मोहयल्लिङ्गस्तृतीयः परिकीर्तितः ॥ १८९.१४ ॥
पावनाय जगद्धेतोः स्थितो यस्माच्छशिप्रभः ।
अतस्तु नृपशार्दूल श्वेत इत्याभिधीयते ॥ १८९.१५ ॥
उद्धृत्य जगतां देवीमुदीर्णो भृगुकच्छके ।
ततः पञ्चम उदीर्णो वराह इति संज्ञितः ॥ १८९.१६ ॥
इति पञ्चवराहास्ते कथितः पाण्डुनन्दन ।
युगपद्दर्शनं चैषां ब्रह्महत्यां व्यपोहति ॥ १८९.१७ ॥
ज्येष्ठे मासि सिते पक्ष एकादश्यां विशेषतः ।
गत्वा ह्यादिवराहं तु सम्प्राप्ते दशमीदिने ॥ १८९.१८ ॥
हविष्यमन्नं भुञ्जीयाल्लघुसायं गते रवौ ।
रात्रौ जागरणं कुर्याद्वाराहे ह्यादिसंज्ञके ॥ १८९.१९ ॥
ततः प्रभाते ह्युषसि संस्नात्वा नर्मदाजले ।
संतर्प्य पितृदेवांश्च तिलैर्यवविमिश्रितैः ॥ १८९.२० ॥
धेनुं दद्याद्द्विजे योग्ये सर्वाभरणभूषिताम् ।
निर्ममो निरहङ्कारो दानं दद्याद्द्विजातये ॥ १८९.२१ ॥
गत्वा सम्पूजयेद्देवं वाराहं ह्यादिसंज्ञितम् ।
अनेन विधिना पूज्य पश्चाद्गच्छेज्जयं त्वरन् ॥ १८९.२२ ॥
त्वरितं तु जयं गत्वा पूर्वकं विधिमाचरेत् ।
अश्वं दद्याद्द्विजाग्र्याय जयपूर्वाभिनिर्गतम् ॥ १८९.२३ ॥
लिङ्गे चैव तिला देयाः श्वेते हिरण्यमेव च ।
उदीर्णे च भुवं दद्यात्पूर्वकं विधिमाचरेत् ॥ १८९.२४ ॥
अनस्तमित आदित्ये वराहान्पञ्च पश्यतः ।
यत्फलं लभते पार्थ तदिहैकमनाः शृणु ॥ १८९.२५ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
एभिस्तु सह संयोगो विश्वस्तानां च वञ्चनम् ॥ १८९.२६ ॥
स्वसृदुहितृभगिनीकुलदारोपबृंहणम् ।
आ जन्ममरणाद्यावत्पापं भरतसत्तम ॥ १८९.२७ ॥
तीर्थपञ्चकपूतस्य वैष्णवस्य विशेषतः ।
युगपच्चविनश्येत तूलराशिरिवानलात् ॥ १८९.२८ ॥
नारायणानुस्मरणाज्जपध्यानाद्विशेषतः ।
विप्रणश्यन्ति पापानि गिरिकूटसमान्यपि ॥ १८९.२९ ॥
दृष्ट्वा पञ्च वराहान्वै पौरुषे महति स्थितः ।
आप्लवन्नर्मदातोये श्राद्धं कृत्वा यथाविधि ॥ १८९.३० ॥
उदयास्तमनादर्वाग्यः पश्येल्लोटणेश्वरम् ।
कलेवरविमुक्तः स इत्येवं शङ्करोऽब्रवीत् ॥ १८९.३१ ॥
मुक्तिं प्रयाति सहसा दुष्प्रापां परमेश्वरीम् ।
पौरुषे क्रियमाणेऽपि न सिद्धिर्जायते यदि ॥ १८९.३२ ॥
ब्रुवन्ति स्वर्गगमनमपि पापान्वितस्य च ।
यत्र तत्र गतस्यैव भवेत्पञ्चवराहकी ॥ १८९.३३ ॥
ज्येष्ठस्यैकादशीतिथौ ध्रुवं तत्र वसेन्नरः ।
आदिं जयं तथा श्वेतं लिङ्गमुदीर्णमेव च ॥ १८९.३४ ॥
आश्रित्य तस्या द्रष्टव्या वराहास्तु यतस्ततः ।
ज्येष्ठस्यैकादशीतिथौ विष्णुना प्रभुविष्णुना ॥ १८९.३५ ॥
वाराहं रूपमास्थाय उद्धृता धरणी विभो ।
पुण्यात्पुण्यतमा तेन ह्यशेषाघौघनाशिनी ॥ १८९.३६ ॥
दृष्ट्वा पञ्चवराहान्वै क्रोडमुदीर्णरूपिणम् ।
पूजयित्वा विधानेन पश्चाज्जागरणं चरेत् ॥ १८९.३७ ॥
सपञ्चवर्तिकान् दीपान् घृतेनोज्ज्वाल्य भक्तितः ।
पुराणश्रवणैर्नृत्यैर्गीतवाद्यैः सुमङ्गलैः ॥ १८९.३८ ॥
वेदजाप्यैः पवित्रैश्च क्षपयित्वा च शर्वरीम् ।
यत्पुण्यं लभते मर्त्यो ह्याजमीढ शृणुष्व तत् ॥ १८९.३९ ॥
रेवाजलं पुण्यतमं पृथिव्यां तथा च देवो जगतां पतिर्हरिः ।
एकादशी पापहरा नरेन्द्र बह्वायासैर्लभ्यते मानवानाम् ॥ १८९.४० ॥
एकैकशो ब्रह्महत्यादिकानि शक्तानि हन्तुं पापसङ्घानि राजन् ।
नैते सर्वे युगपद्वै समेता हन्तुं शक्ताः किं न तद्ब्रूहि राजन् ॥ १८९.४१ ॥
यथेदमुक्तं तव धर्मसूनो श्रुतं च यच्छङ्कराच्चन्द्रमौलेः ।
श्रुत्वेदमिच्छन्मुच्यते सर्वपापैः पठन्पदं याति हि वृत्रशत्रोः ॥ १८९.४२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये उदीर्णवराहतीर्थमाहात्म्यवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥