स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८३
अध्याय १८३
श्रीमार्कण्डेय उवाच -
अतः परं महाराज गच्छेत्केदारसंज्ञकम् ।
यत्र गत्वा महाराज श्राद्धं कृत्वा पिबेज्जलम् ।
सम्पूज्य देवदेवेशं केदारोत्थं फलं लभेत् ॥ १८३.१ ॥
युधिष्ठिर उवाच -
कथमत्र सुरश्रेष्ठ केदाराख्यः स्थितः स्वयम् ।
उत्तरे नर्मदाकूले एतद्विस्तरतो वद ॥ १८३.२ ॥
श्रीमार्कण्डेय उवाच -
पुरा कृतयुगस्यादौ शङ्करस्तु महेश्वरः ।
भृगुणाराधितः शप्तः श्रिया च भृगुकच्छके ॥ १८३.३ ॥
अपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यति नृपश्रेष्ठ गतेत्युक्त्वा हरिप्रिया ॥ १८३.४ ॥
तपश्चचार विपुलं भृगुर्वर्षसहस्रकम् ।
वायुभक्षो निराहारश्चिरं धमनिसंततः ॥ १८३.५ ॥
ततः प्रत्यक्षतामागाल्लिङ्गीभूतो महेश्वरः ।
प्रादुर्भूतस्तु सहसा भित्त्वा पातालसप्तकम् ॥ १८३.६ ॥
ददर्शाथ भृगुर्देवमौत्पलीं केलिकामिव ।
स्तुतिं चक्रे स देवाय स्थाणवे त्र्यम्बकेति च ॥ १८३.७ ॥
एवं स्तुतः स भगवान् प्रोवाच प्रहसन्निव ।
पुनः पुनर्भृगुं मत्तः किंतु प्रार्थयसे मुने ॥ १८३.८ ॥
भृगुरुवाच -
पञ्चक्रोशमिदं क्षेत्रं पद्मया शापितं विभो ।
उपवित्रमिदं क्षेत्रं सर्ववेदविवर्जितम् ।
भविष्यतीति च प्रोच्य गता देवी विदं प्रति ॥ १८३.९ ॥
पुनः पवित्रतां याति यथेदं क्षेत्रमुत्तमम् ।
तथा कुरु महेशान प्रसन्नो यदि शङ्कर ॥ १८३.१० ॥
ईश्वर उवाच -
केदाराख्यमिदं ब्रह्मंल्लिङ्गमाद्यं भविष्यति ।
कृत्वेदमादिलिङ्गानि भविष्यन्ति दशैव हि ॥ १८३.११ ॥
एकादशमदृश्यं हि क्षेत्रमध्ये भविष्यति ।
पावयिष्यति तत्क्षेत्रमेकादशः स्वयं विभुः ॥ १८३.१२ ॥
तथा वै द्वादशादित्या मत्प्रसादात्तु मूर्तितः ।
वसिष्यन्ति भृगुक्षेत्रे रोगदुःखनिबर्हणाः ॥ १८३.१३ ॥
दुर्गाः ह्यष्टादश तथा क्षेत्रपालास्तु षोडश ।
भृगुक्षेत्रे भविष्यन्ति वीरभद्राश्च मातरः ॥ १८३.१४ ॥
पवित्रीकृतमेतद्धि नित्यं क्षेत्रं भविष्यति ।
नाघमासे ह्युषःकाले स्नात्वा मासं जितेन्द्रियः ॥ १८३.१५ ॥
यः पूजयति केदारं स गच्छेच्छिवमन्दिरम् ।
तस्मिंस्तीर्थे नरः स्नात्वा पित्ःनुद्दिश्य भारत ।
श्राद्धं ददाति विधिवत्तस्य प्रीताः पितामहाः ॥ १८३.१६ ॥
इति ते कथितं सम्यक्केदाराख्यं सविस्तरम् ।
सर्वपापहरं पुण्यं सर्वदुःखप्रणाशनम् ॥ १८३.१७ ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे केदारेश्वरतीर्थमाहात्म्यवर्णनं नाम त्र्यशीत्युत्तरशततमोऽध्यायः ॥