स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८१

विकिस्रोतः तः
Jump to navigation Jump to search

श्रीमार्कण्डेय उवाच -
अतः परं प्रवक्ष्यामि भृगुतीर्थस्य विस्तरम् ।
यं श्रुत्वा ब्रह्महा गोघ्नो मुच्यते सर्वपातकैः ॥ १८१.१ ॥
तत्र तीर्थे तु विख्यातं वृषखातमिति श्रुतम् ।
भृगुणा तत्र राजेन्द्र तपस्तप्तं पुरा किल ॥ १८१.२ ॥

युधिष्ठिर उवाच -
भृगुकच्छे स विप्रेन्द्रो निवसन् केन हेतुना ।
तपस्तप्त्वा सुविपुलं परां सिद्धिमुपागतः ॥ १८१.३ ॥
को वा वृष इति प्रोक्तस्तत्खातं येन खानितम् ।
एतत्सर्वं यथान्यायं कथयस्व ममानघ ॥ १८१.४ ॥

श्रीमार्कण्डेय उवाच -
एष प्रश्नो महाराज यस्त्वया परिपृच्छितः ।
तत्सर्वं कथयिष्यामि शृणुष्वैकमना नृप ॥ १८१.५ ॥
षष्ठस्तु ब्रह्मणः पुत्रो मानसो भृगुसत्तमः ।
तपश्चचार विपुलं श्रीवृते क्षेत्र उत्तमे ॥ १८१.६ ॥
दिव्यं वर्षसहस्रं तु संशुष्को मुनिसत्तमः ।
निराहारो निरानन्दः काष्ठपाषाणवत्स्थितः ॥ १८१.७ ॥
ततः कदाचिद्देवेशो विमानवरमास्थितः ।
उमया सहितः श्रीमांस्तेन मार्गेण चागतः ॥ १८१.८ ॥
दृष्ट्वा तत्र महाभागं भृगुं वल्मीकवत्स्थितम् ।
उवाच देवी देवेशं किमिदं दृश्यते प्रभो ॥ १८१.९ ॥

ईश्वर उवाच -
भृगुर्नाम महादेवि तपस्तप्त्वा सुदारुणम् ।
दिव्यं वर्षसहस्रं तु मम ध्यानपरायणः ॥ १८१.१० ॥
जलबिन्दु कुशाग्रेण मासे मासे पिबेच्च सः ।
संवत्सरशतं साग्रं तिष्ठते च वरानने ॥ १८१.११ ॥
तच्छ्रुत्वा वचनं गौरी क्रोधसंवर्तितेक्षणा ।
उवाच देवी देवेशं शूलपाणिं महेश्वरम् ॥ १८१.१२ ॥
सत्यमुग्रोऽसि लोके त्वं ख्यापितो वृषभध्वज ।
निष्कारुण्यो दुराराध्यः सर्वभूतभयंकरः ॥ १८१.१३ ॥
दिव्यं वर्षसहस्रं तु ध्यायमानस्य शङ्करम् ।
ब्राह्मणस्य वरं कस्मान्न प्रयच्छसि शंस मे ॥ १८१.१४ ॥
एवमुक्तोऽथ देवेशः प्रहस्य गिरिनन्दिनीम् ।
उवाच नरशार्दूल मेघगम्भीरया गिरा ॥ १८१.१५ ॥
स्त्री विनश्यति गर्वेण तपः क्रोधेन नश्यति ।
गावो दूरप्रचारेण शूद्रान्नेन द्विजोत्तमाः ॥ १८१.१६ ॥
क्रोधान्वितो द्विजो गौरी तेन सिद्धिर्न विद्यते ।
वर्षायुतैस्तथा लक्षैर्न किंचित्कारणं प्रिये ॥ १८१.१७ ॥
एवम्भूतस्य तस्यापि क्रोधस्य चरितं महत् ।
एवमुक्त्वा ततः शम्भुर्वृषं दध्यौ च तत्क्षणे ॥ १८१.१८ ॥
वृषो हि भगवन्ब्रह्मा वृषरूपी महेश्वरः ।
ध्यानप्राप्तः क्षणादेव गर्जयन् वै मुहुर्मुहुः ॥ १८१.१९ ॥
किं करोमि सुरश्रेष्ठ ध्यातः केनैव हेतुना ।
करोमि कस्य निधनमकाले परमेश्वर ॥ १८१.२० ॥

ईश्वर उवाच -
कोपयस्व द्विजश्रेष्ठं गत्वा त्वं भृगुसत्तमम् ।
येन मे श्रद्दधत्येषा गौरी लोकैकसुन्दरी ॥ १८१.२१ ॥
एतच्छ्रुत्वा वृषो गत्वा धर्षणार्थं द्विजोत्तमम् ।
नर्मदायास्तटे रम्ये समीपे चाश्रमे भृगुः ॥ १८१.२२ ॥
ततः शृङ्गैर्गृहीत्वा तु प्रक्षिप्तो नर्मदाजले ।
ततः क्रुद्धो भृगुस्तत्र दण्डहस्तो महामुनिः ॥ १८१.२३ ॥
पशुवत्ते वधिष्यामि दण्डघातेन मस्तके ।
शिखायज्ञोपवीते च परिधानं वरासने ॥ १८१.२४ ॥
सुसंवृतं कृतं तेन धावन्वै पृष्ठतो ब्रवीत् ॥ १८१.२५ ॥

भृगुरुवाच -
पापकर्मन्दुराचार कथं यास्यसि मे वृष ।
अवमानं समुत्पाद्य कृत्वा गर्तं खुरैस्तथा ॥ १८१.२६ ॥
गर्जयित्वा महानादं ततो विप्रमपातयत् ।
आत्मानं पातितं ज्ञात्वा वृषेण परमेष्ठिना ॥ १८१.२७ ॥
भृगुः क्रोधेन जज्वाल हुताहुतिरिवानलः ।
करे गृह्य महादण्डं ब्रह्मदण्डमिवापरम् ॥ १८१.२८ ॥
हन्तुकामो वृषं विप्रोऽभ्यधावत युधिष्ठिर ।
धावमानं ततो दृष्ट्वा स वृषः पूर्वसागरे ॥ १८१.२९ ॥
जम्बूद्वीपं कुशां क्रौञ्चं शाल्मलिं शाकमेव च ।
गोमेदं पुष्करं प्राप्तः पूर्वतो दक्षिणापथम् ॥ १८१.३० ॥
उत्तरं पश्चिमं चैव द्वीपाद्द्वीपं नरेश्वर ।
पातालं सुतलं पश्चाद्वितलं च तलातलम् ॥ १८१.३१ ॥
तामिस्रमन्धतामिस्रं पातालं सप्तमं ययौ ।
ततो जगाम भूर्लोकं प्राणार्थी स वृषोत्तमः ॥ १८१.३२ ॥
भुवः स्वश्चैव च महस्तपः सत्यं जनस्तथा ।
अनुगम्यमानो विप्रेण न शर्म लभते क्वचित् ॥ १८१.३३ ॥
पापं कृत्वैव पुरुषः कामक्रोधबलार्दितः ।
ततो जगाम शरणं ब्रह्माणं विष्णुमेव च ॥ १८१.३४ ॥
इन्द्रं चन्द्रं तथादित्यैर्याम्यवारुणमारुतैः ।
यदा सर्वैः परित्यक्तो लोकालोकैः सुरेश्वरैः ॥ १८१.३५ ॥
तदा देवं नमस्कृत्वा रक्ष रक्षस्व चाब्रवीत् ।
वध्यमानं महादेवो भृगुणा परमेष्ठिना ॥ १८१.३६ ॥
सर्वलोकैः परित्यक्तमनाथमिव तं प्रभो ।
दृष्ट्वा श्रान्तं वृषं देवः पतितं चरणाग्रतः ॥ १८१.३७ ॥
ततः प्रोवाच भगवान् स्मितपूर्वमिदं वचः ॥ १८१.३८ ॥

ईश्वर उवाच -
पश्य देवि महाभागे शमं विप्रस्य सुन्दरि ॥ १८१.३९ ॥

पार्वत्युवाच -
यावद्विप्रो न चास्माकं कुप्यते परमेश्वर ।
तावद्वरं प्रयच्छाशु यदि चेच्छसि मत्प्रियम् ॥ १८१.४० ॥
ततो भस्मी जटी शूली चन्द्रार्धकृतशेखरः ।
उमार्द्धदेहो भगवान्भूत्वा विप्रमुवाच ह ॥ १८१.४१ ॥
भोभो द्विजवरश्रेष्ठ क्रोधस्ते न शमं गतः ।
यस्मात्तस्मादिदं तात क्रोधस्थानं भविष्यति ॥ १८१.४२ ॥
ततो दृष्ट्वा च तं शम्भुं भृगुः श्रेष्ठं त्रिलोचनम् ।
जानुभ्यामवनिं गत्वा इदं स्तोत्रमुदैरयत् ॥ १८१.४३ ॥

भृगुरुवाच -
प्रणिपत्य भूतनाथं भवोद्भवं भूतिदं भयातीतम् ।
भवभीतो भुवनपते विज्ञप्तुं किंचिदिच्छामि ॥ १८१.४४ ॥
त्वद्गुणनिकरान्वक्तुं का शक्तिर्मानुषस्यास्य ।
वासुकिरपि न तावद्वक्तुं वदनसहस्रं भवेद्यस्य ॥ १८१.४५ ॥
भक्त्या तथापि शङ्कर शशिधर करजालधवलिताशेष ।
स्तुतिमुखरस्य महेश्वर प्रसीद तव चरणनिरतस्य ॥ १८१.४६ ॥
सत्त्वं रजस्तमस्त्वं स्थित्युत्पत्तिविनाशनं देव ।
भवभीतो भुवनपते भुवनेश शरणनिरतस्य ॥ १८१.४७ ॥
यमनियमयज्ञदानं वेदाभ्यासश्च धारणायोगः ।
त्वद्भक्तेः सर्वमिदं नार्हन्ति वै कलासहस्रांशम् ॥ १८१.४८ ॥
उत्कृष्टरसरसायनखड्गां जनविवरपादुकासिद्धिः ।
चिह्नं हि तव नतानां दृश्यत इह जन्मनि प्रकटम् ॥ १८१.४९ ॥
शाठ्येन यदि प्रणमति वितरसि तस्यापि भूतिमिच्छया देव ।
भवति भवच्छेदकरी भक्तिर्मोक्षाय निर्मिता नाथ ॥ १८१.५० ॥
परदारपरस्वरतं परपरिभवदुःखशोकसंतप्तम् ।
परवदनवीक्षणपरं परमेश्वर मां परित्राहि ॥ १८१.५१ ॥
अधिकाभिमानमुदितं क्षणभङ्गुरविभवविलसन्तम् ।
क्रूरं कुपथाभिमुखं शङ्कर शरणागतं परित्राहि ॥ १८१.५२ ॥
दीनं द्विजं वरार्थे बन्धुजने नैव पूरिता ह्याशा ।
छिन्द्धि महेश्वर तृष्णां किं मूढं मां विडम्बयसि ॥ १८१.५३ ॥
तृष्णां हरस्व शीघ्रं लक्ष्मीं दद हृदयवासिनीं नित्यम् ।
छिन्द्धि मदमोहपाशं मामुत्तारय भवाच्च देवेश ॥ १८१.५४ ॥
करुणाभ्युदयं नाम स्तोत्रमिदं सर्वसिद्धिदं दिव्यम् ।
यः पठति भृगुं स्मरति च शिवलोकमसौ प्रयाति देहान्ते ॥ १८१.५५ ॥
एतच्छ्रुत्वा महादेवः स्तोत्रं च भृगुभाषितम् ।
उवाच वरदोऽस्मीति देव्या सह वरोत्तमम् ॥ १८१.५६ ॥

भृगुरुवाच -
प्रसन्नो देवदेवेश यदि देयो वरो मम ।
सिद्धिक्षेत्रमिदं सर्वं भविता मम नामतः ॥ १८१.५७ ॥
भवद्भिः सन्निधानेन स्थातव्यं हि सहोमया ।
देवक्षेत्रमिदं पुण्यं येन सर्वं भविष्यति ॥ १८१.५८ ॥
अत्र स्थाने महास्थानं करोमि जगदीश्वर ।
तव प्रसादाद्देवेश पूर्यन्तां मे मनोरथाः ॥ १८१.५९ ॥

ईश्वर उवाच -
श्रिया कृतमिदं पूर्वं किं न ज्ञातं त्वया द्विज ।
अनुमान्य श्रियं देवीं यदीयं मन्यते भवान् ॥ १८१.६० ॥
कुरुष्व यदभिप्रेतं त्वत्कृतं नः तदन्यथा ।
एवमुक्त्वा गते देवे स्नात्वा गत्वा भृगुः श्रियम् ॥ १८१.६१ ॥
कृत्वा च पारणं तत्र वसन्विप्रस्तया सह ।
श्रिया च सहितः काल इदं वचनमब्रवीत् ॥ १८१.६२ ॥

भृगुरुवाच -
यदि ते रोचते भद्रे दुःखासीनं च ते यदि ।
त्वया वृते महाक्षेत्रे स्वीयं स्थानं करोम्यहम् ॥ १८१.६३ ॥

श्रीरुवाच -
मम नाम्ना तु विप्रर्षे तव नाम्ना तु शोभनम् ।
स्थानं कुरुष्वाभिप्रेतमविरोधेन मे मतिः ॥ १८१.६४ ॥

भृगुरुवाच -
कच्छपाधिष्ठितं ह्येतत्तस्य पृष्ठिगतं रमे ।
संमन्त्र्य सहितं तेन शोभनं भवती कुरु ॥ १८१.६५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भृगुकच्छोत्पत्तिवर्णनं नामैकाशीत्युत्तरशततमोऽध्यायः ॥