स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७९

विकिस्रोतः तः

अध्याय १७९

मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र गौतमेश्वरमुत्तमम् ।
सर्वपापहरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ १७९.१ ॥
गौतमेन तपस्तप्तं तत्र तीर्थे युधिष्ठिर ।
दिव्यं वर्षसहस्रं तु ततस्तुष्टो महेश्वरः ॥ १७९.२ ॥
प्रणम्य शिरसा तत्र स्थापितः परमेश्वरः ।
स्थापितो गौतमेनेशो गौतमेश्वर उच्यते ॥ १७९.३ ॥
तत्र देवैश्च गन्धर्वैरृषिभिः पितृदैवतैः ।
सम्प्राप्ता ह्युत्तमा सिद्धिराराध्य परमेश्वरम् ॥ १७९.४ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.५ ॥
बहवस्तन्न जानन्ति विष्णुमायाविमोहिताः ।
तत्र संनिहितं देवं शूलपाणिं महेश्वरम् ॥ १७९.६ ॥
ब्रह्मचारी तु यो भूत्वा तत्र तीर्थे नरेश्वर ।
स्नात्वार्चयेन्महादेवं सोऽश्वमेधफलं लभेत् ॥ १७९.७ ॥
ब्रह्मचारी तु यो भूत्वा तर्पयेत्पितृदेवताः ।
पूजयेत्परमीशानं सर्वपापैः प्रमुच्यते ॥ १७९.८ ॥
तत्र तीर्थे तु यो दानं भक्त्या दद्याद्द्विजातये ।
तदक्षयफलं सर्वं नात्र कार्या विचारणा ॥ १७९.९ ॥
मासे चाश्वयुजे राजन् कृष्णपक्षे चतुर्दशीम् ।
स्नात्वा तत्र विधानेन दीपकानां शतं ददेत् ॥ १७९.१० ॥
पूजयित्वा महादेवं गन्धपुष्पादिभिर्नरः ।
मुच्यते सर्वपापेभ्यो मृतः शिवपुरं व्रजेत् ॥ १७९.११ ॥
अष्टम्यां च चतुर्दश्यां कार्त्तिक्यां तु विशेषतः ।
उपोष्य प्रयतो भूत्वा घृतेन स्नापयेच्छिवम् ॥ १७९.१२ ॥
पञ्चगव्येन मधुना दध्ना वा शीतवारिणा ।
स च सर्वस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १७९.१३ ॥
भक्त्या तु पूजयेत्पश्चात्स लभेत्फलमुत्तमम् ।
बिल्वपत्रैरखण्डैश्च पुष्पैरुन्मत्तकोद्भवैः ॥ १७९.१४ ॥
कुशापामार्गसहितैः कदम्बद्रोणजैरपि ।
मल्लिकाकरवीरैश्च रक्तपीतैः सितासितैः ॥ १७९.१५ ॥
पुष्पैरन्यैर्यथालाभं यो नरः पूजयेच्छिवम् ।
नैरन्तर्येण षण्मासं योऽर्चयेद्गौतमेश्वरम् ।
सर्वान्कामानवाप्नोति मृतः शिवपुरं व्रजेत् ॥ १७९.१६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम एकोनाशीत्यधिकशततमोऽध्यायः ॥