स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १७१
अध्याय १७१
श्रीमार्कण्डेय उवाच -
कथितं ब्राह्मणं द्रष्टुं शूले क्षिप्तं तपोधनैः ।
नारायणसमीपे तु गताः सर्वे महर्षयः ॥ १७१.१ ॥
नारदो देवलो रैभ्यो यमः शातातपोऽङ्गिराः ।
वसिष्ठो जमदग्निश्च याज्ञवल्क्यो बृहस्पतिः ॥ १७१.२ ॥
कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽरुणिर्मुनिः ।
वालखिल्यादयोऽन्ये च सर्वेऽप्यृषिगणान्वयाः ॥ १७१.३ ॥
ददृशुः शूलमारूढं माण्डव्यमृषिपुंगवाः ।
प्रोचुर्नारायणं विप्रं किं कुर्मस्तव चेप्सितम् ॥ १७१.४ ॥
सर्वे ते तत्र सांनिध्यान्माण्डव्यस्य महात्मनः ।
संभ्रान्ता आगता ऊचुः किं मृतः किं नु जीवति ॥ १७१.५ ॥
अवस्थां तस्य ते दृष्ट्वा विषादमगमन्परम् ।
असहित्वा तु तद्दुःखं सर्वे ते मनसा द्विजाः ॥ १७१.६ ॥
पृच्छयतां यदि मन्येत राजानं भस्मसात्कुरु ।
तेषां तद्वचनं श्रुत्वा वाक्यं नारायणोऽब्रवीत् ॥ १७१.७ ॥
मयि जीवति मद्भ्राता ह्यवस्थामीदृशीं गतः ।
धिग्जीवितं च मे किंतु तपसो विद्यते फलम् ॥ १७१.८ ॥
दृष्ट्वा शूलस्थितं ज्येष्ठं मन्मनो नु विदीर्यते ।
परं किं तु करिष्यामि येन राष्ट्रं सराजकम् ॥ १७१.९ ॥
भस्मसाच्च करोम्यद्य भवद्भिः क्षम्यतामिह ।
एवमुक्त्वा गृहीत्वासौ करस्थमभिमन्त्रयेत् ॥ १७१.१० ॥
क्रोधेन पश्यते यावत्तावद्धुंकारकोऽभवत् ।
तेन हुङ्कारशब्देन ऋषयो विस्मितास्तदा ॥ १७१.११ ॥
माण्डव्यस्य समीपे तु ह्यपृच्छंस्ते द्विजोत्तमाः ।
निवारयसि किं विप्र शापं नृपजिघांसनम् ॥ १७१.१२ ॥
अपापस्य तु येनेह कृतमस्य जिघांसनम् ।
ऋषीणां वचनं श्रुत्वा कृच्छ्रान्माण्डव्यकोऽब्रवीत् ॥ १७१.१३ ॥
अभिवन्दामि वो मूर्ध्ना स्वागतं ऋषयः सदा ।
अर्घ्यसन्मानपूजार्हाः सर्वेऽत्रोपविशन्तु ते ॥ १७१.१४ ॥
निविष्टैकाग्रमनसा सर्वान्माण्डव्यकोऽब्रवीत् ॥ १७१.१५ ॥
प्राप्तं दुःखं मया घोरं पूर्वजन्मार्जितं फलम् ।
मा विषादं कुरुध्वं भोः कृतं पापं तु भुज्यते ॥ १७१.१६ ॥
ऋषय ऊचुः ।
केन कर्मविपाकेन इह जात्यन्तरं व्रजेत् ।
दानधर्मफलेनैव केन स्वर्गं च गच्छति ॥ १७१.१७ ॥
माण्डव्य उवाच -
अदत्तदाना जायन्ते परभाग्योपजीविनः ।
न स्नानं न जपो होमो नातिथ्यं न सुरार्चनम् ॥ १७१.१८ ॥
न पर्वणि पितृश्राद्धं न दानं द्विजसत्तमाः ।
व्रजन्ति नरके घोरे यान्ति ते त्वन्त्यजां गतिम् ॥ १७१.१९ ॥
पुनर्दरिद्राः पुनरेव पापाः पापप्रभावान्नरके वसन्ति ।
तेनैव संसरिणि मर्त्यलोके जीवादिभूते कृमयः पतङ्गाः ॥ १७१.२० ॥
ये स्नानशीला द्विजदेवभक्ता जितेन्द्रिया जीवदयानुशीलाः ।
ते देवलोकेषु वसन्ति हृष्टा ये धर्मशीला जितमानरोषाः ॥ १७१.२१ ॥
विद्याविनीता न परोपतापिनः स्वदारतुष्टाः परदारवर्जिताः ।
तेषां न लोके भयमस्ति किंचित्स्वभावशुद्धा गतकल्मषा हि ते ॥ १७१.२२ ॥
ऋषय ऊचुः ।
पूर्वजन्मनि विप्रेन्द्र किं त्वया दुष्कृतं कृतम् ।
येन कष्टमिदं प्राप्तं सन्धानं शूलगर्हितम् ॥ १७१.२३ ॥
शूलस्थं त्वां समालक्ष्य ह्यागताः सर्व एव हि ।
जीवन्तं त्वां प्रपश्याम त्वन्तरन्नवतारयन् ।
रुजासंतापजं दुःखं सोढ्वापि त्वमवेदनः ॥ १७१.२४ ॥
माण्डव्य उवाच -
स्वयमेव कृतं कर्म स्वयमेवोपभुज्यते ।
सुकृतं दुष्कृतं पूर्वे नान्ये भुञ्जन्ति कर्हिचित् ॥ १७१.२५ ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
तथा पूर्वकृतं कर्म कर्तारमुपगच्छति ॥ १७१.२६ ॥
न माता न पिता भ्राता न भार्या न सुताः सुहृत् ।
न कस्य कर्मणां लेपः स्वयमेवोपभुज्यते ॥ १७१.२७ ॥
श्रूयतां मम वाक्यं च भवद्भिः पृच्छितो ह्यहम् ।
पूर्वे वयसि भो विप्रा मलस्नानकृतक्षणः ॥ १७१.२८ ॥
अज्ञानाद्बालभावेन यूका कण्टेऽधिरोपिता ।
तैलाभ्यक्तशिरोगात्रे मया यूका घृता न हि ॥ १७१.२९ ॥
कङ्कतीं रोप्य केशेषु सासा कण्टेऽधिरोपिता ।
तेषु पापं कृतं सद्यः फलमेतन्ममाभवत् ॥ १७१.३० ॥
किंचित्कालं क्षपित्वाहं प्राप्स्ये मोक्षं निरामयम् ।
भवन्तस्त्विह सन्तापं मां कुरुध्वं महर्षयः ॥ १७१.३१ ॥
इमामवस्थां भुक्त्वाहं कंचिच्छपे न चोच्चरे ।
अहनि कतिचिच्छूले क्षपयिष्यामि किल्बिषम् ॥ १७१.३२ ॥
प्राक्तनं कर्म भुञ्जामि यन्मया संचितं द्विजाः ।
क्षन्तव्यमस्य राज्ञोऽथ कोपश्चैव विसर्ज्यताम् ॥ १७१.३३ ॥
श्रुत्वा तु तस्य तद्वाक्यं माण्डव्यस्य महर्षयः ।
प्रहर्षमतुलं लब्ध्वा साधु साध्वित्यपूजयन् ॥ १७१.३४ ॥
नारायण उवाच -
इदं जलं मन्त्रपूतं कस्मिन्स्थाने क्षिपाम्यहम् ।
येन राजा भवेद्भस्म सराष्ट्रः सपुरोहितः ॥ १७१.३५ ॥
माण्डव्य उवाच -
इदं जलं च रक्षस्व कालकूटविषोपमम् ।
समुद्रे क्षिपयिष्यामि देवकार्यं समुत्थितम् ॥ १७१.३६ ॥
अथ ते मुनयः सर्वे माण्डव्यं प्रणिपत्य च ।
आमन्त्रयित्वा हर्षाच्च कश्यपाद्या गृहान्ययुः ॥ १७१.३७ ॥
गच्छमानास्तु ते चोक्ताः पञ्चमेऽहनि तापसाः ।
आगन्तव्यं भवद्भिश्च मत्सकाशं प्रतिज्ञया ॥ १७१.३८ ॥
तथेति ते प्रतिज्ञाय नारदाद्या अदर्शनम् ।
गतेषु विप्रमुख्येषु शाण्डिली च तपोधना ॥ १७१.३९ ॥
द्वितीयेऽह्नि समायाता न तु बुद्ध्वाथ तं ऋषिम् ।
भर्तारं शिरसा धार्य रात्रौ पर्यटते स्म सा ॥ १७१.४० ॥
न दृष्टः शूलके विप्रो भराक्रान्त्या युधिष्ठिर ।
स्खलिता तस्य जानुभ्यां शूलस्थस्य पतिव्रता ॥ १७१.४१ ॥
सर्वाङ्गेषु व्यथा जाता तस्याः प्रस्खलनान्मुनेः ।
ईदृशीं वर्तमानां च ह्यवस्थां पूर्वदैविकीम् ॥ १७१.४२ ॥
पुनः पापफलं किंचिद्धा कष्टं मम वर्तते ।
व्यथितोऽहं त्वया पापे किमर्थं सूनकर्मणि ॥ १७१.४३ ॥
स्वैरिणीं त्वां प्रपश्यामि राक्षसी तस्करी नु किम् ।
एवमुक्त्वा क्षणं मोहात्क्रन्दमानो मुहुर्मुहुः ॥ १७१.४४ ॥
तपस्विनोऽथ ऋषयः सर्वे संत्रस्तमानसाः ।
पश्यमाना मुनेः कष्टं पृच्छन्ते ते युधिष्ठिर ॥ १७१.४५ ॥
पर्यटसे किमर्थं त्वं निशीये वहनं नु किम् ।
क्षिप्तं तु झोलिकाभारं किंवागमनकारणम् ।
व्यथामुत्पाद्य ऋषये दुःखाद्दुःखविलासिनि ॥ १७१.४६ ॥
शाण्डिल्युवाच -
नासुरीं न च गन्धर्वीं न पिशाचीं न राक्षसीम् ।
पतिव्रतां तु मां सर्वे जानन्तु तपसि स्थिताम् ॥ १७१.४७ ॥
न मे कामो न मे क्रोधो न वैरं न च मत्सरः ।
अज्ञानाद्दृष्टिमान्द्याच्च स्खलनं क्षन्तुमर्हथ ॥ १७१.४८ ॥
वहनं भर्तृसौख्याय दिवा सम्पीड्यते रुजा ।
अयं भर्ता विजानीथ झोलिकासंस्थितः सदा ॥ १७१.४९ ॥
भरणं पानं वस्त्रं च ददाम्येतस्य रोगिणः ।
ऋषिः शौनकमुख्योऽसौ शाण्डिलीं मां विजानत ॥ १७१.५० ॥
स्वभर्तृधर्मिणीं कोपं मा कुरुष्वातिथिं कुरु ।
सतां समीपं सम्प्राप्तां सर्वं मे क्षन्तुमर्हथ ॥ १७१.५१ ॥
ऋषय ऊचुः ।
परव्यथां न जानीषे व्यचरन्ती यदृच्छया ।
प्रभातेऽभ्युदिते सूर्ये तव भर्ता मरिष्यति ॥ १७१.५२ ॥
आत्मदुःखात्परं दुःखं न जानासि कुलाधमे ।
तेन वाक्येन घोरेण शाण्डिली विमनाभवत् ॥ १७१.५३ ॥
परं विषादमापन्ना क्षणं ध्यात्वाब्रवीद्वचः ।
कोपात्संरक्तनयना निरीक्षन्ती मुनींस्तदा ॥ १७१.५४ ॥
सतां गेहे किल प्राप्ता भवतां चापकारिणी ।
सामेनातिथिपूजायां शिष्टे च गृहमागते ॥ १७१.५५ ॥
भवद्भिरीदृगातिथ्यं कृतं चैव ममैव तु ।
स्वर्गापवर्गधर्मश्च भवद्भिर्न निरीक्षितम् ॥ १७१.५६ ॥
प्राजापत्यामिमां दृष्ट्वा मां यथा प्राकृताः स्त्रियः ।
भवन्तः स्त्रीबलं मेऽद्य पश्यन्तु दिवि देवताः ॥ १७१.५७ ॥
मरिष्यति न मे भर्ता ह्यादित्यो नोदयिष्यति ।
अन्धकारं जगत्सर्वं क्षीयते नाद्य शर्वरी ॥ १७१.५८ ॥
एवमुक्ते तया वाक्ये स्तम्भितेऽर्के तमोमयम् ।
न च प्रजायते सर्वं निर्वषट्कारसत्क्रियम् ॥ १७१.५९ ॥
स्वाहाकारः स्वधाकारः पञ्चयज्ञविधिर्नहि ।
स्नानं दानं जपो नास्ति सन्ध्यालोपव्यतिक्रमः ।
षण्मासं च तदा पार्थ लुप्तपिण्डोदकक्रियम् ॥ १७१.६० ॥
॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शाण्डिलीऋषिसंवादवर्णनं नामैकसप्तत्युत्तरशततमोऽध्यायः ॥