स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६९

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


अध्याय १६९

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्परं तीर्थं पुण्यं पापप्रणाशनम् ।
माण्डव्यो यत्र संसिद्ध ऋषिर्नारायणस्तथा ॥ १६९.१ ॥
नारायणेन शुश्रूषा शूलस्थेन कृता पुरा ।
तत्र स्नात्वा महाराज मुच्यते पापकञ्चुकात् ॥ १६९.२ ॥

युधिष्ठिर उवाच -
आश्चर्यमेतल्लोकेषु यत्त्वया कथितं मुने ।
न दृष्टं न श्रुतं तात शूलस्थेन तपः कृतम् ॥ १६९.३ ॥
एतत्सर्वं कथय मे ऋषिभिः सहितस्य वै ।
अस्य तीर्थस्य माहात्म्यं माण्डव्यस्य कुतूहलात् ॥ १६९.४ ॥

श्रीमार्कण्डेय उवाच -
शृणु राजन्यथावृत्तपुरा त्रेतायुगे क्षितौ ।
लोकपालोपमो राजा देवपन्नो महामतिः ॥ १६९.५ ॥
धर्मज्ञश्च कृतज्ञश्च यज्वा दानरतः सदा ।
प्रजा ररक्ष यत्नेन पिता पुत्रानिवौरसान् ॥ १६९.६ ॥
दात्यायनी प्रिया भार्या तस्य राज्ञो वशानुगा ।
हारनूपुरघोषेण झङ्काररवनादिता ॥ १६९.७ ॥
परस्परं तयोः प्रीतिर्वर्धतेऽनुदिनं नृप ।
वंशस्तम्बे स्थितो राजा संशास्ति पृथिवीमिमाम् ॥ १६९.८ ॥
हस्त्यश्वरथसम्पूर्णां धनवाहनसंयुताम् ।
अलंकृतो गुणैः सर्वैरनपत्यो महीपतिः ॥ १६९.९ ॥
दुःखेन महताविष्टः संतप्तः सन्ततिं विना ।
स्नानहोमरतो नित्यं द्वादशाब्दानि भारत ॥ १६९.१० ॥
व्रतोपवासनियमैः पत्नीभिः सह तस्थिवान् ।
आराधयद्भगवतीं चामुण्डां मुण्डमर्दिनीम् ॥ १६९.११ ॥
स्तोत्रैरनेकैर्भक्त्या च पूजाविधिसमाधिना ।
जय वाराहि चामुण्डे जय देवि त्रिलोचने ॥ १६९.१२ ॥
ब्राह्मि रौद्रि च कौमारि कात्यायनि नमोऽस्तु ते ।
प्रचण्डे भैरवे रौद्रि योगिन्याकाशगामिनि ॥ १६९.१३ ॥
नास्ति किंचित्त्वया हीनं त्रैलोक्ये सचराचरे ।
राज्ञा स्तुता च संतुष्टा देवी वचनमब्रवीत् ॥ १६९.१४ ॥
वरयस्व यथाकामं यस्ते मनसि वर्तते ।
आराधिता त्वया भक्त्या तुष्टा दास्यामि ते वरम् ॥ १६९.१५ ॥

देवपन्न उवाच -
यदि तुष्टासि देवेशि वरार्हो यदि वाप्यहम् ।
पुत्रसन्तानरहितं संतप्तं मां समुद्धर ॥ १६९.१६ ॥
सन्तानं नय मे वृद्धिं गोत्ररक्षां कुरुष्व मे ।
अपुत्रिणां गृहाणीह श्मशानसदृशानि हि ॥ १६९.१७ ॥
पितरस्तस्य नाश्नन्ति देवता ऋषिभिः सह ।
क्रियमाणेऽप्यहरहः श्राद्धे मत्पितरः सदा ॥ १६९.१८ ॥
दर्शयन्ति सदात्मानं स्वप्ने क्षुत्पीडितं मम ।
इति राज्ञो वचः श्रुत्वा देवी ध्यानमुपागता ॥ १६९.१९ ॥
दिव्येन चक्षुषा दृष्टं त्रैलोक्यं सचराचरम् ।
प्रसन्नवदना देवी राजानमिदमब्रवीत् ॥ १६९.२० ॥
सन्तानं नास्ति ते राजंस्त्रैलोक्ये सचराचरे ।
यजस्व यज्ञपुरुषमपत्यं नास्ति तेऽन्यथा ॥ १६९.२१ ॥
मया दृष्टं महीपाल त्रैलोक्यं दिव्यचक्षुषा ।
एवमुक्त्वा गता देवी राजा स्वगृहमागमत् ॥ १६९.२२ ॥
इयाज यज्ञपुरुषं संजाता कन्यका ततः ।
तेजस्विनी रूपवती सर्वलोकमनोहरा ॥ १६९.२३ ॥
देवगन्धर्वलोकेऽपि तादृशी नास्ति कामिनी ।
तस्या नाम कृतं पित्रा हर्षात्कामप्रमोदिनी ॥ १६९.२४ ॥
ततः कालेन ववृधे रूपेणास्तम्भयज्जगत् ।
हंसलीलागतिः सुभ्रूः स्तनभारावनामिता ॥ १६९.२५ ॥
रक्तमाल्याम्बरधरा कुण्डलाभरणोज्ज्वला ।
दिव्यानुलेपनवती सखीभिः सा सुरक्षिता ॥ १६९.२६ ॥
कुचमध्यगतो हारो विद्युन्मालेव राजते ।
भ्रमराञ्चितकेशी सा बिम्बोष्ठी चारुहासिनी ॥ १६९.२७ ॥
कर्णान्तप्राप्तनेत्राभ्यां पिबन्तीवाथ कामिनः ।
चन्द्रताम्बूलसौरभ्यैराकर्षन्तीव मन्मथम् ॥ १६९.२८ ॥
कम्बुग्रीवा चारुमध्या ताम्रपादाङ्गुलीनखा ।
निम्ननाभिः सुजघना रम्भोरू सुदती शुभा ॥ १६९.२९ ॥
मातापितृसुहृद्वर्गे क्रीडानन्दविवर्धिनी ।
एकस्मिन्दिवसे बाला सखीवृन्दसमन्विता ॥ १६९.३० ॥
चन्दनागरुतांबूलधूपसौमनसाञ्चिता ।
गृहीत्वा पुष्पधूपादि गता देवीप्रपूजने ॥ १६९.३१ ॥
तडागतट उत्सृज्य भूषणान्यङ्गवेष्टकान् ।
चक्रुः सरसिताः क्रीडां जलमध्यगतास्तदा ॥ १६९.३२ ॥
क्रीडन्तीं तामवेक्ष्याथ ससखीं विमले जले ।
राक्षसः शम्बरो नाम श्येनरूपेण चागमत् ॥ १६९.३३ ॥
गृहीता जलमध्यस्था तेन सा काममोदिनी ।
खमुत्पपात दुष्टात्मा गृहीत्वाभरणान्यपि ॥ १६९.३४ ॥
वायुमार्गं गतः सोऽथ कामिन्या सह भारत ।
अपतन्कुण्डलादीनि यत्र तोये महामुनिः ॥ १६९.३५ ॥
माण्डव्यो नर्मदातीरे काष्ठवत्संजितेन्द्रियः ।
लीनो माहेश्वरे स्थाने नारायणपदे परे ॥ १६९.३६ ॥
तस्य चानुचरो भ्राता भ्रातुः शुश्रूषणे रतः ।
तपोजपकृशीभूतो दध्यौ देवं जनार्दनम् ॥ १६९.३७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे काममोदिनीहरणवर्णनं नामैकोनसप्तत्यधिशततमोऽध्यायः ॥