स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६८

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १६८

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे रोधस्यङ्कूरेश्वरमुत्तमम् ।
तीर्थं सर्वगुणोपेतं त्रिषु लोकेषु विश्रुतम् ॥ १६८.१ ॥
यत्र सिद्धं महारक्ष आराध्य तु महेश्वरम् ।
शङ्करं जगतः प्राणं स्मृतिमात्रावहारिणम् ॥ १६८.२ ॥

युधिष्ठिर उवाच -
किं तद्रक्षो द्विजश्रेष्ठ किंनाम कस्य वान्वये ।
एतद्विस्तरतः सर्वं कथयस्व ममानघ ॥ १६८.३ ॥
अज्ञानतिमिरान्धा ये पुमांसः पापकारिणः ।
युष्मद्विधैर्दीपभूतैः पश्यन्ति सचराचरम् ॥ १६८.४ ॥
धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
स्मितं कृत्वा बभाषे तां कथां पापप्रणाशनीम् ॥ १६८.५ ॥

मार्कण्डेय उवाच -
मानसो ब्रह्मणः पुत्रः पुलस्त्यो नाम पार्थिव ।
वेदशास्त्रप्रवक्ता च साक्षाद्वेधा इवापरः ॥ १६८.६ ॥
तृणबिन्दुसुता तस्य भार्यासीत्परमेष्ठिनः ।
तस्य धर्मप्रसङ्गेन पुत्रो जातो महामनाः ॥ १६८.७ ॥
यस्माद्वेदेतिहासैश्च सषडङ्गपदक्रमाः ।
विश्रान्ता ब्रह्मणा दत्ता नाम विश्रवसेति च ॥ १६८.८ ॥
कस्मिंश्चिदथ काले च भरद्वाजो महामुनिः ।
स्वसुतां प्रददौ राजन्मुदा विश्रवसे नृप ॥ १६८.९ ॥
स तया रमते सार्धं पौलोम्या मघवा इव ।
मुदा परमया राजन्ब्राह्मणो वेदवित्तमः ॥ १६८.१० ॥
केनचित्त्वथ कालेन पुत्रः पुत्रगुणैर्युतः ।
जज्ञे विश्रवसो राजन्नाम्ना वैश्रवणः श्रुतः ॥ १६८.११ ॥
सोऽपि मौनव्रतं कृत्वा बालभावाद्युधिष्ठिर ।
सर्वभूताभयं दत्त्वा चचार परमं व्रतम् ॥ १६८.१२ ॥
तस्य तुष्टो महादेवो ब्रह्मा ब्रह्मर्षिभिः सह ।
सखित्वं चेश्वरो दत्त्वा धनदत्वं जगाम ह ॥ १६८.१३ ॥
यमेन्द्रवरुणानां च चतुर्थस्त्वं भविष्यसि ।
ब्रह्माप्युक्त्वा जगामाशु लोकपालत्वमीप्सितम् ॥ १६८.१४ ॥
ततस्त्वनन्तरे काले कैकसी नाम राक्षसी ।
पातालं भूतलं त्यक्त्वा विश्रवं चकमे पतिम् ॥ १६८.१५ ॥
पुत्रोऽथ रावणो जातस्तस्या भरतसत्तम ।
कुम्भकर्णो महारक्षो धर्मात्मा च विभीषणः ॥ १६८.१६ ॥
कुम्भश्चैव विकुम्भश्च कुम्भकर्णसुतावुभौ ।
महाबलौ महावीर्यौ महान्तौ पुरुषोत्तम ॥ १६८.१७ ॥
अङ्कूरो राक्षसश्रेष्ठः कुम्भस्य तनयो महान् ।
विभीषणं च गुणवद्दृष्ट्वैवं राक्षसोत्तमः ॥ १६८.१८ ॥
ततः स यौवनं प्राप्य ज्ञात्वा रक्षः पितामहम् ।
परं निर्वेदमापन्नश्चचार सुमहत्तपः ॥ १६८.१९ ॥
दक्षिणं पश्चिमं गत्वा सागरं पूर्वमुत्तरम् ।
नर्मदायां प्रसङ्गेन ह्यङ्कूरो राक्षसेश्वरः ॥ १६८.२० ॥
तपश्चचार सुमहद्दिव्यं वर्षशतं किल ।
ततस्तुष्टो महादेवः साक्षात्परपुरंजयः ॥ १६८.२१ ॥
वरेण छन्दयामास राक्षसं वृषकेतनः ।
वरं वृणीष्व भद्रं ते तव दास्यामि सुव्रत ॥ १६८.२२ ॥
प्रोवाच राक्षसो वाक्यं देवदेवं महेश्वरम् ।
वरदं सोऽग्रतो दृष्ट्वा प्रणम्य च पुनःपुनः ॥ १६८.२३ ॥
यदि तुष्टो महादेव वरदोऽसि सुरेश्वर ।
दुर्लभं सर्वभूतानाममरत्वं प्रयच्छ मे ॥ १६८.२४ ॥
मम नाम्ना स्थितोऽनेन वरेण त्रिपुरान्तक ।
सदा संनिहितोऽप्यत्र तीर्थे भवितुमर्हसि ॥ १६८.२५ ॥

ईश्वर उवाच -
यावद्विभीषणमतं यावद्धर्मनिषेवणम् ।
करिष्यसि दृढात्मा त्वं तावदेतद्भविष्यति ॥ १६८.२६ ॥
एवमुक्त्वा ययौ देवः सर्वदैवतपूजितः ।
विमानेनार्कवर्णेन कैलासं धरणीधरम् ॥ १६८.२७ ॥
गते चादर्शनं देवे स्नात्वाचम्य विधानतः ।
स्थापयामास राजेन्द्र ह्यङ्कूरेश्वरमुत्तमम् ॥ १६८.२८ ॥
गन्धपुष्पैस्तथा धूपैर्वस्त्रालङ्कारभूषणैः ।
पताकैश्चामरैश्छत्रैर्जयशब्दादिमंगलैः ॥ १६८.२९ ॥
पूजयित्वा सुरेशानं स्तोत्रैर्हृद्यैः सुपुष्कलैः ।
जगाम भवनं रक्षो यत्र राजा विभीषणः ॥ १६८.३० ॥
पूजितः स यथान्यायं दानसन्मानगौरवैः ।
सौदर्ये स्थापितो भावे सोऽवात्सीत्परयामुदा ॥ १६८.३१ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
अङ्कूरेश्वरनामानं सोऽश्वमेधफलं लभेत् ॥ १६८.३२ ॥
माण्डव्यखातमारभ्य सङ्गमं वापि यच्छुभम् ।
रेवाया आमलक्याश्च देवक्षेत्रं महेश्वरम् ॥ १६८.३३ ॥
माण्डव्यखातात्पश्चिमतस्तीर्थं तदङ्कूरेश्वरम् ।
तत्र तीर्थे नरः स्नात्वा शुचिः प्रयतमानसः ॥ १६८.३४ ॥
सन्ध्यामाचम्य यत्नेन जपं कृत्वाथ भारत ।
तर्पयित्वा पित्ःन्देवान्मनुष्यान् भरतर्षभ ॥ १६८.३५ ॥
सचैलः क्लिन्नवसनो मौनमास्थाय संयतः ।
अष्टम्यां वा चतुर्दश्यामुपोष्य विधिवन्नरः ॥ १६८.३६ ॥
पूजां यः कुरुते राजंस्तस्य पुण्यफलं शृणु ।
साग्रं तु योजनशतं तीर्थान्यायतनानि च ॥ १६८.३७ ॥
भवन्ति तानि दृष्टानि ततः पापैः प्रमुच्यते ।
तत्र तीर्थे तु यद्दानं देवमुद्दिश्य दीयते ॥ १६८.३८ ॥
स्नात्वा तु विधिवत्पात्रे तदक्षयमुदाहृतम् ।
होमाद्दशगुणं प्रोक्तं फलं जाप्ये ततोऽधिकम् ॥ १६८.३९ ॥
त्रिगुणं चोपवासेन स्नानेन च चतुर्गुणम् ।
संन्यासं कुरुते यस्तु प्राणत्यागं करोति वा ॥ १६८.४० ॥
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
कृमिकीटपतङ्गानां तत्र तीर्थे युधिष्ठिर ।
अङ्कूरेश्वरनामाख्ये मृतानां सुगतिर्भवेत् ॥ १६८.४१ ॥
एतत्ते कथितं राजन्नङ्कूरेश्वरसम्भवम् ।
तीर्थं सर्वगुणोपेतं परमं पापनाशनम् ॥ १६८.४२ ॥
येऽपि शृण्वन्ति भक्त्येदं कीर्त्यमानं महाफलम् ।
लभन्ते नात्र सन्देहः शिवस्य भुवनं हि ते ॥ १६८.४३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अङ्कूरेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टषष्ट्युत्तरशततमोऽध्यायः ॥