सामग्री पर जाएँ

स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६७

विकिस्रोतः तः


अध्याय १६७

युधिष्ठिर उवाच -
नर्मदादक्षिणे कूले त्वच्चिह्नेनोपलक्षितम् ।
तीर्थमेतन्ममाख्याहि सम्भवं च महामुने ॥ १६७.१ ॥

मार्कण्डेय उवाच -
पुरा कृतयुगस्यादौ दक्षिणे गिरिमुत्तमम् ।
विन्ध्यं सर्वगुणोपेतं नियतो नियताशनः ॥ १६७.२ ॥
ऋषिसङ्घैः कृतातिथ्यो दण्डके न्यवसं चिरम् ।
उषित्वा सुचिरं कालं वर्षाणामयुतं सुखी ॥ १६७.३ ॥
तानृषीन् समनुज्ञाप्य शिष्यैरनुगतस्ततः ।
निवृत्तः सुमहाभाग नर्मदाकूलमागतः ॥ १६७.४ ॥
पुण्यं च रमणीयं च सर्वपापविनाशनम् ।
कृत्वाहमास्पदं तत्र द्विजसंघसमायुतः ॥ १६७.५ ॥
ब्रह्मचारिभिराकीर्णं गार्हस्थ्ये सुप्रतिष्ठितैः ।
वानप्रस्थैश्च यतिभिर्यताहारैर्यतात्मभिः ॥ १६७.६ ॥
तपस्विभिर्महाभागैः कामक्रोधविवर्जितैः ।
तत्राहं वर्षमयुतं तपः कृत्वा सुदारुणम् ॥ १६७.७ ॥
आराधयं वासुदेवं प्रभुं कर्तारमीश्वरम् ।
जपंस्तपोभिर्नियमैर्नर्मदाकूलमाश्रितः ॥ १६७.८ ॥
ततस्तौ वरदौ देवौ समायातौ युधिष्ठिर ।
प्रत्यक्षौ भास्करौ राजन्नुमाश्रीभ्यां विभूषितौ ॥ १६७.९ ॥
प्रणम्याहं ततो देवौ भक्तियुक्तो वचोऽब्रुवम् ।
भवन्तौ प्रार्थयामि स्म वरार्हौ वरदौ शिवौ ॥ १६७.१० ॥
धर्मस्थितिं महाभागौ भक्तिं वानुत्तमां युवाम् ।
अजरो व्याधिरहितः पञ्चविंशतिवर्षवत् ।
अस्मिन्स्थाने सदा स्थेयं सह देवैरसंशयम् ॥ १६७.११ ॥
एवमुक्तौ मया पार्थ तौ देवौ कृष्णशङ्करौ ।
मामूचतुः प्रहृष्टौ तौ निवासार्थं युधिष्ठिर ॥ १६७.१२ ॥
देवावूचतुः ।
अस्मिन्स्थाने स्थितौ विद्धि सह देवैः सवासवैः ।
एवमुक्त्वा ततो देवौ तत्रैवान्तरधीयताम् ॥ १६७.१३ ॥
अहं च स्थापयित्वा तौ शङ्करं कृष्णमव्ययम् ।
कृतकृत्यस्ततो जातः सम्पूज्य सुसमाहितः ॥ १६७.१४ ॥
तस्मिंस्तीर्थे नरः स्नात्वा पूजयेत्परमेश्वरम् ।
मार्कण्डेश्वरनाम्ना वै विष्णुं त्रिभुवनेश्वरम् ॥ १६७.१५ ॥
स गच्छेत्परमं स्थानं वैष्णवं शैवमेव च ।
घृतेन पयसा वाथ दध्ना च मधुना तथा ॥ १६७.१६ ॥
नार्मदेनोदकेनाथ गन्धधूपैः सुशोभनैः ।
पुष्पोपहारैश्च तथा नैवेद्यैर्नियतात्मवान् ॥ १६७.१७ ॥
एवं विष्णोः प्रकुर्वीत जागरं भक्तितत्परः ।
स्नानादीनि तथा राजन्प्रयतः शुचिमानसः ॥ १६७.१८ ॥
ज्येष्ठे मासि सिते पक्षे चतुर्दश्यामुपोषितः ।
द्वादश्यां कारयेद्देवपूजनं वैष्णवो नरः ॥ १६७.१९ ॥
एवं कृत्वा चतुर्दश्यामेकादश्यां नरोत्तम ।
वैष्णवं लोकमाप्नोति विष्णुतुल्यो भवेन्नरः ॥ १६७.२० ॥
माहेश्वरे च राजेन्द्र गणवन्मोदते पुरे ।
श्राद्धं च कुरुते तत्र पितॄनुद्दिश्य सुस्थिरः ॥ १६७.२१ ॥
तस्य ते ह्यक्षयां तृप्तिं प्राप्नुवन्ति न संशयः ।
नर्मदायां द्विजः स्नात्वा मौनी नियतमानसः ॥ १६७.२२ ॥
उपास्य सन्ध्यां तत्रस्थो जपं कृत्वा सुशोभनम् ।
तर्पयित्वा पितॄन्देवान्मनुष्यांश्च यथाविधि ॥ १६७.२३ ॥
कृष्णस्य पुरतः स्थित्वा मार्कण्डेशस्य वा पुनः ।
ऋग्यजुःसाममन्त्रांश्च जपेदत्र प्रयत्नतः ॥ १६७.२४ ॥
ऋचमेकां जपेद्यस्तु ऋग्वेदस्य फलं लभेत् ।
यजुर्वेदस्य यजुषा साम्ना सामफलं लभेत् ॥ १६७.२५ ॥
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ।
मृतप्रजा तु या नारी वन्ध्या स्त्रीजननी तथा ॥ १६७.२६ ॥
रुद्रांस्तु विधिवज्जप्त्वा ब्राह्मणो वेदतत्त्ववित् ।
लिङ्गस्य दक्षिणे पार्श्वे स्थापयेत्कलशं शिवम् ॥ १६७.२७ ॥
रुद्रैकादशभिर्मन्त्रैः स्नापयेत्कलशाम्भसा ।
पुत्रमाप्नोति राजेन्द्र दीर्घायुषमकल्मषम् ॥ १६७.२८ ॥
मार्कण्डेश्वरवृक्षान्यो दूरस्थानपि पश्यति ।
ब्रह्महत्यादिपापेभ्यो मुच्यते शङ्करोऽब्रवीत् ॥ १६७.२९ ॥
य इदं शृणुयाद्भक्त्या पठेद्वा नृपसत्तम ।
सर्वपापविशुद्धात्मा जायते नात्र संशयः ॥ १६७.३० ॥
इदं यशस्यमायुष्यं धन्यं दुःखप्रणाशनम् ।
पठतां शृण्वतां वापि सर्वपापप्रमोचनम् ॥ १६७.३१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तषष्ट्युत्तरशततमोऽध्यायः ॥