स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६४

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १६४

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् ।
यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः ॥ १६४.१ ॥
तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः ।
दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः ॥ १६४.२ ॥
मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः ।
अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे ॥ १६४.३ ॥
तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः ।
सांवौरनाथो लोकानामार्तिहा दुःखनाशनः ॥ १६४.४ ॥
तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् ।
पूजयेद्भास्करं देवं तस्य पुण्यफलं शृणु ॥ १६४.५ ॥
यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे ।
दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत्फलम् ॥ १६४.६ ॥
कौमारे यौवने पापं वार्द्धके यच्च संचितम् ।
तत्प्रणश्यति सांवौरे स्नानमात्रान्न संशयः ॥ १६४.७ ॥
न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् ।
सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात् ॥ १६४.८ ॥
सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते ।
स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः ॥ १६४.९ ॥
रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् ।
तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात् ॥ १६४.१० ॥
नर्मदासलिलं रम्यं सर्वपातकनाशनम् ।
निरीक्षितं विशेषेण सांवौरेण महात्मना ॥ १६४.११ ॥
ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम् ॥ १६४.१२ ॥
सूर्यलोके वसेत्तावद्यावदाभूतसम्प्लवम् ॥ १६४.१३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥