स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५६

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १५६

श्रीमार्कण्डेय उवाच -
नास्ति लोकेषु तत्तीर्थं पृथिव्यां यन्नरेश्वर ।
शुक्लतीर्थेन सदृशमुपमानेन गीयते ॥ १५६.१ ॥
शुक्लतीर्थं महातीर्थं नर्मदायां व्यवस्थितम् ।
प्रागुदक्प्रवणे देशे मुनिसङ्घनिषेवितम् ॥ १५६.२ ॥
वैशाखे च तथा मासि कृष्णपक्षे चतुर्दशी ।
कैलासादुमया सार्द्धं स्वयमायाति शङ्करः ॥ १५६.३ ॥
मध्याह्नसमये स्नात्वा पश्यत्यात्मानमात्मना ।
ब्रह्मविष्ण्विन्द्रसहितः शुक्लतीर्थे समाहितः ॥ १५६.४ ॥
कार्त्तिक्यां तु विशेषेण वैशाख्यां च नरोत्तम ।
ब्रह्मविष्णुमहादेवान् स्नात्वा पश्यति तद्दिने ॥ १५६.५ ॥
देवराजः सुरैः सार्द्धं वायुमार्गव्यवस्थितः ।
कृष्णपक्षे चतुर्दश्यां स्नात्वा पश्यति शङ्करम् ॥ १५६.६ ॥
गन्धर्वाप्सरसो यक्षाः सिद्धविद्याधरोरगाः ।
तद्दिने तेऽपि देवेशं दृष्ट्वा मुञ्चन्ति किल्बिषम् ॥ १५६.७ ॥
अर्धयोजनविस्तारं तदर्द्धेनैव चायतम् ।
शुक्लतीर्थं महापुण्यं महापातकनाशनम् ॥ १५६.८ ॥
यत्र स्थितैः प्रदृश्यन्ते वृक्षाग्राणि नरोत्तमैः ।
तत्र स्थिता महापापैर्मुच्यन्ते पूर्वसंचितैः ॥ १५६.९ ॥
पापोपपातकैर्युक्तो नरः स्नात्वा प्रमुच्यते ।
उपार्जिता विनश्येत भ्रूणहत्यापि दुस्त्यजा ॥ १५६.१० ॥
यस्मात्तत्रैव देवेश उमया सह तिष्ठति ।
वैशाख्यां च विशेषेण कैलासादेति शङ्करः ॥ १५६.११ ॥
तेन तीर्थं महापुण्यं सर्वपातकनाशनम् ।
कथितं ब्रह्मणा पूर्वं मया तव तथा नृप ॥ १५६.१२ ॥
रजकेन यथा धौतं वस्त्रं भवति निर्मलम् ।
तथा तत्र वपुःस्नानं पुरुषस्य भवेच्छुचि ॥ १५६.१३ ॥
पूर्वे वयसि पापानि कृत्वा पुष्टानि मानवः ।
अहोरात्रोषितो भूत्वा शुक्लतीर्थे व्यपोहति ॥ १५६.१४ ॥
शुक्लतीर्थे महाराज राकां रेवाजलाञ्जलिम् ।
कल्पकोटिसहस्राणि दत्त्वा स्युः पितरः शिवाः ॥ १५६.१५ ॥
न माता न पिता बन्धुः पतनं नरकार्णवे ।
उद्धरन्ति यथा पुण्यं शुक्लतीर्थे नरेश्वर ॥ १५६.१६ ॥
तपसा ब्रह्मचर्येण न तां गच्छन्ति सद्गतिम् ।
शुक्लतीर्थे मृतो जन्तुर्देहत्यागेन यां लभेत् ॥ १५६.१७ ॥
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशीम् ।
घृतेन स्नापयेद्देवमुपोष्य प्रयतो नरः ॥ १५६.१८ ॥
स्नात्वा प्रभाते रेवायां दद्यात्सघृतकम्बलम् ।
सहिरण्यं यथाशक्ति देवमुद्दिश्य शङ्करं ॥ १५६.१९ ॥
देवस्य पूरणं कुर्याद्घृतेन घृतकम्बलम् ।
स गच्छति महातेजाः शिवलोकं मृतो नरः ॥ १५६.२० ॥
एकविंशकुलोपेतो यावदाभूतसम्प्लवम् ।
शुक्लतीर्थे नरः स्नात्वा ह्युमां रुद्रं च योऽर्चयेत् ॥ १५६.२१ ॥
गन्धपुष्पादिधूपैश्च सोऽश्वमेधफलं लभेत् ।
मासोपवासं यः कुर्यात्तत्र तीर्थे नरेश्वर ॥ १५६.२२ ॥
मुच्यते स महत्पापैः सप्तजन्मसुसंचितैः ।
उष्ट्रीक्षीरमविक्षीरं नवश्राद्धे च भोजनम् ॥ १५६.२३ ॥
वृषलीगमनं चैव तथाभक्ष्यस्य भक्षणम् ।
अविक्रयेऽनृते पापं माहिषेऽयाज्ययाजके ॥ १५६.२४ ॥
वार्द्धुष्ये पङ्क्तिगरदे देवब्राह्मणदूषके ।
एवमादीनि पापानि तथान्यान्यपि भारत ॥ १५६.२५ ॥
चान्द्रायणेन नश्यन्ति शुक्लतीर्थे न संशयः ।
शुक्लतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ॥ १५६.२६ ॥
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति सुतर्पिताः ।
पादुकोपानहौ छत्रं शय्यामासनमेव च ॥ १५६.२७ ॥
सुवर्णं धनधान्यं च श्राद्धं युक्तहलं तथा ।
अन्नं पानीयसंहितं तस्मिंस्तीर्थे ददन्ति ये ॥ १५६.२८ ॥
हृष्टाः पुष्टा मृता यान्ति शिवलोकं न संशयः ।
तत्र तीर्थे तु यो भक्त्या शिवमुद्दिश्य भारत ॥ १५६.२९ ॥
भिक्षामात्रं तथान्नं ये तेऽपि स्वर्यान्ति वै नराः ।
यज्विनां व्रतिनां चैव तत्र तीर्थनिवासिनाम् ॥ १५६.३० ॥
अपि वालाग्रमात्रं हि दत्तं भवति चाक्षयम् ।
अग्निप्रवेशं यः कुर्याच्छुक्लतीर्थे समाहितः ॥ १५६.३१ ॥
रागद्वेषविनिर्मुक्तो हृदि ध्यात्वा जनार्दनम् ।
सर्वकामसुसम्पूर्णः स गच्छेद्वारुणं पुरम् ॥ १५६.३२ ॥
न रोगो न जरा तत्र यत्र देवोऽंभसां पतिः ।
अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर ॥ १५६.३३ ॥
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ।
अवशः स्ववशो वापि जन्तुस्तत्क्षेत्रमण्डले ॥ १५६.३४ ॥
मृतः स तु न सन्देहो रुद्रस्यानुचरो भवेत् ।
शुक्लतीर्थे तु यः कन्यां शक्त्या दद्यादलंकृताम् ॥ १५६.३५ ॥
विधिना यो नृपश्रेष्ठ कुरुते वृषमोक्षणम् ।
तस्य यत्फलमुद्दिष्टं पुराणे रुद्रभाषितम् ॥ १५६.३६ ॥
तदहं सम्प्रवक्ष्यामि शृणुष्वैकमना नृप ।
यावन्तो रोमकूपाः स्युः सर्वाङ्गेषु पृथक्पृथक् ॥ १५६.३७ ॥
तावद्वर्षसहस्राणि रुद्रलोके महीयते ।
शुक्लतीर्थे तु यद्दत्तं ग्रहणे चन्द्रसूर्ययोः ॥ १५६.३८ ॥
वर्धते तद्गुणं तावद्दिनानि दश पञ्च च ।
शुक्लतीर्थे शुचिर्भूत्वा यः करोति प्रदक्षिणम् ॥ १५६.३९ ॥
पृथ्वी प्रदक्षिणा तेन कृता यत्तस्य तत्फलम् ।
शोभनं मिथुनं यस्तु रुद्रमुद्दिश्य पूजयेत् ॥ १५६.४० ॥
सप्त जन्मानि तस्यैव वियोगो न च वै क्वचित् ।
एतत्ते कथितं राजन् संक्षेपेण फलं महत् ॥ १५६.४१ ॥
शुक्लतीर्थस्य यत्पुण्यं यथा देवाच्छ्रुतं मया ।
य इदं शृणुयाद्भक्त्या पुराणे विहितं फलम् ॥ १५६.४२ ॥
स लभेन्नात्र सन्देहः सत्यं सत्यं पुनः पुनः ।
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ॥ १५६.४३ ॥
मोक्षार्थी लभते मोक्षं स्नानदानफलं महत् ॥ १५६.४४ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुक्लतीर्थमाहात्म्यवर्णनं नाम षट्पञ्चाशदधिकशततमोऽध्यायः ॥