स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५१

विकिस्रोतः तः

श्रीमार्कण्डेय उवाच -
उत्तरे नर्मदाकूले तीर्थं परमशोभनम् ।
जयवाराहमाहात्म्यं सर्वपापप्रणाशनम् ॥ १५१.१ ॥
उद्धृता जगती येन सर्वदेवनमस्कृता ।
लोकानुग्रहबुद्ध्या च संस्थितो नर्मदातटे ॥ १५१.२ ॥
तत्र तीर्थे तु यः स्नात्वा वीक्षते मधुसूदनम् ।
मुच्यते सर्वपापेभ्यो दशजन्मानुकीर्तनात् ॥ १५१.३ ॥
मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च कृष्णश्च बुद्धः कल्किश्च ते दश ॥ १५१.४ ॥

युधिष्ठिर उवाच -
मत्स्येन किं कृतं तात कूर्मेण मुनिसत्तम ।
वराहेण च किं कर्म नरसिंहेन किं कृतम् ॥ १५१.५ ॥
वामनेन च रामेण राघवेण च किं कृतम् ।
बुद्धरूपेण किं वापि कल्किना किं कृतं वद ॥ १५१.६ ॥
एवमुक्तस्तु विप्रेन्द्रो धर्मपुत्रेण धीमता ।
उवाच मधुरां वाणीं तदा धर्मसुतं प्रति ॥ १५१.७ ॥

श्रीमार्कण्डेय उवाच -
मीनो भूत्वा पुरा कल्पे प्रीत्यर्थं ब्रह्मणो विभुः ।
समर्पयत्समुद्धृत्य वन्दान्मग्नान्महार्णवे ॥ १५१.८ ॥
अमृतोत्पादने राजन्कूर्मो भूत्वा जगद्गुरुः ।
मन्दरं धारयामास तथा देवीं वसुंधराम् ॥ १५१.९ ॥
उज्जहार धरां मग्नां पातालतलवासिनीम् ।
वाराहं रूपमास्थाय देवदेवो जनार्दनः ॥ १५१.१० ॥
नरस्यार्द्धतनुं कृत्वा सिंहस्यार्द्धतनुं तथा ।
हिरण्यकशिपोर्वक्षो विददार नखाङ्कुशैः ॥ १५१.११ ॥
जटी वामनरूपेण स्तूयमानो द्विजोत्तमैः ।
तद्दिव्यं रूपमास्थाय क्रमित्वा मेदिनीं क्रमैः ॥ १५१.१२ ॥
कृतवांश्च बलिं पश्चात्पातालतलवासिनम् ।
स्थापयित्वा सुरान् सर्वान् गतो विष्णुः स्वकं पुरम् ॥ १५१.१३ ॥
जमदग्निसुतो रामो भूत्वा शस्त्रभृतां वरः ।
क्षत्रियान् पृथिवीपालानवधीद्धैहयादिकान् ॥ १५१.१४ ॥
कश्यपाय महीं दत्त्वा सपर्वतवनाकराम् ।
तपस्तपति देवेशो महेन्द्रेऽद्यापि भारत ॥ १५१.१५ ॥
ततो दाशरथी रामो रावणं देवकण्टकम् ।
सगणं समरे हत्वा राज्यं दत्त्वा विभीषणे ॥ १५१.१६ ॥
पालयित्वा नयाद्भूमिं मखैः संतर्प्य देवताः ।
स्वर्गं गतो महातेजा रामो राजीवलोचनः ॥ १५१.१७ ॥
वसुदेवगृहे भूयः संकर्षणसहायवान् ।
अवतीर्णो जगन्नाथो वासुदेवो युधिष्ठिर ॥ १५१.१८ ॥
सोऽवधीत्तव सामर्थ्याद्वधार्थं दुष्टभूभृताम् ।
चाणूरकंसकेशीनां जरासंधस्य भारत ॥ १५१.१९ ॥
तेन त्वं सुसहायेन हत्वा शत्रून्नरेश्वर ।
भोक्ष्यसे पृथिवीं सर्वां भ्रातृभिः सह संभृताम् ॥ १५१.२० ॥
तथा बुद्धत्वमपरं नवमं प्राप्स्यतेऽच्युतः ।
शान्तिमान्देवदेवेशो मधुहन्ता मधुप्रियः ॥ १५१.२१ ॥
तेन बुद्धस्वरूपेण देवेन परमेष्ठिना ।
भविष्यति जगत्सर्वं मोहितं सचराचरम् ॥ १५१.२२ ॥
न श्रोष्यन्ति पितुः पुत्रास्तदाप्रभृति भारत ।
न गुरोर्बान्धवाः शिष्या भविष्यत्यधरोत्तरम् ॥ १५१.२३ ॥
जितो धर्मो ह्यधर्मेण चासत्येन ऋतं जितम् ।
जिताश्चौरैश्च राजानः स्त्रीभिश्च पुरुषा जिताः ॥ १५१.२४ ॥
सीदन्ति चाग्निहोत्राणि गुरौ पूजा प्रणश्यति ।
सीदन्ति मानवा धर्माः कलौ प्राप्ते युधिष्ठिर ॥ १५१.२५ ॥
द्वादशे दशमे वर्षे नारी गर्भवती भवेत् ।
कन्यास्तत्र प्रसूयन्ते ब्राह्मणो हरिपिङ्गलः ॥ १५१.२६ ॥
भविष्यति ततः कल्किर्दशमे जन्मनि प्रभुः ॥ १५१.२७ ॥
एतत्ते कथितं राजन्देवस्य परमेष्ठिनः ।
कारणं दश जन्मनां सर्वपापक्षयंकरम् ॥ १५१.२८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्वेतवाराहतीर्थमाहात्म्यवर्णनं नामैकपञ्चाशदधिकशततमोऽध्यायः ॥