स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १४८

विकिस्रोतः तः


अध्याय १४८

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १४८.१ ॥
चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः ।
स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः ॥ १४८.२ ॥
पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः ।
संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम् ॥ १४८.३ ॥
अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् ।
कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे ॥ १४८.४ ॥
हरकोपोद्भवायेति स्वेदजायातिबाहवे ।
सर्वकामप्रदायेति पूर्वादिषु दलेषु च ॥ १४८.५ ॥
एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः ।
भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः ॥ १४८.६ ॥
अङ्गारक महातेजा लोहिताङ्ग नमोऽस्तु ते ।
करकं वारिसंयुक्तं शालितंदुलपूरितम् ॥ १४८.७ ॥
सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् ।
ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति ॥ १४८.८ ॥
अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा ।
रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम् ॥ १४८.९ ॥
कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे ।
कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः ॥ १४८.१० ॥
मन्त्रपूतं महाभाग दद्यादर्घ्यं विचक्षणः ।
ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम् ॥ १४८.११ ॥
स्निग्धं मृदुसमधुरमात्मनः श्रेय इच्छता ।
एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप ॥ १४८.१२ ॥
सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् ।
स्थापयेत्ताम्रके पात्रे गुडपीठसमन्विते ॥ १४८.१३ ॥
गन्धपुष्पादिभिर्देवं पूजयेद्गुडसंस्थितम् ।
ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम् ॥ १४८.१४ ॥
कासारेण तथाग्नेय्यां स्थापयेत्करकं परम् ।
रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे ॥ १४८.१५ ॥
स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः ।
सूत्रेण वेष्टितग्रीवं गन्धमाल्यैरलंकृतम् ॥ १४८.१६ ॥
शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः ।
रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम् ॥ १४८.१७ ॥
वेदिमध्यगतं वापि महदासनसंस्थितम् ।
सुरूपं सुभगं शान्तं सर्वभूतहिते रतम् ॥ १४८.१८ ॥
वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ।
पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन ॥ १४८.१९ ॥
रक्तां गां च ततो दद्याद्रक्तेनानडुहा सह ।
प्रीयतां भूमिजो देवः सर्वदैवतपूजितः ॥ १४८.२० ॥
विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः ।
पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत् ॥ १४८.२१ ॥
एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः ।
यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम् ॥ १४८.२२ ॥
सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् ।
तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा ॥ १४८.२३ ॥
अकामो वा सकामो वा तत्र तीर्थे मृतो नरः ।
अङ्गारकपुरं याति देवगन्धर्वपूजितः ॥ १४८.२४ ॥
उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् ।
इह मानुष्यलोके वै राजा भवति धार्मिकः ॥ १४८.२५ ॥
सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः ॥ १४८.२६ ॥

॥ इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाचत्वारिंशदधिकशततमोऽध्यायः ॥