स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १४६

विकिस्रोतः तः
Jump to navigation Jump to search

अध्याय १४६


मार्कण्डेय उवाच -
अस्माहकं ततो गच्छेत्पितृतीर्थमनुत्तमम् ।
प्रेतत्वाद्यत्र मुच्यन्ते पिण्डेनैकेन पूर्वजाः ॥ १४६.१ ॥
युधिष्ठिर उवाच -
अस्माहकस्य माहात्म्यं कथयस्व ममानघ ।
स्नानदानेन यत्पुण्यं तथा पिण्डोदकेन च ॥ १४६.२ ॥
श्रीमार्कण्डेय उवाच -
पुरा कल्पे नृपश्रेष्ठ ऋषिदेवसमागमे ।
प्रश्नः पृष्टो मया तात यथा त्वमनुपृच्छसि ॥ १४६.३ ॥
एकत्र सागराः सप्त सप्रयागाः सपुष्कराः ।
नास्य साम्यं लभन्ते ते नात्र कार्या विचारणा ॥ १४६.४ ॥
सोमनाथं तु विख्यातं यत्सोमेन प्रतिष्ठितम् ।
तत्र सोमग्रहे पुण्यं तत्पुण्यं लभते नरः ॥ १४६.५ ॥
मासान्ते पितरो नृणां वीक्षन्ते सन्ततिं स्वकाम् ।
कश्चिदस्मत्कुलेऽस्माकं पिण्डमत्र प्रदास्यति ॥ १४६.६ ॥
प्रपितामहास्तथादित्याः श्रुतिरेषा सनातनी ।
एवं ब्रुवन्ति देवाश्च ऋषयः सतपोधनाः ॥ १४६.७ ॥
सकृत्पिण्डोदकेनैव शृणु पार्थिव यत्फलम् ।
द्वादशाब्दानि राजेन्द्र योगं भुक्त्वा सुशोभनम् ॥ १४६.८ ॥
युगे युगे महाराज अस्माहके पितामहाः ।
सर्वदा ह्यवलोकन्त आगच्छन्तं स्वगोत्रजम् ॥ १४६.९ ॥
भविष्यति किमस्माकममावास्याप्यमाहके ।
स्नानं दानं च ये कुर्युः पितॄणां तिलतर्पणम् ॥ १४६.१० ॥
ते सर्वपापनिर्मुक्ताः सर्वान्कामांल्लभति वै ।
जलमध्येऽत्र भूपाल अग्नितीर्थं च तिष्ठति ॥ १४६.११ ॥
दर्शनात्तस्य तीर्थस्य पापराशिर्विलीयते ।
स्नानमात्रेण राजेन्द्र ब्रह्महत्यां व्यपोहति ॥ १४६.१२ ॥
शुक्लाम्बरधरो नित्यं नियतः स जितेन्द्रियः ।
एककालं तु भुञ्जानो मासं तीर्थस्य सन्निधौ ॥ १४६.१३ ॥
सुवर्णालंकृतानां तु कन्यानां शतदानजम् ।
फलमाप्नोति सम्पूर्णं पितृलोके महीयते ॥ १४६.१४ ॥
पृथिव्यामासमुद्रायां महाभोगपतिर्भवेत् ।
धनधान्यसमायुक्तो दाता भवति धार्मिकः ॥ १४६.१५ ॥
उपवासी शुचिर्भूत्वा ब्रह्मलोकमवाप्नुयात् ।
अस्माहकं समासाद्य यस्तु प्राणान् परित्यजेत् ॥ १४६.१६ ॥
कोटिवर्षसहस्राणि रुद्रलोके महीयते ।
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः ॥ १४६.१७ ॥
सुवर्णमणिमुक्ताढ्ये कुले जायेत रूपवान् ।
कृत्वाभिषेकविधिना हयमेधफलं लभेत् ॥ १४६.१८ ॥
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ।
चतुर्वेदेषु यत्पुण्यं सत्यवादिषु यत्फलम् ॥ १४६.१९ ॥
तत्फलं लभते नूनं तत्र तीर्थेऽभिषेचनात् ।
तीर्थानां परमं तीर्थं निर्मितं शम्भुना पुरा ॥ १४६.२० ॥
हृदयेशः स्वयं विष्णुर्जपेद्देवं महेश्वरम् ।
गन्धर्वाप्सरसश्चैव मरुतो मारुतास्तथा ॥ १४६.२१ ॥
विश्वेदेवाश्च पितरः सचन्द्राः सदिवाकराः ।
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ॥ १४६.२२ ॥
प्रचेताश्च वसिष्ठश्च भृगुर्नारद एव च ।
च्यवनो गालवश्चैव वामदेवो महामुनिः ॥ १४६.२३ ॥
वालखिल्याश्च गन्धारास्तृणबिन्दुश्च जाजलिः ।
उद्दालकश्चर्ष्यशृङ्गो वसिष्ठश्च सनन्दनः ॥ १४६.२४ ॥
शुक्रश्चैव भरद्वाजो वात्स्यो वात्स्यायनस्तथा ।
अगस्तिर्मित्रावरुणौ विश्वामित्रो मुनीश्वरः ॥ १४६.२५ ॥
गौतमश्च पुलस्त्यश्च पौलस्त्यः पुलहः क्रतुः ।
सनातनस्तु कपिलो वाह्निः पञ्चशिखस्तथा ॥ १४६.२६ ॥
अन्येऽपि बहवस्तत्र मुनयः शंसितव्रताः ।
क्रीडन्ति देवताः सर्व ऋषयः सतपोधनाः ॥ १४६.२७ ॥
मनुष्याश्चैव योगीन्द्राः पितरः सपितामहाः ।
अस्माहकेऽत्र तिष्ठन्ति सर्व एव न संशयः ॥ १४६.२८ ॥
पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
येषां दत्तमुपस्थायि सुकृतं वापि दुष्कृतम् ॥ १४६.२९ ॥
अक्षयं तत्र तत्सर्वं यत्कृतं योधनीपुरे ।
मातरं पितरं त्यक्त्वा सर्वबन्धुसुहृज्जनान् ॥ १४६.३० ॥
धनं धान्यं प्रियान्पुत्रांस्तथा देहं नृपोत्तम ।
गच्छते वायुभूतस्तु शुभाशुभसमन्वितः ॥ १४६.३१ ॥
अदृश्यः सर्वभूतानां परमात्मा महत्तरः ।
शुभाशुभगतिं प्राप्तः कर्मणा स्वेन पार्थिव ॥ १४६.३२ ॥
युधिष्ठिर उवाच -
शुभाशुभं न बन्धूनां जायते केन हेतुना ।
एकः प्रसूयते जन्तुरेक एव प्रलीयते ॥ १४६.३३ ॥
एको हि भुङ्क्ते सुकृतमेक एव हि दुष्कृतम् ॥ १४६.३४ ॥
मार्कण्डेय उवाच -
एष त्वयोक्तो नृपते महाप्रश्नः स्मृतो मया ॥ १४६.३५ ॥
पितामहमुखोद्गीतं श्रुतं ते कथयाम्यहम् ।
यन्मे पितामहात्पूर्वं विज्ञातमृषिसंसदि ॥ १४६.३६ ॥
न माता न पिता बन्धुः कस्यचिन्न सुहृत्क्वचित् ।
कस्य न ज्ञायते रूपं वायुभूतस्य देहिनः ॥ १४६.३७ ॥
यद्येवं न भवेत्तात लोकस्य तु नरेश्वर ।
अमर्यादं भवेन्नूनं विनश्यति चराचरम् ॥ १४६.३८ ॥
एवं ज्ञात्वा पूरा राजन्समस्तैर्लोककर्तृभिः ।
मर्यादा स्थापिता लोके यथा धर्मो न नश्यति ॥ १४६.३९ ॥
धर्मे नष्टे मनुष्याणामधर्मोऽभिभवेत्पुनः ।
ततः स्वधर्मचलनान्नरके गमनं ध्रुवम् ॥ १४६.४० ॥
लोको निरङ्कुशः सर्वो मर्यादालङ्घने रतः ।
मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ॥ १४६.४१ ॥
स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
पिण्डोदकप्रदानं च तथैवातिथिपूजनम् ॥ १४६.४२ ॥
पितरः पितामहाश्चैव तथैव प्रपितामहाः ।
त्रयो देवाः स्मृतास्तात ब्रह्मविष्णुमहेश्वराः ॥ १४६.४३ ॥
पूजितैः पूजिताः सर्वे तथा मातामहास्त्रयः ।
तस्मात्सर्वप्रयत्नेन श्रुतिस्मृत्यर्थनोदितान् ॥ १४६.४४ ॥
धर्मं समाचरन्नित्यं पापांशेन न लिप्यते ।
श्रुतिस्मृत्युदितं धर्मं मनसापि न लङ्घयेत् ॥ १४६.४५ ॥
इह लोके परे चैव यदीच्छेच्छ्रेय आत्मनः ।
पितापुत्रौ सदाप्येकौ बिम्बाद्बिम्बमिवोद्धृतौ ॥ १४६.४६ ॥
विभक्तौ वाविभक्तौ वा श्रुतिस्मृत्यर्थतस्तथा ।
उद्धरेदात्मनात्मानमात्मानमवसादयेत् ॥ १४६.४७ ॥
पिण्डोदकप्रदानाभ्यामृते पार्थ न संशयः ।
एवं ज्ञात्वा प्रयत्नेन पिण्डोदकप्रदो भवेत् ॥ १४६.४८ ॥
आयुर्धर्मो यशस्तेजः सन्ततिश्चैव वर्धते ।
पृथिव्यां सागरान्तायां पितृक्षेत्राणि यानि च ॥ १४६.४९ ॥
तानि ते सम्प्रवक्ष्यामि येषु दत्तं महाफलम् ।
गयायां पुष्करे ज्येष्ठे प्रयागे नैमिषे तथा ॥ १४६.५० ॥
संनिहत्यां कुरुक्षेत्रे प्रभासे कुरुनन्दन ।
पिण्डोदकप्रदानेन यत्फलं कथितं बुधैः ॥ १४६.५१ ॥
अस्माहके तदाप्नोति नर्मदायां न संशयः ।
तत्र ब्रह्मा मुरारिश्च रुद्रश्च उमया सह ॥ १४६.५२ ॥
इन्द्राद्या देवताः सर्वे पितरो मुनयस्तथा ।
सागराः सरितश्चैव पर्वताश्च बलाहकाः ॥ १४६.५३ ॥
तिष्ठन्ति पितरः सर्वे सर्वतीर्थाधिकं ततः ।
स्थिता ब्रह्मशिला तत्र गजकुम्भनिभा नृप ॥ १४६.५४ ॥
कलौ न दृश्या भवति प्रधानं यद्गयाशिरः ।
वैशाखे मासि सम्प्राप्तेऽमावास्यां नृपोत्तम ॥ १४६.५५ ॥
व्याप्य सा तिष्ठते तीर्थं गजकुम्भनिभा शिला ।
तच्च गव्यूतिमात्रं हि तीर्थं ततः प्रवक्षते ॥ १४६.५६ ॥
तस्मिन्दिने तत्र गत्वा यस्तु श्राद्धप्रदो भवेत् ।
पितॄणामक्षया तृप्तिर्जायते शतवार्षिकी ॥ १४६.५७ ॥
अन्यस्यामप्यमावास्यां यः स्नात्वा विजितेन्द्रियः ।
करोति मनुजः श्राद्धं विधिवन्मन्त्रसंयुतम् ॥ १४६.५८ ॥
तस्य पुण्यफलं यत्स्यात्तच्छृणुष्व नराधिप ।
अग्निष्टोमाश्वमेधाभ्यां वाजपेयस्य यत्फलम् ॥ १४६.५९ ॥
तत्फलं समवाप्नोति यथा मे शङ्करोऽब्रवीत् ।
रौरवादिषु सर्वेषु नरकेषु व्यवस्थिताः ॥ १४६.६० ॥
पिता पितामहाद्याश्च पितृके मातृके तथा ।
पिण्डोदकेन चैकेन तर्पणेन विशेषतः ॥ १४६.६१ ॥
क्रीडन्ति पितृलोकस्था यावदाभूतसम्प्लवम् ।
ये कर्मस्था विकर्मस्था ये जाताः प्रेतकल्मषाः ॥ १४६.६२ ॥
पिण्डेनैकेन मुच्यन्ते तेऽपि तत्र न संशयः ।
अस्माहके शिला दिव्या तिष्ठते गजसन्निभा ॥ १४६.६३ ॥
ब्रह्मणा निर्मिता पूर्वं सर्वपापक्षयंकरी ।
उपर्यस्या यथान्यायं पितॄनुद्दिश्य भारत ॥ १४६.६४ ॥
दक्षिणाग्रेषु दर्भेषु दद्यात्पिण्डान्विचक्षणः ।
भूमौ चान्नेन सिद्धेन श्राद्धं कृत्वा यथाविधि ॥ १४६.६५ ॥
श्राद्धिभ्यो वस्त्रयुग्मानि छत्रोपानत्कमण्डलु ।
दक्षिणा विविधा देया पितॄनुद्दिश्य भारत ॥ १४६.६६ ॥
यो ददाति द्विजश्रेष्ठ तस्य पुण्यफलं शृणु ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति न संशयः ॥ १४६.६७ ॥
अस्माहके महाराज पितरश्च पितामहाः ।
वायुभूता निरीक्षन्ते आगच्छन्तं स्वगोत्रजम् ॥ १४६.६८ ॥
अत्र तीर्थे सुतोऽभ्येत्य स्नात्वा तोयं प्रदास्यति ।
श्राद्धं वा पिण्डदानं वा तेन यास्याम सद्गतिम् ॥ १४६.६९ ॥
स्नाने कृते तु ये केचिज्जायन्ते वस्त्रविप्लुषः ।
प्रीणयेन्नरकस्थांस्तु तैः पितॄन्नात्र संशयः ॥ १४६.७० ॥
केशोदबिन्दवस्तस्य ये चान्ये लेपभाजिनः ।
तृप्यन्त्यनग्निनसंस्कारा यं मृताः स्युः स्वगोत्रजाः ॥ १४६.७१ ॥
तत्र तीर्थे तु ये केचिच्छ्राद्धं कृत्वा विधानतः ।
नरकादुद्धरन्त्याशु जपन्तः पितृसंहिताम् ॥ १४६.७२ ॥
वनस्पतिगते सोमे यदा सोमदिनं भवेत् ।
अक्षयाल्लभते लोकान्पिण्डेनैकेन मानवः ॥ १४६.७३ ॥
अक्षयं तत्र वै सर्वं जायते नात्र संशयः ।
नरकादुद्धरन्त्याशु जपन्ते पितृसंहिताम् ॥ १४६.७४ ॥
तस्मिंस्तीर्थे त्वमावास्यां पितॄनुद्दिश्य भारत ।
नीलं सर्वाङ्गसम्पूर्णं योऽभिषिच्य समुत्सृजेत् ॥ १४६.७५ ॥
तस्य पुण्यफलं वक्तुं न तु वाचस्पतिः क्षमः ।
अस्माहके वृषोत्सर्गाद्यत्पुण्यं समवाप्यते ॥ १४६.७६ ॥
तव शुश्रूषणात्सर्वं तत्प्रवक्ष्यामि भारत ।
रौरवादिषु ये किंचित्पच्यन्ते तस्य पूर्वजाः ॥ १४६.७७ ॥
वृषोत्सर्गेण तान्सर्वांस्तारयेदेकविंशतिम् ।
लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ १४६.७८ ॥
पिङ्गः खुरविषाणाभ्यां स नीलो वृष उच्यते ।
यस्तु सर्वाङ्गपिङ्गश्च श्वेतः पुच्छखुरेषु च ॥ १४६.७९ ॥
स पिङ्गो वृष इत्याहुः पितॄणां प्रीतिवर्धनः ।
पारावतसवर्णश्च ललाटे तिलको भवेत् ॥ १४६.८० ॥
तं वृषं बभ्रुमित्याहुः पूर्णं सर्वाङ्गशोभनम् ।
सर्वाङ्गेष्वेकवर्णो यः पिङ्गः पुच्छखुरेषु च ॥ १४६.८१ ॥
खुरपिङ्गं तमित्याहुः पितॄणां सद्गतिप्रदम् ।
नीलं सर्वशरीरेण स्वारक्तनयनं दृढम् ॥ १४६.८२ ॥
तमेव नीलमित्याहुर्नीलः पञ्चविधः स्मृतः ।
यस्तु वैश्यगृहे जातः स वै नीलो विशिष्यते ॥ १४६.८३ ॥
न वाहयेद्गृहे जातं वत्सकं तु कदाचन ।
तेनैव च वृषोत्सर्गे पितॄणामनृणो भवेत् ॥ १४६.८४ ॥
जातं तु स्वगृहे वत्सं द्विजन्मा यस्तु वाहयेत् ।
पतन्ति पितरस्तस्य ब्रह्मकोकगता अपि ॥ १४६.८५ ॥
यथायथा हि पिबति पीत्वा धूनाति मस्तकम् ।
पिबन्पितॄन् प्रीणयति नरकादुद्धरेद्धुनन् ॥ १४६.८६ ॥
यथा पुच्छाभिघातेन स्कन्धं गच्छन्ति बिन्दवः ।
नरकादुद्धरन्त्याशु पतितान् गोत्रिणस्तथा ॥ १४६.८७ ॥
गर्जन्प्रावृषि काले तु विषाणाभ्यां भुवं लिखन् ।
खुरेभ्यो या मृदुद्भूता तया संप्रीणयेदृषीन् ॥ १४६.८८ ॥
पिबन्पितॄन् प्रीणयते खादनोल्लेखने सुरान् ।
गर्जन्नृषिमनुष्यांश्च धर्मरूपो हि धर्मज ॥ १४६.८९ ॥
भूतैर्वापि पिशाचैर्वा चातुर्थिकज्वरेण वा ।
गृहीतोऽस्माहकं गच्छेत्सर्वेषामाधिनाशनम् ॥ १४६.९० ॥
स्नात्वा तु विमले तोये दर्भग्रन्थिं निबन्धयेत् ।
मस्तके बाहुमूले वा नाभ्यां वा गलकेऽपि वा ॥ १४६.९१ ॥
गत्वा देवसमीपं च प्रादक्षिण्येन केशवम् ।
ततः समुच्चरन्मन्त्रं गायत्र्या वाथ वैष्णवम् ॥ १४६.९२ ॥
नारायणं शरण्येशं सर्वदेवनमस्कृतम् ।
नमो यज्ञाङ्गसम्भूत सर्वव्यापिन्नमोऽस्तु ते ॥ १४६.९३ ॥
नमो नमस्ते देवेश पद्मगर्भ सनातन ।
दामोदर जयानन्त रक्ष मां शरणागतम् ॥ १४६.९४ ॥
त्वं कर्ता त्वं च हर्ता च जगत्यस्मिंश्चराचरे ।
त्वं पालयसि भूतानि भुवनं त्वं बिभर्षि च ॥ १४६.९५ ॥
प्रसीद देवदेवेश सुप्तमङ्गं प्रबोधय ।
त्वद्ध्याननिरतो नित्यं त्वद्भक्तिपरमो हरे ॥ १४६.९६ ॥
इति स्तुतो मया देव प्रसादं कुरु मेऽच्युत ।
मां रक्ष रक्ष पापेभ्यस्त्रायस्व शरणागतम् ॥ १४६.९७ ॥
एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।
पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.९८ ॥
वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।
पिण्डनिर्वपणं कृत्वा वाचयेत्स्वस्तिकं ततः ॥ १४६.९९ ॥
एवं स्तुत्वा च देवेशं दानवान्तकरं हरिम् ।
पुनरुक्तेन वै स्नात्वा ततो विप्रांस्तु भोजयेत् ॥ १४६.१०० ॥
वेदोक्तेन विधानेन स्नानं कृत्वा यथाविधि ।
एवं तान्वाचयित्वा तु ततो विप्रान्विसर्जयेत् ॥ १४६.१०१ ॥
यत्तत्रोच्चरितं किंचित्तद्विप्रेभ्यो निवेदयेत् ।
तत्र तीर्थे नरः स्नात्वा नारी वा भक्तितत्परा ।
शक्तितो दक्षिणां दद्यात्कृत्वा श्राद्धं यथाविधि ॥ १४६.१०२ ॥
तत्र तीर्थे नरो यावत्स्नापयेद्विधिपूर्वकम् ।
क्षीरेण मधुना वापि दध्ना वा शीतवारिणा ॥ १४६.१०३ ॥
तावत्पुष्करपात्रेषु पिबन्ति पितरो जलम् ।
अयने विषुवे चैव युगादौ सूर्यसंक्रमे ॥ १४६.१०४ ॥
पुष्पैः सम्पूज्य देवेशं नैवेद्यं यः प्रदापयेत् ।
सोऽश्वमेधस्य यज्ञस्य फलं प्राप्नोति पुष्कलम् ॥ १४६.१०५ ॥
तत्र तीर्थे तु यो राजन् सूर्यग्रहणमाचरेत् ।
सूर्यतेजोनिभैर्यानैर्विष्णुलोके महीयते ॥ १४६.१०६ ॥
तत्र तीर्थे तु यः श्राद्धं पितृभ्यः सम्प्रयच्छति ।
सत्पुत्रेण च तेनैव सम्प्राप्तं जन्मनः फलम् ॥ १४६.१०७ ॥
इति श्रुत्वा ततो देवाः सर्वे शक्रपुरोगमाः ।
ब्रह्मविष्णुमहेशाश्च स्थापयांचक्रुरीश्वरम् ॥ १४६.१०८ ॥
सर्वरोगोपशमनं सर्वपातकनाशनम् ।
यस्तु संवत्सरं पूर्णममावास्यां तु भावितः ॥ १४६.१०९ ॥
पितृभ्यः पिण्डदानं च कुर्यादस्माहके नृप ।
त्रिपुष्करे गयायां च प्रभासे नैमिषे तथा ॥ १४६.११० ॥
यत्पुण्यं श्राद्धकर्तॄणां तदिहैव भवेद्ध्रुवम् ।
तिलोदकं कुशैर्मिश्रं यो दद्याद्दक्षिणामुखः ॥ १४६.१११ ॥
मन्वादौ च युगादौ च व्यतीपाते दिनक्षये ।
यो दद्यात्पितृमातृभ्यः सोऽश्वमेधफलं लभेत् ॥ १४६.११२ ॥
अस्माहके नरो यस्तु स्नात्वा सम्पूजयेद्धरिम् ।
ब्रह्माणं शङ्करं भक्त्या कुर्याज्जागरणक्रियाम् ॥ १४६.११३ ॥
सर्वपापविनिर्मुक्तः शक्रातिथ्यमवाप्नुयात् ।
तत्र तीर्थे नरः स्नात्वा यः पश्यति जनार्दनम् ॥ १४६.११४ ॥
विशेषविधिनाभ्यर्च्य प्रणम्य च पुनःपुनः ।
सपुत्रेण च तेनैव पितॄणां विहिता गतिः ॥ १४६.११५ ॥
एकमूर्तिस्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ।
सत्कार्यकारणोपेताः सुसूक्ष्माः सुमहाफलाः ॥ १४६.११६ ॥
एतत्ते कथितं राजन्महापातकनाशनम् ।
अस्माहकस्य माहात्म्यं किमन्यत्परिपृच्छसि ॥ १४६.११७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अस्माहकतीर्थमाहात्म्यवर्णनं नाम षट्चत्वारिंशदधिकशततमोऽध्यायः ॥