स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १४०

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १४०

मार्कण्डेय उवाच -
ततो गच्छेन्महाराज नन्दाह्रदमनुत्तमम् ।
यत्र सिद्धा महाभागा नन्दा देवी वरप्रदा ॥ १४०.१ ॥
महिषासुरे महाकाये पुरा देवभयंकरे ।
शूलिन्या शूलभिन्नाङ्गे कृते दानवसत्तमे ॥ १४०.२ ॥
येनैकादशरुद्राश्च ह्यादित्याः समरुद्गणाः ।
वसवो वायुना सार्द्धं चन्द्रादित्यौ सुरेश्वर ॥ १४०.३ ॥
बलिना निर्जिता येन ब्रह्मविष्णुमहेश्वराः ।
सङ्ग्रामे सुमहाघोरे कृते देवभयंकरे ॥ १४०.४ ॥
कृत्वा तत्कदनं घोरं नन्दा देवी सुरेश्वरी ।
यस्मात्स्नाता विशालाक्षी तेन नन्दाह्रदः स्मृतः ॥ १४०.५ ॥
तत्र तीर्थे तु यः स्नात्वा नन्दामुद्दिश्य भारत ।
ददाति दानं विप्रेभ्यः सोऽश्वमेधफलं लभेत् ॥ १४०.६ ॥
भैरवं चैव केदारं तथा रुद्रं महालयम् ।
नन्दाह्रदश्चतुर्थः स्यात्पञ्चमं भुवि दुर्लभम् ॥ १४०.७ ॥
बहवस्तं न जानन्ति कामरागसमन्विताः ।
नर्मदाया ह्रदं पुण्यं सर्वपातकनाशनम् ॥ १४०.८ ॥
तत्र तीर्थे तु यः स्नात्वा नन्दां देवीं प्रपूजयेत् ।
किं तस्य हिमवन्मध्यगमनेन प्रयोजनम् ॥ १४०.९ ॥
परमार्थमविज्ञाय पर्यटन्ति तमोवृताः ।
तेषां समागमे पार्थ श्रम एव हि केवलम् ॥ १४०.१० ॥
पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
तत्फलं समवाप्नोति स्नात्वा नन्दाह्रदे नृप ॥ १४०.११ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नन्दाह्रदतीर्थमाहात्म्यवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः ॥