स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३७

विकिस्रोतः तः


अध्याय १३७

मार्कण्डेय उवाच -
धर्मपुत्र ततो गच्छेत्कर्कटेश्वरमुत्तमम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम् ॥ १३७.१ ॥
तत्र स्नात्वा विधानेन यस्तु पूजयते शिवम् ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम् ॥ १३७.२ ॥
तस्य तीर्थस्य माहात्म्यं पुराणे यच्छ्रुतं मया ।
न तद्वर्णयितुं शक्यं संक्षेपेण वदाम्यतः ॥ १३७.३ ॥
तत्र तीर्थे तु यः कुर्यात्किंचित्कर्म शुभाशुभम् ।
हर्षान्मदान्महाराज तत्सर्वं जायतेऽक्षयम् ॥ १३७.४ ॥
तत्र तीर्थे तपस्तप्त्वा वालखिल्या मरीचयः ।
रमन्तेऽद्यापि लोकेषु स्वेच्छया कुरुनन्दन ॥ १३७.५ ॥
तत्रस्थास्तन्न जानन्ति नराज्ञानबहिष्कृताः ।
शरीरस्थमिवात्मानमक्षयं ज्योतिरव्ययम् ॥ १३७.६ ॥
तत्र तीर्थे नृपश्रेष्ठ देवी नारायणी पुरा ।
अद्यापि तपते घोरं तपो यावत्किलार्बुदम् ॥ १३७.७ ॥
तत्र तीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
तस्य ते द्वादशाब्दानि तृप्तिं यान्ति पितामहाः ॥ १३७.८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कर्कटेश्वरतीर्थमाहात्म्यवर्णनं नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥