स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३०

विकिस्रोतः तः


अध्याय १३०

श्रीमार्कण्डेय उवाच -
नर्मदादक्षिणे कूले देवतीर्थमनुत्तमम् ।
तत्र देवैः समागत्य तोषितः परमेश्वरः ॥ १३०.१ ॥
तत्र तीर्थे तु यः स्नात्वा कामक्रोधविवर्जितः ।
स लभेन्नात्र सन्देहो गोसहस्रफलं ध्रुवम् ॥ १३०.२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नाम त्रिंशदधिकशततमोऽध्यायः ॥