स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १२६

विकिस्रोतः तः
Jump to navigation Jump to search


अध्याय १२६

मार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र परं तीर्थमयोनिजम् ।
स्नातमात्रो नरस्तत्र न पश्येद्योनिसङ्कटम् ॥ १२६.१ ॥
तत्र तीर्थे नरः स्नात्वा पूजयेद्देवमीश्वरम् ।
अयोनिजो महादेव यथा त्वं परमेश्वर ॥ १२६.२ ॥
तथा मोचय मां देव सम्भवाद्योनिसङ्कटात् ।
गन्धपुष्पादिधूपैश्च स मुच्येत्सर्वपातकैः ॥ १२६.३ ॥
तस्य देवस्य यो भक्त्या कुरुते लिङ्गपूरणम् ।
स वसेद्देवदेवस्य यावत्सिक्थस्य संख्यया ॥ १२६.४ ॥
अयोनिजे महादेवं स्नापयेद्गन्धवारिणा ।
मधुक्षीरेण दध्ना वा स लभेद्विपुलां श्रियम् ॥ १२६.५ ॥
अष्टभ्यां च सिते पक्षे असितां वा चतुर्दशीम् ।
पूजयित्वा महादेवं प्रीणयेद्गीतवाद्यकैः ॥ १२६.६ ॥
वसेत्स च शिवे लोके ये कुर्वन्ति मनोहरम् ।
ते वसन्ति शिवे लोके यावदाभूतसम्प्लवम् ॥ १२६.७ ॥
तस्य देवस्य भक्त्या तु यः करोति प्रदक्षिणाम् ।
विज्ञापयंश्च सततं मन्त्रेणानेन भारत ॥ १२६.८ ॥
तस्य यत्फलमुद्दिष्टं पारम्पर्येण मानवैः ।
सकाशाद्देवदेवस्य तच्छृणुष्व समाधिना ॥ १२६.९ ॥
अयोनिजो महादेव यथा त्वं परमेश्वर ।
तथा मोचय मां शर्व सम्भवाद्योनिसङ्कटात् ॥ १२६.१० ॥
किं तस्य बहुभिर्मन्त्रैः कंठशोषणतत्परैः ।
येनौंनमः शिवायेति प्रोक्तं देवस्य संनिधौ ॥ १२६.११ ॥
तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।
येनौंनमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः ॥ १२६.१२ ॥
न तत्फलमवाप्नोति सर्वदेवेषु वै द्विजः ।
यत्फलं समवाप्नोति षडक्षर उदीरणात् ॥ १२६.१३ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेच्छिवयोगिनम् ।
द्विजानामयुतं साग्रं स लभेत्फलमुत्तमम् ॥ १२६.१४ ॥
अथवा भक्तियुक्तस्तु तेषां दान्ते जितेन्द्रिये ।
संस्कृत्य ददते भिक्षां फलं तस्य ततोऽधिकम् ॥ १२६.१५ ॥
यतिहस्ते जलं दद्याद्भिक्षां दत्त्वा पुनर्जलम् ।
सा भिक्षा मेरुणा तुल्या तज्जलं सागरोपमम् ॥ १२६.१६ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिप्रभवतीर्थमाहात्म्यवर्णनं नाम षड्विंशत्युत्तरशततमोऽध्यायः ॥