स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११८

विकिस्रोतः तः


श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
इन्द्रतीर्थेतिविख्यातं नर्मदादक्षिणे तटे ॥ ११८.१ ॥

युधिष्ठिर उवाच -
नर्मदादक्षिणे कूले इन्द्रतीर्थं कथं भवेत् ।
श्रोतुमिच्छामि विप्रेन्द्र ह्यादिमध्यान्तविस्तरैः ॥ ११८.२ ॥
एतच्छ्रुत्वा तु वचनं धर्मपुत्रस्य धीमतः ।
कथयामास तद्वत्तमितिहासं पुरातनम् ॥ ११८.३ ॥

श्रीमार्कण्डेय उवाच -
विश्वासयित्वा सुचिरं धर्मशत्रुं महाबलम् ।
वृत्रं जित्वाथ हत्वा तु गच्छमानं शचीपतिम् ॥ ११८.४ ॥
निष्क्राममाणं मार्गेण ब्रह्महत्या दुरासदा ।
अहोरात्रमविश्रान्ता जगाम भुवनत्रयम् ॥ ११८.५ ॥
यतोयतो ब्रह्महणं याति यानेन शोभनम् ।
दिशो भागं सुरैः सार्द्धं ततो हत्या न मुञ्चति ॥ ११८.६ ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वगनागमः ।
पातकानां गतिर्दृष्टा न तु विश्वासघातिनाम् ॥ ११८.७ ॥
पापकर्ममुखं दृष्ट्वा स्नानदानैर्विशुध्यति ।
नारी वा पुरुषो वापि नैव विश्वासघातिनः ॥ ११८.८ ॥
एवमादीनि चान्यानि श्रुत्वा वाक्यानि देवराट् ।
वचनं तद्विधैरुक्तं विषादमगमत्परम् ॥ ११८.९ ॥
त्यक्त्वा राज्यं सुरैः सार्धं जगाम तप उत्तमम् ।
पुत्रदारगृहं राज्यं वसूनि विविधानि च ॥ ११८.१० ॥
फलान्येतानि धर्मस्य शोभयन्ति जनेश्वरम् ।
फलं धर्मस्य भुञ्जेति सुहृत्स्वजनबान्धवाः ॥ ११८.११ ॥
पश्यतां सर्वमेतेषां पापमेकेन भुज्यते ।
परं हि सुखमुत्सृज्य कर्शयन्वै कलेवरम् ॥ ११८.१२ ॥
देवराजो जगामासौ तीर्थान्यायतनानि च ।
गङ्गातीर्थेषु सर्वेषु यामुनेषु तथैव च ॥ ११८.१३ ॥
सारस्वतेषु सर्वेषु सामुद्रेषु पृथक्पृथक् ।
नदीषु देवखातेषु तडागेषु सरःसु च ॥ ११८.१४ ॥
पापं न मुञ्चते सर्वे पश्चाद्देवसमागमे ।
रेवाप्रभवतीर्थेषु कूलयोरुभयोरपि ॥ ११८.१५ ॥
पूजयन्वै महादेवं स्कन्दतीर्थं समासदत् ।
तव स्थित्वोपवासैश्च कृच्छ्रचान्द्रायणादिभिः ॥ ११८.१६ ॥
कर्शयन्वै स्वकं देहं न लेभे शर्म वै क्वचित् ।
ग्रीष्मे पञ्चाग्निमध्यस्थो वर्षासु स्थण्डिलेशयः ॥ ११८.१७ ॥
आर्द्रवासास्तु हेमन्ते चचार विपुलं तपः ।
एवं तु तपतस्तस्य इन्द्रस्य विदितात्मनः ॥ ११८.१८ ॥
वत्सराणां सहस्राणि गतानि दश भारत ।
ततस्त्वेकादशे प्राप्ते वर्षे तु नृपसत्तम ॥ ११८.१९ ॥
सहसा भगवान्देवस्तु तुतोष परमेश्वरः ।
तथा ब्रह्मर्षयः सिद्धा ब्रह्मविष्णुपुरोगमाः ॥ ११८.२० ॥
तत्राजग्मुः सुराः सर्वे यत्र देवः शतक्रतुः ।
दृष्ट्वा समागतान् देवानृषींश्चैव महामतिः ॥ ११८.२१ ॥
उवाच प्रणतो भूत्वा सर्वदेवपुरोहितः ।
विदितं सर्वमेतेषां यथा वृत्रवधः कृतः ॥ ११८.२२ ॥
युष्माकं चाज्ञया पूर्वं ब्रह्मविष्णुमहेश्वराः ।
तथाप्येवं ब्रह्महणं मत्वा पापस्य कारिणम् ॥ ११८.२३ ॥
भ्रमन्तं सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।
न नन्दति जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ ११८.२४ ॥
यथा विहीनचन्द्रार्कं तथा राज्यमनायकम् ।
तस्मात्सर्वे सुरश्रेष्ठा विज्ञाप्यं मम सम्प्रति ॥ ११८.२५ ॥
कुर्वन्तु शक्रं निर्दोषं तथा सर्वे महर्षयः ।
बृहस्पतिमुखोद्गीर्णं श्रुत्वा तद्वचनं शुभम् ॥ ११८.२६ ॥
ततः प्रोवाच भगवान्ब्रह्मा लोकपितामहः ।
एतत्पापं महाघोरं ब्रह्महत्यासमुद्भवम् ॥ ११८.२७ ॥
दैवतेभ्योऽथ भूतेभ्यश्चतुर्भागं क्षिपाम्यहम् ।
एवं मुक्त्वा क्षिपच्चैनो जलोपरि महामतिः ॥ ११८.२८ ॥
अवगाह्य ततः पेया आपो वै नान्यथा बुधैः ।
धरायामक्षिपद्भागं द्वितीयं पद्मसंभवः ॥ ११८.२९ ॥
अभक्ष्या तेन संजाता सदाकालं वसुंधरा ।
तदार्धमर्द्धं नारीणां द्वितीयेऽह्नि युधिष्ठिर ॥ ११८.३० ॥
निक्षिप्य भगवान्देवः पुनरन्यज्जगाद ह ।
असंग्राह्या त्वसंग्राह्या तेन जाता रजस्वला ॥ ११८.३१ ॥
चतुर्दिनानि सा प्राज्ञैः पापस्य महतो महात् ।
चतुर्थं तु ततो भागं विभज्य परमेश्वरः ॥ ११८.३२ ॥
कृषिगोरक्ष्यवाणिज्यैः शूद्रसेवाकरे द्विजे ।
ततोऽभिनन्दयामासुः सर्वे देवा महर्षयः ॥ ११८.३३ ॥
देवेन्द्रं वाग्भिरिष्टाभिर्नर्मदाजलसंस्थितम् ।
वरेण छन्दयामास ततस्तुष्टो महेश्वरः ॥ ११८.३४ ॥
वरं दास्यामि देवेश वरं वृणु यथेप्सितम् ॥ ११८.३५ ॥

इन्द्र उवाच -
यदि तुष्टोऽसि देवेश यदि देयो वरो मम ।
अत्र संस्थापयिष्यामि सदा संनिहितो भव ॥ ११८.३६ ॥
एवमस्त्विति चोक्त्वा तं ब्रह्मविष्णुमहेश्वराः ।
जग्मुराकाशमाविश्य स्तूयमाना महर्षिभिः ॥ ११८.३७ ॥
गतेषु देवदेवेषु देवराजः शतक्रतुः ।
स्थापयित्वा महादेवं जगाम त्रिदशालयम् ॥ ११८.३८ ॥
इन्द्रतीर्थे तु यः स्नात्वा तर्पयेत्पितृदेवताः ।
महापातकयुक्तोऽपि मुच्यते सर्वपातकैः ॥ ११८.३९ ॥
इन्द्रतीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
सोऽश्वमेधस्य यज्ञस्य पुष्कलं फलमश्नुते ॥ ११८.४० ॥
एतत्ते कथितं सर्वं तीर्थमाहात्म्यमुत्तमम् ।
श्रुतमात्रेण येनैव मुच्यन्ते पातकैर्नराः ॥ ११८.४१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे इन्द्रतीर्थमाहात्म्यवर्णनं नामाष्टादशोत्तरशततमोऽध्यायः ॥