स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११७

विकिस्रोतः तः


अध्याय ११७

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र पुण्यं तीर्थं त्रिलोचनम् ।
तत्र तिष्ठति देवेशः सर्वलोकनमस्कृतः ॥ ११७.१ ॥
तत्र तीर्थे तु यः स्नात्वा भक्त्यार्चयति शङ्करम् ।
रुद्रस्य भवनं याति मृतो नास्त्यत्र संशयः ॥ ११७.२ ॥
कल्पक्षये ततः पूर्णे क्रीडित्वा च इहागतः ।
आवियोगेन तिष्ठेत पूज्यमानः शतं समाः ॥ ११७.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे त्रिलोचनतीर्थमाहात्म्यवर्णनं नाम सप्तदशोत्तरशततमोऽध्यायः ॥