स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११४

विकिस्रोतः तः


अध्याय ११४

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।
अयोनिजं महापुण्यं सर्वपापप्रणाशनम् ॥ ११४.१ ॥
अयोनिजे नरः स्नात्वा पूजयेत्परमेश्वरम् ।
पितृदेवार्चनं कृत्वा मुच्यते सर्वकिल्बिषैः ॥ ११४.२ ॥
तत्र तीर्थे तु विधिना प्राणत्यागं करोति यः ।
स कदाचिन्महाराज योनिद्वारं न पश्यति ॥ ११४.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे अयोनिसम्भवतीर्थमाहात्म्यवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः ॥