स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ११३

विकिस्रोतः तः


अध्याय ११३

श्रीमार्कण्डेय उवाच -
ततो गच्छेत्तु राजेन्द्र कोटितीर्थमनुत्तमम् ।
ऋषिकोटिर्गता तत्र परां सिद्धिमुपागता ॥ ११३.१ ॥
तत्र तीर्थे तु यः स्नात्वा भोजयेद्ब्राह्मणाञ्छुचिः ।
एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥ ११३.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयेत्पितृदेवताः ।
पूजिते तु महादेवे वाजपेयफलं लभेत् ॥ ११३.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्रयोदशाधिकशाततमोऽध्यायः ॥