स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १०८

विकिस्रोतः तः


अध्याय १०८

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् ।
विख्यातं त्रिषु लोकेषु सर्वपापहरं परम् ॥ १०८.१ ॥

युधिष्ठिर उवाच -
रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् ।
श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि ॥ १०८.२ ॥

श्रीमार्कण्डेय उवाच -
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
उदधौ च शयानस्य देवदेवस्य चक्रिणः ॥ १०८.३ ॥
नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् ।
कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम् ॥ १०८.४ ॥
तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः ।
किं करोमीति देवेश आज्ञा मे दीयतां प्रभो ॥ १०८.५ ॥
एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः ।
उवाच मधुरां वाणीं तदा देवं पितामहम् ॥ १०८.६ ॥
सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया ।
भूतग्राममशेषस्य उत्पादनविधिक्षयम् ॥ १०८.७ ॥
एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत ।
चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया ॥ १०८.८ ॥
क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः ।
प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च ॥ १०८.९ ॥
यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः ।
दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरोऽनघ ॥ १०८.१० ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश ।
तथैव स महाभागः सप्तविंशतिमिन्दवे ॥ १०८.११ ॥
रोहिणीनाम या तासां मध्ये तस्य नराधिप ।
अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः ॥ १०८.१२ ॥
ततः सा परमं कृत्वा वैराग्यं नृपसत्तम ।
आगत्य नर्मदातीरे चचार विपुलं तपः ॥ १०८.१३ ॥
एकरात्रैस्त्रिरात्रैश्च षड्द्वादशभिरेव च ।
पक्षमासोपवासैश्च कर्शयन्ति कलेवरम् ॥ १०८.१४ ॥
आराधयन्ती सततं महिषासुरनाशिनीं ।
देवीं भगवतीं तात सर्वार्तिविनिवारणीम् ॥ १०८.१५ ॥
स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता ।
ततस्तुष्टा महाभागा देवी नारायणी नृप ॥ १०८.१६ ॥
प्रसन्ना ते महाभागे व्रतेन नियमेन च ।
एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया ॥ १०८.१७ ॥
यथा भवामि न चिरात्तथा भवतु मानदे ।
एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला ॥ १०८.१८ ॥
स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत ।
तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया ॥ १०८.१९ ॥
संजाता सर्वकालं तु वल्लभा नृपसत्तम ।
तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः ॥ १०८.२० ॥
वल्लभा जायते सा तु भर्तुर्वै रोहिणी यथा ।
तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै ॥ १०८.२१ ॥
सप्तजन्मानि दाम्पत्यवियोगो न भवेत्क्वचित् ॥ १०८.२२ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥