स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १०७

विकिस्रोतः तः


अध्याय १०७

श्रीमार्कण्डेय उवाच -
ततो गच्छेत राजेन्द्र भण्डारीतीर्थमुत्तमम् ।
दरिद्रच्छेदकरणं युगान्येकोनविंशतिः ॥ १०७.१ ॥
धनदेन तपस्तप्त्वा प्रसन्ने पद्मसम्भवे ।
तत्रैव स्वल्पदानेन प्राप्तं वित्तस्य रक्षणम् ॥ १०७.२ ॥
तत्र गत्वा तु यो भक्त्या स्नात्वा वित्तं प्रयच्छति ।
तस्य वित्तपरिच्छेदो न कदाचिद्भविष्यति ॥ १०७.३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे भण्डारीतीर्थमाहात्म्यवर्णनं नाम सप्तोत्तरशततमोऽध्यायः ॥